लेखणी पूजा
ध्यान - (लेखणी, टाक, झरणी यांचे सरस्वतीरूपांत ध्यान करावे.)
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम् )
वीणापुस्तकधारिणीमभयदां जाड्यांधकारापहाम् ।
हस्ते स्फटिकमालिकां विदधती पद्मासने संस्थिताम् ।
वंदे त्वां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥
कृष्णानने द्विजिव्हे च चित्रगुप्तकरस्थिते ।
सदक्षराणा पात्रे च लेख्यं कुरु सदा मम ॥
लेखन्यै नमः । ध्यानं समर्पयामि ।
सर्वोपचार - (लेखणीवर गंधाक्षता, हळदकुंकू व लाल फूल वाहावे.) -
वीणापुस्तकधारिण्यै नमः ।
सर्वोपचारार्थे गंधाक्षतान् हरिद्राकुंकुमं पुष्पं च समर्पयामि ।
(लेखणीला एकदा अक्षता वाहून, नमस्कार करावा.( -
ॐ वाचिन्यै नमः । ॐ वाग्वादिन्यै नमः । ॐ अजितायै नमः ।
ॐ विष्णुमायायै नमः । ॐ हिंगुलायै नमः । ॐ यज्ञविद्यायै नमः ।
ॐ सिद्धविद्यायै नमः । ॐ प्रज्ञायै नमः । ॐ पद्मावत्यै नमः ।
ॐ भुवनैश्वर्यै नमः । ॐ लेखन्यै नमः । ॐ सरस्वत्यै नमः ।
ॐ ब्रह्माण्यै नमः । ॐ भारत्यै नमः । ॐ गिरे नमः । ॐ वाचे नमः ।
ॐ वाण्यै नमः । ॐ हंसगमनायै नमः । ॐ पद्महस्तायै नमः ।
ॐ शारदायै नमः ।
प्रार्थना - (नमस्कार करावा.)
तरुणशकलमिन्दोर्बिभ्रती शुक्लकांतिः । कुचभरनमितांगी सन्निषण्णा सिताब्जे ।
निजकरकमलोद्यल्लेखनी पुस्तकश्रीः । सकलविभवसिद्ध्यै पातु वाग्देवता माम् ॥
प्रज्ञारूपायै लेखन्यै नमः प्रार्थना समर्पयामि ।