कर्कसंक्रान्तौ पूर्वंत्रिंशन्नाड्यः पुण्यकालः तत्रापिसंक्रांन्तिसन्निहितानाड्यःपुण्यतमाः
रात्रावर्धरात्रात्प्राक्परतश्चसंक्रमेपिपूर्वदिनेपुण्यकालःतत्रापिमध्याह्नात्परतः पुण्यतमत्वम्
सूर्योदयोत्तरंघटीद्वयात्प्राक्संक्रमेपरतएवपुण्यम् ज्योतिर्ग्रन्थेतुसूर्योदयात्प्राक्घटीत्रयात्मक
संध्यासमयेपिकर्कसंक्रमेपरदिनेएवपुण्यमित्युक्तम्
अत्रदानोपवासादिप्रथमपरिच्छेदेउक्तम् कर्ककन्याधनुःकुम्भस्थेरवौ केशकर्तनादिकांनीनिषिद्धम्
आषाढेमासमेकभक्तव्रतेकृतेबहुधनधान्यपुत्रप्राप्तिः अत्रमासेउपानच्छत्रलवणामलकानिवामनप्रीत्यैदेयानि
आषाढशुक्लद्वितीयायांपुष्यनक्षत्रयुतायांकेवलायांवा श्रीरामस्यरथोत्सवः
आषाढशुक्लपक्षेदशमीपौर्णमासीचमन्वादिः तन्निर्णयस्तूक्तः