तृतीयाः पाद: - सूत्र ३३-३५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


कर्ता शास्त्रार्थवत्त्वात् ॥३३॥

कर्ता शास्त्रार्थवत्त्वात् ।
तद्नुणसारत्वाधिकारेणिअवापरोऽपि जीवधर्म: प्रपञ्च्यते ।
कर्ता चायं जीव: स्यात् ।
कस्मात् । शास्त्रार्थवत्वात् ।
एवं च यजते जुहुयाद्दद्यादित्येवंविधं विधिशास्त्रमर्थवद्भवति ।
अन्यथा तदनर्थकं स्यात् ।
तद्धि कर्तु: सत: कर्तव्यविशेषमुपदिशति ।
न चासति कर्तृत्वे तदुपपद्येत ।
तथेदमपि शास्त्रमर्थवद्भवत्येष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष इति ॥३३॥

विहारोपदेशात् ॥३४॥

विहारोपदेशात् ॥
इतश्च जीवस्य कर्तृत्वं यज्जीवप्रक्रियायं सन्ध्ये स्थाने विहारमुपदिशति स ईयतेऽमृतो यत्र काममिति स्वे शरीरे यथाकामं परिवर्तत इति च ॥३४॥

उपादानात् ॥३५॥

उपादानात् ।
इतश्चास्य कर्तृत्वं यज्जीवप्रक्रियायामेव करणानामुपादानं संकीर्तयति तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति प्राणान्गृहीत्वेति च ॥३५॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP