तृतीयाः पाद: - सूत्र १७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्य: ॥१७॥

नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्य: ।
अस्त्यात्मा जीवाख्य: शरीरेन्द्रियपञ्जराध्यक्ष: कमंफलसंबन्धी ।
स किं व्योमादिवदुत्पद्यते ब्रम्हाण आहोस्विदब्रम्हावदेव नोत्पद्यत इति श्रुतिविप्रतिपत्तेर्विशय: ।
कामुचिच्छुतिष्वग्निविस्फुविस्फुलिङ्गादिनिदर्शनैर्जीवात्मन: परस्मादब्रम्हाण उत्पत्तिरान्नायते कासुचित्त्वविक्रुतस्यैव परस्य ब्रम्हाण: कार्यप्रवेशेन जीवभावो विज्ञायते न चोत्पत्तिरान्नायत इति ।
तत्र प्राप्तं तावदुत्पद्यते जीव इति ।
कुत: । प्रतिज्ञानुपरोधादेव ।
एकस्मिन्विदिते सर्वमिदं विदितमितीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रम्हाप्रभवत्वे सति नोपरुध्येत ।
तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्ये ।
न चाविकृत: परमात्मैव जीव इति शक्यते  विज्ञातुं लक्षणभेदात् ।
अपहतपाप्मत्वादिधर्मको हि परमात्मा तद्विपरीतो हि जीव: ।
विभागाच्चास्य विकारत्वसिद्धि: ।
यावान्हयाकाशादि: प्रविभक्त: स सर्वो विकारस्तस्य चाकाशादेरुत्पत्ति: समधिगता ।
जीवात्मापि पुण्यापुण्यकर्मा सुखदु:खयुक्प्रतिशरीरं विभक्त इति तस्यापि प्रपञ्चोत्पत्त्यवसर उत्पत्तिर्भवितुमर्हति ।
अपि च यथाग्ने: क्षुद्रा विस्फुलिङ्गा व्यौच्चरन्त्येवमेवास्मादात्मन: सर्वे प्राणा इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्टवा सर्व एत आत्मानो व्युच्चरन्तीति भोक्तृणामात्मनां पृथक्सृष्टिं शास्ति ।
यथा सुदीप्तात्पावकाद्विस्फुलिङगा: सहस्रशा: प्रभवन्ते सरूपा: ।
तथाक्षराद्विविधा: सोम्य भावा: प्रजायन्ते तत्र चैवापि यन्तीति च जीवात्मनामुत्पत्तिप्रलयावुच्येते ।
सरूपवचनाज्जीवात्मानो हि परमात्मना सरूपा भवन्ति चैतन्ययोगात् ।
न च क्वचिद्श्रवणमन्यत्र  श्रुतं वारयितुमर्हति ।
श्रुत्यन्त्रगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वात्।
प्रवेशश्रुतिरप्येवं सति विकारभावापत्त्यैव व्याख्यातव्या तदात्मान स्वयमकुरुतेत्यादिवत् ।
तस्मादुत्पद्यते  जीव इति ।
एवं प्राप्ते ब्रूम: ।
नात्मा जीव उत्पद्यत इति ।
कस्मात् । अश्रुते: ।
न हयस्योत्पत्तिप्रकरणे श्रवणमस्ति भूय:सु प्रदेशेषु ।
ननु क्वचिदश्रवणमन्त्रत्र श्रुत न वारयतीत्युक्तम ।
सत्यमुक्तम् । उत्पत्तिरेव त्वस्य न संभवतीति वदाम: ।
कस्मात् ।
नित्यत्वाच्च ताभ्य: ।
चशब्दादजत्वादिभ्यश्च ।
नित्यत्वं हयस्य श्रुतिभ्योऽवगम्यते तथाजत्वमविकारित्वमविकृतस्यैव ब्रम्हाणो जीवात्मनावस्थानं ब्रम्हात्मना चेति ।
न चैवंरूपस्योत्पत्तिरुपपद्यते ।
ता: का: श्रुतय: ।
न जीवो म्रियते स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रम्हा न जायते म्रियते वा विपश्चिदजो नित्य: शाश्चतोऽयं पुराणस्तत्सृष्ट्वा तदेवानुप्राविशदनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि स एष इह प्रविष्ट आनखाग्रेभ्यस्तत्त्वमस्यहं ब्रम्हास्म्ययमात्मा ब्रम्हा सर्वानुभूरित्येवमाद्या नित्यत्ववादिन्य: सत्यो जीवस्योत्पत्तिं प्रतिबन्धन्ति ।
ननु प्रविभक्तत्वाद्विकारोविकारत्वाच्चोत्पद्यत इत्युक्तम ।
अत्रोच्यते ।
नास्य प्रविभाग: स्वतोऽस्ति ।
एको देव: सर्वभूतेषु गूढ: सर्वव्यापी सर्वभूतान्तरात्मेति श्रुते: ।
बुद्धयाद्युपाधिनिमित्तं त्वस्य प्रविभागप्रतिभानमाकाशस्येव घटादिसंबन्धनिमित्तम् ।
तथा च शास्त्रं स वा अयमात्मा ब्रम्हा विज्ञानमयो मनोमय: प्राणमयश्चक्षुर्मय: श्रोत्रमय इत्येवमादि ब्रम्हाण एवाविकृतस्य सतोऽस्यैकस्यानेकबुद्धादिमयत्वं दर्शयति ।
तन्मयत्वं चास्य तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वं स्त्रीमयो जाल्म इत्यादिवद्द्रव्यम् ।
यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं तदप्यत एवोपाधिसंबन्धान्नेतव्यम् ।
उपाध्युत्पत्त्या चास्योत्पत्तिस्तत्प्रलये च प्रलय इति ।
तथा च दर्शयति ।
प्रज्ञानघन एवैतेभ्यो भूतेभ्य: समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीति ।
तथोपाधिप्रलय एवायं नात्मप्रलय इत्येतदप्यत्रैव मा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि न प्रेत्य संज्ञाऽस्तीति प्रश्नपूर्वकं प्रतिपादयति ।
न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतीति ।
प्रतिज्ञानुपरोधोऽप्यविकृतस्यैव ब्रम्हाणो जीवभावाभ्युपगमात् ।
लक्षणभेदोऽप्यनयोरुपाधिनिमित्त एव ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति च प्रकृतस्यैव विज्ञानमयस्यात्मन: सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात् ।
तस्मान्नैवात्मोत्पद्यते प्रविलीयते चेति ॥१७॥

N/A

References : N/A
Last Updated : December 09, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP