संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथश्राद्धभोजनेप्रायश्चित्तानि

धर्मसिंधु - अथश्राद्धभोजनेप्रायश्चित्तानि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथश्राद्धभोजनेप्रायश्चित्तानि दर्शश्राद्धेषट्‌प्राणायामाः

महालयादिश्राद्धेषुत्रिवर्षोर्ध्वप्रतिवार्षिकेषुचषट्‌प्राणायामाः

गायत्र्यादशकृत्वोभिमन्त्रितस्यजलस्यपानंवा एवमन्येष्वप्यनुक्तप्रायश्चित्तश्राद्धेषूक्तजलपानमेव

वृद्धिश्राद्धेप्राणायामत्रयम् जातकर्मादिचूडान्तसंस्काराङ्गवृद्धिश्राद्धेसान्तपनकृच्छ्रम्

जातकर्माङ्गश्राद्धेचान्द्रायणंवा अन्यसंस्काराङ्गश्राद्धेउपवासः

सीमन्तसंस्कारेतत्संकाराङ्गश्राद्धेचचान्द्रायणम् आपदिदशाहान्तर्नवसंज्ञकश्राद्धेषु

एकदशाहेचश्राद्धभोजनेप्राजापत्यकृच्छ्रम् द्वादशाहिकसपिण्डीश्राद्धेऊनमासेचपादोनकृच्छ्रः

द्वितीयमासिकत्रैपक्षिकोनषाण्मासिकोनाब्दिकेष्वर्धकृच्छ्रः

अन्यमासिकेषुप्रथमाब्दिकेवर्षान्तसपिण्डश्राद्धेचपादकृच्छ्रः उपवासोवा

गुरवेद्रव्यंदातुंश्राद्धभोजनेसर्वत्रोक्तार्धम् जपशीलेतदर्शम् अनापद्यूनमासान्तेषुचान्द्रायणंप्रजापत्यंच

द्विमासाद्युक्तचतुर्षुपादोनक्रुच्छ्रः त्रिमासादिषुपूर्वोक्तेष्वर्धकृच्छ्रः प्रथमाब्दिकेपादोनकृच्छ्रः

द्वितीयतृतीयाब्दिकेएकोपवासः क्षत्रियश्राद्धेएतद्विगुणम् वैश्यश्राद्धेत्रिगुणम् शूद्रश्राद्धेसर्वत्रचतुर्गुणम्

चाण्डालविषजलसर्पपश्वादिहतपतितक्लिबादिनवश्राद्धेचान्द्रायणम्

एकादशाहान्तंपराकश्चान्द्रंच द्वादशाहादौपराकः द्विमासादिचतुर्ष्वतिकृच्छ्रः

अन्यमाक्षिकेषुकृच्छः आब्दिकेपादः अभ्यासेसर्वत्रसर्वद्विगुणम्

आमहेमश्राद्धेसांकल्पिकेचतत्तदुक्तप्रायश्चित्तार्धम्

यतिश्चब्रह्मचारीचपूर्वोक्तप्रायश्चित्तंकृत्वोपवासत्रयंप्राणायामशतंघृतप्राशनंचाधिकंचरेत्

अनापदिद्विगुणंचरेत् दर्शादौगृहिवदेव ब्रह्मचारिणश्चोलसंस्कारेभोजने कृच्छ्रः

सीमन्तेचान्द्रम् अन्येषूपवासः एकादशाहश्रमोश्राद्धभोजनेचान्द्रंपुनःसंस्कारश्चेतिहेमाद्रिः ॥

N/A

References : N/A
Last Updated : March 01, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP