अथामश्राद्धम् तत्रकेनचित्संकटेनपाकासंभवेजातकर्मणिचग्रहणनिमित्तकश्राद्धेचामश्राद्धंकार्यम्
सपिण्डनश्राद्धंमासिकंप्रतिवार्षिकंमहालयाष्टकान्वष्टकादिश्राद्धंचामेननकार्यम्
शूद्रस्यतुदशाहापिण्डादिश्राद्धमात्रमानेन नकदापिपाकेन
तत्रपितृनुद्दिश्यामुकश्राद्धंसदैवंसपिण्डमामेनहविषाकरिष्यइतिसंकल्पः
अन्यःप्रयोगःपूर्वोक्तएव पाकप्रोक्षणस्थानेआमप्रोक्षणम
आवाहनेउशंतस्त्वेतिमन्त्रेहविषेअत्तवेइत्यत्रहविषेस्वीकर्तवेइत्यूहः
भस्ममर्यादान्तंप्राग्वत् विप्रहस्तेषुतुण्डुलैरग्नौकरणम्
अनाच्चतुर्गुणंद्विगुणंसम्मातत्तदामंपात्रेषुसंस्थाप्यपाणिहोमशेषंपिण्डार्थसंस्थाप्यपात्रेषुदत्वापृथ्वीतेपात्रमित्यादि
इदमाम्हव्यंकव्यमित्यादि इदमामममृतरूपंस्वाहेत्यादियथाधर्ममध्वित्यन्तं
प्राकृतम् यथसुखंजुहध्वमित्यस्यापोशनप्राणाहुतितृप्तिप्रश्नानालोपः
संपन्नवाचनान्तेन्नशेषप्रश्नलोपः सर्वमतेतण्डुलैःसक्तुभिर्वापिण्डदानम्
केचिद्गृहसिद्धान्नेपायसेनवापिण्डानाहुः ॥
एवंविप्रसमिपेपिण्डदानान्तेनमोवःपितरइषेइत्यत्रोपस्थानमन्त्रइषेस्थानेआमद्रव्यायेत्यूहः
पिण्डोद्वासनान्तेपिण्डजातीयद्रव्येणविकिरदानम् आमश्राद्धेस्वस्तीतिब्रूतेतिवर्ज्यम्
वाजेवाजेइतिमन्त्रेतृप्तायातेतिस्थानेतर्प्स्यथयातेत्यूहः ततः प्राग्वच्छेषंसमापयेत्
आमश्राद्धंद्विजैःपूर्वाह्णेकार्यम् शूद्रैरपराह्णएव आमान्नाभावेहिरण्यश्राद्धमप्येवमेव
संकल्पादौसर्वत्रहिरण्यपदमापदस्थानेयोज्यम् ॥
आमवद्धेमप्रोक्षणम् अत्तवइत्यादिमन्त्रत्रयोहःप्राग्वदेव
तण्डुलादिभिर्हस्तेऽग्नौकरणम्हिरण्यमन्नादष्टगुणंचतुर्गुणंद्विगुणंसमंवादेयम्
हिरण्यश्राद्धेदक्षिणास्त्येव श्राद्धीयमामंहेमवाद्विजदत्तंयेथेष्टंविनियोज्यम्
शूद्रदत्तंतुभोजनादन्यत्रविनियोज्यम् श्राद्धीयामेनपञ्चयज्ञाःश्राद्धंचनकार्यम्
हेमश्राद्धेआमश्राद्धेचपिण्डदानविकल्पात्सांकल्पिकविधिनाप्येतद्वयम् ॥
सांकल्पिकेचसमन्त्रकावाहनार्घ्याग्नौकरणपिण्डदानविकिराक्षय्यस्वधावाचनप्रश्नेत्येतत्सप्तकंवर्ज्यम्
तत्रामुकश्राद्धमामेनहविषाहिरण्येनवासांकल्पिकविधिनाकरिष्य
इतिसंकल्पः शूद्रगृहेऽन्यदीयमपिक्षीराद्यपिनभक्ष्यम् किमुततदीयमामादि
तद्गृहेपक्त्वानभक्ष्यमिति तस्माच्छूद्राल्लब्धंद्विजगृहेपक्त्वाभक्ष्यम् इत्यामश्राद्धहेमश्राद्धविधिः ॥