तृतीयाः पाद: - सूत्र ३२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥३२॥

नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ।
तच्चात्मन उपाधिभूतमन्त: -करणं मनो बुद्धिर्विज्ञानं चित्तमिति चानेकधा तत्र तत्राभिलप्यते ।
क्वचिच्च वृत्तिविभागेन संशयादिवृत्तिकं मन इत्युच्यते निश्चयादिवृत्तिकं बुद्धिरिति ।
तच्चैवंभूतमन्त: - करणमवश्यमस्तीत्यभ्युपगन्तव्यम् ।
अन्यथा हयनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्ग: स्यात् ।
आत्मेन्द्रियविषयाणामुपलब्धिसाधनानं संनिधाने सति नित्यमेवोपलब्धि: प्रसज्येत ।
अथ सत्यपि हेतुसमवधाने फलाभावस्ततो नित्यमेवानुपलब्धि: प्रसज्येत ।
न चैवं दृश्यते ।
अथ वाऽन्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धोऽभ्युपगन्तव्य: ।
न चात्मन: शक्तिप्रतिबन्ध: संभवति ।
अविक्रियत्वात् ।
नापीन्द्रि यस्य ।
न हि तस्य पूर्वोत्तरयो: क्षणयोरप्रतिबद्धशक्तिकस्य सतोऽकस्माच्छक्ति: प्रति बध्येत ।
तस्माद्यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतस्तन्मन: ।
तथा च श्रुति: ।
अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा हयेव पश्यति मनसा शृणोतीति कामादयश्चास्य वृत्तय इति दर्शयति काम: संकल्पो विचिकित्य्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्भीरित्येतत्सर्वं मन एवेति ।
तस्माद्युक्तमेतत्तदनुणसारत्वात्तव्द्यपदेश इति ॥३२॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP