अत्रकर्मणिब्राह्मणादिचतुर्वर्णस्यम्लेंच्छादेश्चाधिकारः तत्रविप्रेणजपहोमान्नबलिनैवेद्यैःसात्विकीपूजाकार्या नैवेद्यैश्चनिरामिषैः ।
मद्यंदत्त्वाब्राह्मणस्तुब्राह्मण्यादेवहीयते । मद्यमपेयमदेयमित्यादिनिषेधान्मांसमद्यादियुतराजसपूजायां ब्राह्मणस्यनाधिकारः
मद्यपानेमरणान्तप्रायश्चित्तोक्तेःस्पर्शेतदङ्गच्छेदोक्तेश्चाल्पप्रायश्चित्तेनदोषानपगमेनपातित्यापातात्
इत्थमेवसर्वेप्राचीनानवीनाश्चनिबन्धकारानिर्बंन्धेनलिखन्ति
नवीनतराभास्कररायप्रभृतयोपिसप्तशतीटीकादौप्राचीनग्रंथाननुसृत्यैवमेवपरिष्कुर्वन्तिसभायां चैतन्मतमेवश्लाघन्तेच
आचरणंत्वन्यथाकुर्वन्तितत्किस्वयंदुर्दैववशेनब्राह्मण्यभ्रष्टोभूवमन्येप्यवेंमाभूवन्नितिभूतदययावास्वपातित्य
गोपनायवान्येषांकलियुगस्थविप्राणामधिकाराभावालोचनयावेतिनवयंतत्त्वंजानीमः
क्षत्रियवैश्ययोर्मांसादियुतजपहोमसहितराजसपूजायामप्याधिकारः सचकेवलंकाम्यएवनतुनित्यः
निष्कामक्षत्रियादेः सात्त्विकपूजाकरणे मोक्षादिफलातिशयः
एवंशूद्रादरेपिशूद्रादेर्मन्त्रहीनाजपादिरहितामांसादिद्रव्यकातामसपूजापिविहिता शूद्रेणसप्तशत्यादिजपहोमसहिता
सात्त्विकी पूजाब्राह्मणद्वाराकार्या स्त्रीशूद्रादेःस्वतःपौराणमन्त्रपाठेपिनाधिकारः अतएवशूद्रः
सुखमवाप्नयादित्यत्रभाष्येस्त्रीशूद्रयोःश्रवणादेवफलंनतुपाठादित्युक्तम् एतेन
स्त्रीशूद्रयोर्गीताविष्णुसहस्त्रनामपाठोदोषायैवेतिज्ञेयम् अन्यत्रपौराणमन्त्रयुक्तपूजायांस्त्रीशूद्रयोःस्वतोप्यधिकारउक्तः
तेनगीतादेः पठनंनदोषायेतिसिद्ध्यति जपहोमादौविप्रद्वारैव म्लेंच्छादीनांतुब्राह्मण
द्वारापिजपहोमेसमन्त्रकपूजायांचनाधिकारः किंतुतैस्तत्तदुपचाराणांदेवीमुद्दिश्यमनसोत्सर्गमात्रंकर्तव्यम् ।