ग्रामह्येयावच्छवस्तिष्ठतितावतग्रामस्याशौचम् नगरैतुनैवम् ग्रामनगरलक्षणान्यन्यत्र
गृहेगवादिपशुमृतौयवच्छवस्तिष्ठेत्तावदाशौचम् द्विजगृहेशुनोमृतौगृहस्यदशरात्रमाशौचम्
शूद्रमरणेमासम् पतितमृतौमासद्वयम् म्लेच्चादिभ्रुतौमासचतुष्ट्यम्
दासानांग्रुहजातक्रीतऋणमोक्षितलब्धत्वादिप्रकाराणांस्वामिमरणेस्वजातीयाशौचम्
युद्धेशस्त्रघातेनसद्योमृते स्नानमात्रंनाशौचमन्त्यकर्मापिदशाहादिकंसद्यएवकर्तव्यम्
युद्धक्षतेनकालन्तरेमरणे एकाहः त्र्यहादूर्ध्वंयुद्धक्षतेनमरणेपराङ्मुखहतेयुद्धेकपटेनहतेचत्रिरात्रम्
युद्धक्षतेनसप्तरात्रादूर्ध्वमृतौदशाहमित्याहः शिष्टास्तुयुद्धेहतस्यसद्यःशौचादिकंलोकविद्विष्टत्वान्नवदन्ति
प्रयागादौकाम्य मरणेस्नानमात्रम् प्रायश्चित्तार्थमग्न्यादिमरणे एकाहः
महारोगपीडाक्षमाणांजलादिप्रवेशेत्रिरात्रम् अत्रापिनशिष्टाचारसंमतिः एवंकारागृहेमृतस्यैकरात्रेऽपि ॥