अथपारणा उभयान्तेपारणंमुख्यःपक्शःअन्यतरान्तेगौणःपक्षः तत्रविष्णुशृङ्खलाभावेत्रयोदश्यामुभयान्तेपारणम्
विष्णुशृङ्खलयोगेतुपूर्वदिनेतन्त्रेणकृतोपवासद्वस्य परदिनेश्रवनर्क्षातद्वादश्याधिक्येश्रवणमतिक्रम्यद्वादश्यांपारणम्
यदिचद्वादश्यपेक्शयाश्रवणाधिक्यंपारणादिनेभवतितदाएकादशीव्रतपारणायांद्वादश्युल्लंघनेदोषोक्तेर्द्वादश्यामेवपारणं
नत्वन्यतरान्तापेक्षा तत्र सतिसंभवेश्रवणमध्यभांगविंशत्यादिघटिकात्मकंत्यक्त्वापारणम् यथैकादशी
३० उत्तराषाढा २९ द्वादशी २५ श्रवणं २९
अत्रपूर्वेद्युस्तन्त्रेणोपवासद्वयंकृत्वापरेह्निश्रवणमध्यभागमवशिष्टंनवघटिकात्मकंत्यक्त्वाद्वादश्यांचरमे
विंशतिघटिकारूपे श्रवणभागेपारणम् एवमुक्तोदाहरणेएवएकादश्याःदशनाडिकात्वे द्वादश्याः अष्टनाडिकात्वे
द्वादशीश्रवणयोःपञ्चदशचत्वारिंशन्नाडीत्वे वाश्रवणमध्यभागत्यागेद्वादश्युल्लंघनापत्तौसंगवकालंत्यक्त्वामुहूर्तत्रयपर्यन्तं
सप्तमुहूर्तादौवाऋक्षमध्यभागेएवभोक्तव्यम् अयंमध्यभागत्यागोभाद्रगतश्रवणद्वादशीव्रतएव
नतु माघफाल्गुनमासकृष्णपक्षगतश्रवणद्वादशीव्रतपारणायाम् , मासान्तरगतश्रवणभागेविष्णुपरिवर्तनाभावात्
येतुभाद्रेश्रवणमध्यवर्जनमात्रेननिषेधचारितार्थ्यंमन्यमानाविष्णुशृङ्खलयोगाभावेपिश्रवण
मध्यमात्रंत्यक्त्वाभुञ्जन्तेतेनित्यश्रवणद्वादशीव्रतमाहात्म्यानभिज्ञाभ्रान्ताएव अयंसर्वोपि
निर्णयोमासन्तरगतश्रवणद्वादशीव्रतेप्यूह्यः श्रवणद्वादशीव्रतेनदीसंगमेस्नात्वा
कलशेस्वर्णमयंजनार्दननामानंविष्णुंसंपूज्य वस्त्रयज्ञोपवीतोपानच्चत्रादिसमर्प्योपोष्य पारणादिनेदध्योदनयुतं
वस्त्रवेष्टितंजलपूर्णघटंछत्रादियुतांपूजितांसपरिवारांतांप्रतिमांचद्द्यात् तत्रमन्त्रः नमोनमस्तेगोविन्दबुधश्रवणसंज्ञक ।
अघौघसंक्षयंकृत्वासर्वसौख्यप्रदोभव १ इति ।