अथसाग्नेर्धिशेषः गृह्याग्निमतोगृह्याग्निताग्निमतस्त्रेताग्निभिर्दाहःकार्यः तत्नगृह्याग्निमतः
श्रौताग्निमतश्चकृष्णपक्षेमरणेतदैवसायंकालाहुतीर्दर्शसायंकालपर्यन्ताः
पक्षहोमवत्सकृद्ग्रहणेनैवहुत्वापुनःसंकल्पपूर्वकंप्रातराहुतीश्चप्रतिपत्प्रातर्होमान्तास्तद्वदेवहुत्वादर्शयागंकुर्यात्
यागासंभवेआज्यंसंस्कृत्यस्त्रुचिचतुर्वारंगृहीत्वापुरोनुवाक्यायाज्याभ्यामेकैकांप्रधानाहुतिंजुहुयात्
स्मार्तेतुचतुर्गृहीताज्येनाग्नयेस्वाहेन्द्राग्निभ्यांस्वाहेतिनाम्नैवप्रधानाहुतिद्वयम्
शुक्लपक्षेरात्नौमरणेसायंहोमस्यकृत्वात्प्रातर्होममात्नमाकृष्यतदैवकुर्यात्
नात्नपौर्णिमान्तानांदर्शान्तानांवाहोमानामिष्टिप्रधानपूर्णाहुतीनांवाकरणमशुक्लपक्षेदिवसामरणेतुनकस्यापिहोमस्याकर्षणम्
एवंकृष्णपक्षमरणेपिदैवात्पूर्णमासेष्टयतिक्रमेहोमापकर्षप्रधानपूर्णाहुत्यादिकंचकृतमनारब्धत्वादिति
भाति करणपक्षेऽतिक्रान्तपूर्णमासपूर्णाहुतीर्हुत्वापक्षहोमान्कृत्वादर्शपूर्णाहुतयःकार्याः
अग्नावरण्योरारुढेप्रमीयेतपतिर्यदि ।
प्रेतंस्पृष्टामथित्वाग्निंजप्त्वाचोपावरोहणम् घृतंचद्वादशोपात्तंतूष्णींहुत्वाशवक्रिया ।
विच्छिन्नश्रौताग्नेर्मृतौतुप्रेताधानंकार्यम् तद्यथाप्रेस्वाग्न्यालयेक्षिप्त्वारणीसंनिधाप्य
यस्याग्नयोजुव्हतोमांसकामाःसंकल्पयन्तेयजमानमांसं
जायतुतेहविषेसादितायस्वर्गेसोकमिमंप्रेतंनयत्वितियजुर्मत्रेणमथित्वाग्निमायतनेप्रणीय
द्वादशगृहीताज्येनतूष्णींहुस्वातेनदाहादिकार्यम् नष्टेष्वग्निष्वथारण्योर्नाशेस्वामीम्नियेतचेत् ।
आहरेदरणीद्वन्द्वंमनोज्योतिऋचाततः शेषंप्राग्वत् ॥