तुलामेषसंक्रांतिर्विषुवसंज्ञा तस्याःपूर्वाःपराश्चपञ्चदशपञ्चदशनाड्यः पुण्यकाल विशेषःप्रगुक्तएव
आश्विनशुक्लप्रतिपदिदेवीनवरात्रारम्भः नवरात्रशब्दःआश्विनशुक्लप्रतिपदमारभ्यमहानवमीपर्यन्तंक्रियमाणकर्मनामधेयम्
तत्रकर्मणिपूजैवप्रधानं उपवासादिकंस्तोत्रजपादिकंचांगम् तथा
चयथाकुलाचारमुपवासैकभक्तनक्तायाचितान्यतमव्रतयुक्तंयथाकुलाचारंसप्तशती
लक्ष्मीह्रदयादिस्तोत्रजपसहितंप्रतिपदादिनवम्यन्तनवतिथ्यधिकरणपूजाख्यंकर्मनवरात्रशब्दवाच्यम्
पूजाप्राधान्योरेक्तेरेवक्वचित्कुलेजपोपवासादिनियमस्यव्यतिरेकउपलभ्यते
पूजायास्तुनक्वापिकुलेनवरात्रकर्मण्यभावोदृश्यतेयत्कुलेनवरात्रमेवनानुष्ठीयतेतत्रनवरात्रपूजादेरप्यभावआस्तांनामसचनवरात्रारम्भः
सूर्योदयोत्तरंत्रिमुहूर्तव्यापिन्यांप्रतिपदिकार्यः तदभावेद्विमुहूर्तव्यापिन्यामपि
क्वचिन्मुहूर्तमात्रव्यापिन्यामप्युक्तःसर्वथादर्शयुक्तप्रतिपिदनकार्य
इतिबहुग्रन्थसंमत्तम मुहूर्तन्यूनव्याप्तौसूर्योदयास्पर्शेवादर्शयुतापिग्राह्या
प्रथमदिनेषष्टिघतिकाप्रतिपद्द्वीतीयदिनेमुहूर्तद्वयादिपरिमितावर्धते तदापूर्णत्वात्पूर्वैवग्राह्या
द्वितीया वेधनिषेधोपिएतत्पक्षद्वयेएवयोज्यः
पुरुषार्थचिन्तामणौतुपूर्वदिनेमुहूर्तचतुष्टयोत्तरंमुहूर्तपञ्चकोत्तरंवाप्रवृत्तद्वितीयादिनेमुहूर्तद्वयादिपरिमिताप्रतिपत्
तदापरस्याःक्षयगामितयानिषिद्धत्वादमायुक्तापिपूर्वैवग्राह्येत्युक्तम्
तत्रसूर्योदयोत्तरंदशघटीमध्येतत्रासंभवेमध्याह्नेऽभिजिन्मुहूर्तेप्रारम्भःकार्योनत्वपराह्णे
एवंच प्रतिपदआद्यषोडशनाडीनिषेधश्चित्रावैधृतियोगनिषेधश्चोक्तकालानुरोधेनसतिसंभवे
पालनीयोनतुनिषेधानुरोधेनपूर्वाह्णःप्रारम्भकालःप्रतिपत्तिथिर्वातिक्रमणीयाः ।