कुबेर पूजा
(ताम्हनात किंवा केळीच्या पानावर ठेवलेल्या चांदीच्या नाण्यांची, दागिन्यांची, नोटांची धनपति कुबेर म्हणून पूजा करावी. संपत्तीवर गंधाक्षता व फूल वाहावे. नमस्कार करावा.)
ॐ धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भवंतु त्वत्प्रसादान्मे धनधान्यादिसंपदः ॥
ॐ द्रव्यनिधिस्थान-कुबेराय नमः । ध्यान-आवाहनादिसकलपूजार्थे गंधाक्षतपुष्पाणि समर्पयामि ।
तुला पूजा
(तराजू व वजने-मापे यांची पूजा)
(तराजू व वजने-मापे यांवर लाल गंध, अक्षता, हळदकुंकू व फुले वाहावीत.) -
नमस्ते सर्व देवांना शक्तित्वे सत्यमाश्रिता ।
साक्षिभूता जगद्धात्रि निर्मिता विश्वयोनिना ।
तुलायै नमः । सकलपूजार्थे गंधाक्षतपुष्पाणि हरिद्राकुंकुमं च समर्पयामि ।
दीप पूजा
(दिव्यांच्या सजावटीला गंधपुष्प, अक्षता व हळदकुंकू वाहून नमस्कार करावा.) -
भो दीप ब्रह्मरूपस्त्वमन्धकारनिवारक ।
इमां मया क्रुता पूजां गृह्णन् तेजः प्रवर्तय ॥
दीपावलिं मया दत्तां गृहाण त्वं सुरेश्वरि ।
आरार्तिक्यप्रदानेन ज्ञानदृष्टिप्रदा भव ॥
अग्निज्योती रविः ज्योतिश्चन्द्रज्योतिस्तथैव च ।
उत्तमः सर्वतेजस्सु दीपोऽयं प्रतिगृह्यताम् ॥
दीपावल्यै नमः । सकलपूजार्थे गंधाक्षतान् पुष्पं हरिद्राकुंकुमं च समर्पयामि ।
प्रार्थना - (महालक्ष्मी -महासरस्वती यांची प्रार्थना उभे राहून हात जोडून करावी.)
नमस्ते सर्वदेवानां वरदाऽसि हरिप्रिये ।
गतिर्या त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात् ॥१॥
विश्वरूपस्य भार्याऽसि पद्मे पद्मालये शुभे ।
महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥२॥
वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।
सुखरात्रिः प्रभातेऽद्य तन्मेऽलक्ष्मीं व्यपोहतु ॥३॥
या रात्रिः सर्वभूतानां या च देवेष्ववस्थिता ।
संवत्सरप्रिया या च सा ममास्तु सुमंगलम् ॥४॥
माता त्वं सर्वभूतानां देवाना सृष्टिसंभवा ।
आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते ॥५॥
दामोदरि नमस्तेऽस्तु नमस्त्रैलोक्यमातृके ।
नमस्तेऽस्तु महालक्ष्मि त्राहि मां परमेश्वरि ॥६॥
शंखचक्रगदाहस्ते शुभ्रवर्णे शुभानने ।
मह्यमिष्टवरं देहि सर्विसिद्धिप्रदायिनि ॥७॥
नमस्तेऽस्तु महालक्ष्मि महासौख्यप्रदायिनि ।
सर्वदा देहि मे द्रव्यं दानाय भुक्तिहेतवे ॥८॥
धनं धान्यं धरां हर्म्यं कीर्तिमायुर्यशः श्रियः ।
तुरगान्दन्तिनः पुत्रान्महालक्ष्मि प्रयच्छ मे ॥९॥
यन्मया वांछितं देवि तत्सर्वं सफलं कुरु ।
न बाध्यतां कुकर्माणि संकटान्मे निवारय ॥१०॥
न्यूनं वाऽप्यतुलं वापि यन्मया मोहितं कृतम् ।
सर्वं तदस्तु संपूर्णं त्वत्प्रसादान्महेश्वरि ॥११॥
आवाहनं न जानामि न जानामि तवार्चनम् । पूजां चैव जानमि क्षम्यतां परमेश्वरि ॥१॥
गतं पापं गत दुःखं गतं दारिद्यमेव च । आगता सुखसंपत्तिः पुण्याच्च तव दर्शनात् ॥२॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि । पुत्रान्देहि धनं देहि सर्वकांमाश्च देहि मे ॥३॥
अपराधसहस्त्रं च क्रियतेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥४॥
यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु । न्यूनं संपूर्णता याति सद्यो वंदे तमच्युतम् ॥५॥
मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्कृतं तु मया देवि परिपूर्णम् तदस्तु मे ॥६॥
(पूजेच्या आरंभी दिलेल्याप्रमाणे दोनदा आचमन करावे. एक एक पळी पाणी उजव्या हाताने प्राशन करावे.)
ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः ।
(एक पळी पाणी उजव्या हाताने ताम्हनात सोडावे)-
ॐ गोविंदाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ ह्रषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।
ॐ संकर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।
(यानंतर प्राणायाम करावा.) -
अनेन यथाज्ञानेन यथामिलित उपचारद्रव्यैर्मया कृतषोडशोपचार - पूजनेन भगवत्यः श्रीमहालक्ष्मी - सरस्वत्यादिदेवताः प्रीयन्ताम् न मम ।
ॐ तत्सन्महालक्ष्म्यै समर्पणमस्तु ॥
(पळीभर पाणी उजव्या हातावरून ताम्हनात सोडावे व पूजकाने नमस्कार करावा.)