अथभाद्रपदशुक्लचतुर्दश्यामनन्तव्रतम् तत्रोदयेत्रिमुहूर्तव्यापिनीचतुर्दशी ग्राह्येतिमुख्यःपक्षः
तदभावेद्विमुहूर्ताग्राह्येत्यनुकल्पः द्विमुहूर्तन्यूनातुपूवैवग्राह्या दिनद्वयेसूर्योदयव्यापित्वेसंपूर्णत्वात्पूर्वैव
अत्रपूर्वाह्णोमुख्यःकर्मकालः तदभावेमध्याह्नोपि
अत्रव्रतेसुवर्नप्रतिमायांचतुर्दशग्रन्थियुतदोरकेचानन्तपूजनादिविधिस्तदुद्यापनविधिश्चकौस्तुभादौज्ञैयः
पूजितदोरकनाशेतुरुगुरुंवृत्वातदनुज्ञयायथाशक्तिकृच्छ्रादिप्रायश्चित्तंविधायाष्टोत्तरशतमाज्येनद्वादशाक्षरवासुदेवमन्त्रेणहुत्वा
केशवादिचतुर्विंशतिनामभिःसकृत्सकृद्धुत्वाहोमशेषंसमाप्यनूतनदोरकेपूर्ववत्पूजनादिचरेत् ।