प्रातर् नमामि भगवन्तमनन्तमाद्यं
सच्चित्सुखात्मकशिरस्त्रितयं दधानम् ।
ऐश्वर्यवीर्ययशआदि भुजैर्लसन्तं
तं देवमत्रिवरदं नतदत्तसर्वम् ॥१॥
सर्वात्मकं सकलवंदितपादपीठम्
भक्तानुरुपधृतरुपमनेकमेकम् ।
शांतं सदेकनिलयं निलयादिहीनं
तं व्रात्यवातरसनं रसनातिगं कम् ॥२॥
यस्मिन्निदं जगदशेषमनुप्रविष्टम्
वस्त्रे गुणा इव गुणानिगमप्रमेयम् ।
वेदश्वभिः प्रतिदिनं बहुक्रीडमानं
भूतैः श्मशानकुहरे तमतर्क्यलीलम् ॥३॥
मायापतिं पतिविहीतनिरस्तमायं
यं योगिभोगिजटिमुंडिन आस्तुवन्ति।
नेतीति वेदनिवहाः खलु यत्र मूकाः
कोऽहंस्तवेनु भगवन्प्रणतोऽस्म्यतो हि ॥४॥
रंगणे विहितं स्त्रोत्रं । चतुःश्लोकसमन्वितम्
यः पठेत् प्रातरुत्थाय तस्याहः सुखदं भवेत् ॥५॥