माघशुक्लसप्तमीरथसप्तमी सारुणोदयव्यापिनीग्राह्यादिनद्वयेऽरुणोदयव्याप्तौपुर्वा
यदाघटिकादिमात्राषष्ठीसप्तमीचक्षयवशादरुणोदयात्पूर्वसमाप्यतेतदाषष्ठीयुक्ताग्राह्या
तत्रषष्ठ्यांसप्तमीक्षयघटीःप्रवेश्यारुणोदयेस्नानंकार्यम् अत्रव्रते षष्ह्यामेकभक्तंकुत्वासप्तम्यामरुणोदयेस्नानंकार्यम् तत्रमन्त्रः
यदाजन्मकृतंपापं मयाजन्मसुजन्मसु । तन्मेरोगंचशोकंचमाकरीहंतुसप्तम १ एतज्जन्मकृतंपापंयच्चजनमन्तरार्जितम् ।
मनोवाक्कायजंयचज्ञाताज्ञातेचयेपुनः २ इतिसप्तविधंपापंस्नानान्मेसप्तसप्तिके ।
सप्तव्याधिसमायुक्तंहरमाकरिसप्तमि ३ अथार्घ्यमन्त्रः सप्तसप्तिवहप्रीतसप्तलोकप्रदीपन ।
सप्तमीसहितोदेवगृहाणार्घ्यंदिवाकर १ इति इयंचमन्वादिरपि शुक्लपक्षमन्वादित्वात्पौर्वाह्णिकीग्राह्येत्युक्तम् ।