दौतीची पूजा
(हात जोडून नमस्कार करावा व ध्यानाचा श्लोक म्हणावा.) -
सद्यच्छिन्नशिरः कृपाणमभयं हस्तैर्वरं बिभ्रतीम् ।
घोरास्यां शिरसा स्रजं सुरुचिरमुन्मुक्तकेशावलिम् ।
सृक्काऽसृक्प्रवहां श्मशाननिलयां श्रुत्योः शवालंकृतिम् ।
श्यामांगिं कृतमेखलां शवकरैर्देवी भजे कालिकाम् ॥१॥
मषि त्वं लेखनीयुक्ता चित्रगुप्तशयस्थिता ।
सदक्षरानां पात्रे च लेख्यं कुरु सदा मम ॥२॥
या माया प्रकृतिः शक्तिश्चंडमुंडविमर्दिनी ।
सा पूज्या सर्वदेवैश्च अस्माकं वरदा भव ॥३॥
काल्यै नमः । ध्यानं समर्पयामि ।
काल्यै नमः । आवाहनं समर्पयामि ।
सर्वोपचार - (दौतीवर थोड्या गंधाक्षता, हळदकुंकू व लाल फूल वाहावे.) -
ॐ काल्यै नमः । ॐ कपालिन्यै नमः । ॐ फुल्लायै नमः । ॐ कुरुकुलायै नमः । ॐ विरोधिन्यै नमः । ॐ विप्रचितायै नमः । ॐ उग्रप्रदत्तायै नमः । ॐ नीलायै नमः । ॐ धनायै नमः । ॐ बलाकायै नमः । ॐ मात्रायै नमः । ॐ मुद्रायै नमः । ॐ महाकाल्यै नमः । सर्वोपचारार्थे गंधाक्षतान् हरिद्राकुंकुमं पुष्पं च समर्पयामि ।
प्रार्थना - (नमन करून प्रार्थना म्हणावी.) -
या कालिका रोगहरा सुवंद्या । वश्यानुकूलैर्मदनातुरैश्च ॥
जनैर्जनानां भयहारिणी च । सा देवमाता मयि सौख्यदात्री ॥