तृतीयाः पाद: - सूत्र १९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


उत्क्रान्तिगत्यागतीनाम् ॥१९॥

उत्क्रान्तिगत्यागतीनाम ।
इदानीं तु किंपरिमाणो जीव इति चिन्त्यते ।
किमणुपरिमाण उत मध्यमपरिमाण आहोस्विन्महत्परिमाण इति ।
ननु च नात्मोत्पद्यते नित्यचैतन्यश्चायमित्युक्तम् ।
अतश्च पर एवात्मा जीव इत्यापतति ।
परस्य चात्मनोऽनन्तत्वमान्नातं तत्र कुतो जीवस्य परिमाणचिन्तावतार इति ।
उच्यते । सत्यमेतत् ।
उत्क्रान्तिगत्यागतिश्रवणानि तु जीवस्य परिच्छेदं प्रापयन्ति ।
स्वशब्देन चास्य क्वचिदणुपरिमाणत्वमान्नायते ।
तस्य सर्वस्यानाकुलत्वोपपादनायायमारम्भ: ।
तत्र प्राप्तं तावदुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिनोऽणुपरिमाणो जीव इति ।
उत्क्रान्तिस्तावत्स यदास्माच्छरीरादुत्क्रामति सहैवैतै: सर्वैरुत्क्रामतीति ।
गतिरपि ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ।
आगतिरपि तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मण इति ।
आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति ।
न हि विभोश्चलनमवकल्पत इति ।
सति च परिच्छेदे शारीरपरिमाणत्वस्यार्हतपरीक्षायां निरस्तत्वादणुरात्मेति गम्यते ॥१९॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP