तृतीयाः पाद: - सूत्र २४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्ध्टदि हि ॥२४॥

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्ध्टदि हि ।
अत्राह यदुक्तमविरोधस्चन्दनवदिति तदयुक्तं दृष्टान्तदार्ष्टान्तिकर्योरतुल्यत्वात् ।
सिद्धे हयात्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति ।
प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाहलादनं च ।
आत्मन: पुन: सकलदेहोपलब्धिमात्रं प्रत्यक्षं नैकदेशवर्तित्वम् ।
अनुमेयं तु तदिति यदप्युच्येत न चात्रानुमानं संभवति ।
किमात्मन: सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिन: सत: किंवा विभोर्नभस इव आहोस्विच्चन्दनबिन्दोरिवाणोरेकदेशस्थस्येति संशयानतिवृत्तेरिति ।
अत्रोच्यते । नायं दोष: ।
कस्मात् । अभ्युपगमात् ।
अभ्युपगम्यते हयात्मनोपि चन्दनस्येव देहैकदेशवृत्तित्वमवस्थितिवैशेष्यम् ।
कथमित्युच्यते । हृदि हयेष आत्मा पठयते वेदान्तेषु ।
ह्रदि हयेष आत्मा स वा एष आत्मा हृदि कतम आत्मेति योऽयं विज्ञानमय: प्राणेषु हृद्यन्तर्ज्योति: पुरुष इत्याद्युपदेशेभ्य: ।
तस्माद्द्टर्ष्टान्तिकयोरवैषम्याद्युक्तमेवैतदविरोधश्चन्दनवदिति ॥२४॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP