त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारम् एक बिल्वं शिवार्पणम् ॥१॥
त्रिशाखैः बिल्व पत्रैश्च अश्छिद्रैः कोमलैः शुभैः । तव पूजां करिष्यामि एक बिल्वं शिवार्पणम् ॥२॥
सर्वत्रैलोक्य कर्तारं सर्वत्रैलोक्य पालनम् । सर्वत्रैलोक्य हर्तारम् एक बिल्वं शिवार्पणम् ॥३॥
नागाधिराजवलयं नागहारेणभूषितम् । नागकुंडलसंयुक्तम् एक बिल्वं शिवार्पणम् ॥४॥
अक्षमालाधरं रुद्रं पार्वती प्रियवल्लभम् । चन्द्रशेखरमीशानम् एक बिल्वं शिवार्पणम् ॥५॥
त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् । विभूत्यभ्यर्चितं देवं एक बिल्वं शिवार्पणम् ॥६॥
त्रिशूलधारिणं देवं नागाभरणसुन्दरम् । चन्द्रशेखरमीशानम् एक बिल्वं शिवार्पणम् ॥७॥
गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् । कालकालं गिरीशं च एक बिल्वं शिवार्पणम् ॥८॥
शुद्धस्फटिक संकाशं शितिकंठं कृपानिधिम् । सर्वेश्वरं सदाशान्तम् एक बिल्वं शिवार्पणम् ॥९॥
सच्चिदानन्दरूपं च परानन्दमयं शिवम् । वागीश्वरं चिदाकाशं एक बिल्वं शिवार्पणम् ॥१०॥
शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् । हिरण्यबाहुं सेनान्यम् एक बिल्वं शिवार्पणम् ॥११॥
अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् । ज्येष्टं कनिष्ठं गौरीशम् एक बिल्वं शिवार्पणम् ॥१२॥
हरिकेशं सनन्दीशम् उच्छैर्घोषं सनातनम् । अघोररूपकं कुंभम् एक बिल्वं शिवार्पणम् ॥१३॥
पूर्वजावरजं याम्यं सूक्ष्म तस्करनायकम् । नीलकंठं जघंन्यंच एक बिल्वं शिवार्पणम् ॥१४॥
सुराश्रयं विषहरं वर्मिणं च वरूधिनम् महासेनं । महावीरम् एक बिल्वं शिवार्पणम् ॥१५॥
कुमारं कुशलं कूप्यं वदान्यञ्च महारधम् । तौर्यातौर्यं च देव्यं च एक बिल्वं शिवार्पणम् ॥१६॥
दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् । अशेषपापसंहारम् एक बिल्वं शिवार्पणम् ॥१७॥
नीलकण्ठं जगद्वंद्यं दीननाथं महेश्वरम् । महापापसंहारम् एक बिल्वं शिवार्पणम् ॥१८॥
चूडामणीकृतविभुं वलयीकृतवासुकिम् । कैलासवासिनं भीमम् एक बिल्वं शिवार्पणम् ॥१९॥
कर्पूरकुंदधवलं नरकार्णवतारकम् । करुणामृतसिंधुं च एक बिल्वं शिवार्पणम् ॥२०॥
महादेवं महात्मानं भुजङ्गाधिप कङ्कणम् । महापापहरं देवम् एक बिल्वं शिवार्पणम् ॥२१॥
भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् । वामे शक्तिधरं श्रेष्ठम् एक बिल्वं शिवार्पणम् ॥२२॥
फालेक्षणं विरूपाक्षं श्रीकंठं भक्तवत्सलम् । नीललोहितखट्वाङ्गम् एक बिल्वं शिवार्पणम् ॥२३॥
कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् । वृषाङ्कं वृषभारूढम् एक बिल्वं शिवार्पणम् ॥२४॥
सामप्रियं सर्वमयं भस्मोद्धूलित विग्रहम् । मृत्युञ्जयं लोकनाथम् एक बिल्वं शिवार्पणम् ॥२५॥
दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् । मृगपाणिं चन्द्रमौळिम् एक बिल्वं शिवार्पणम् ॥२६॥
सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् । निर्मलं निर्गुणाकारम् एक बिल्वं शिवार्पणम् ॥२७॥
सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् । सर्वतत्त्वस्वरूपं च एक बिल्वं शिवार्पणम् ॥२८॥
सर्वलोक गुरुं स्थाणुं सर्वलोकवरप्रदम् । सर्वलोकैक नेत्रं च एक बिल्वं शिवार्पणम् ॥२९॥
मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् । कमलाप्रिय पूज्यंं च एक बिल्वं शिवार्पणम् ॥३०॥
तेजोमयं महाभीमम् उमेशं भस्मलेपनम् । भवरोगविनाशं च एक बिल्वं शिवार्पणम् ॥३१॥
स्वर्गापवर्गफलदं रघुनाथवरप्रदम् । नगराजसुताकांतम् एक बिल्वं शिवार्पणम् ॥३२॥
मंजीरपादयुगलं शुभलक्षणलक्षितम् । फणिराज विराजं च एक बिल्वं शिवार्पणम् ॥३३॥
निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् । तेजोरूपं महारौद्रम् एक बिल्वं शिवार्पणम् ॥३४॥
सर्वलोकैक पितरं सर्वलोकैक मातरम् । सर्वलोकैक नाथं च एक बिल्वं शिवार्पणम् ॥३५॥
चित्राम्बरं निराभासं वृषभेश्वर वाहनम् । नीलग्रीवं चतुर्वक्त्रम् एक बिल्वं शिवार्पणम् ॥३६॥
रत्नकञ्चुकरत्नेशं रत्नकुण्डल मण्डितम् । नवरत्न किरीटं च एक बिल्वं शिवार्पणम् ॥३७॥
दिव्यरत्नाङ्गुली स्वर्णं कण्ठाभरणभूषितम् । नानारत्नमणिमयम् एक बिल्वं शिवार्पणम् ॥३८॥
रत्नाङ्गुलीय विलसत्करशाखानखप्रभम् । भक्तमानस गेहं च एक बिल्वं शिवार्पणम् ॥३९॥
वामाङ्गभाग विलसदम्बिका वीक्षणप्रियम् । पुण्डरीकनिभाक्षं च एक बिल्वं शिवार्पणम् ॥४०॥
सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् । सौभाग्यदं हितकरम् एक बिल्वं शिवार्पणम् ॥४१॥
नानाशास्त्रगुणोपेतं स्फुरन्मंगल विग्रहम् । विद्याविभेदरहितम् एक बिल्वं शिवार्पणम् ॥४२॥
अप्रमेयगुणाधारं वेदकृद्रूप विग्रहम् । धर्माधर्म प्रवृत्तं च एक बिल्वं शिवार्पणम् ॥४३॥
गौरीविलाससदनं जीवजीवपितामहम् । कल्पान्तभैरवं शुभ्रम् एक बिल्वं शिवार्पणम् ॥४४॥
सुखदं सुखनाशं च दुःखदं दुःखनाशनम् । दुःखावतारं भद्रं च एक बिल्वं शिवार्पणम् ॥४५॥
सुखरूपं रूपनाशं सर्वधर्म फलप्रदम् । अतींद्रियं महामायम् एक बिल्वं शिवार्पणम् ॥४६॥
सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् । सर्वपक्षिमृगाधारम् एक बिल्वं शिवार्पणम् ॥४७॥
जीवाध्यक्षं जीववंद्यं जीवजीवनरक्षकम् । जीवकृज्जीवहरणम् एक बिल्वं शिवार्पणम् ॥४८॥
विश्वात्मानं विश्ववंद्यं वज्रात्मावज्रहस्तकम् । वज्रेशं वज्रभूषं च एक बिल्वं शिवार्पणम् ॥४९॥
गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् । जितेन्द्रियं वीरभद्रम् एक बिल्वं शिवार्पणम् ॥५०॥
त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् । दिगम्बरं क्षोभनाशम् एक बिल्वं शिवार्पणम् ॥५१॥
कुन्देन्दु शंखधवलम् भगनेत्रभिदुज्ज्वलम् । कालाग्निरुद्रं सर्वज्ञम् एक बिल्वं शिवार्पणम् ॥५२॥
कम्बुग्रीवं कम्बुकंठं धैर्यदं धैर्यवर्धकम् । शार्दूलचर्मवसनम् एक बिल्वं शिवार्पणम् ॥५३॥
जगदुत्पत्ति हेतुं च जगत्प्रलयकारणम् । पूर्णानन्द स्वरूपं च एक बिल्वं शिवार्पणम् ॥५४॥
सर्गकेशं महत्तेजं पुण्यश्रवण कीर्तनम् । ब्रह्मांडनायकं तारम् एक बिल्वं शिवार्पणम् ॥५५॥
मन्दारमूलनिलयं मन्दारकुसुमप्रियम् । बृन्दारकप्रियतरम् एक बिल्वं शिवार्पणम् ॥५६॥
महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् । सुलभासुलभं लभ्यम् एक बिल्वं शिवार्पणम् ॥५७॥
बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् । परेशं बीजनाशं च एक बिल्वं शिवार्पणम् ॥५८॥
युगाकारं युगाधीशं युगकृद्युगनाशनम् । परेशं बीजनाशं च एक बिल्वं शिवार्पणम् ॥५९॥
धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् । कर्पूरगौरं गौरीशम् एक बिल्वं शिवार्पणम् ॥६०॥
सुरावासं जनावासं योगीशं योगिपुङ्गवम् । योगदं योगिनां सिंहम् एक बिल्वं शिवार्पणम् ॥६१॥
उत्तमानुत्तमं तत्त्वम् अंधकासुरसूदनम् । भक्तकल्पद्रुमस्तोमम् एक बिल्वं शिवार्पणम् ॥६२॥
विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् । विष्णुब्रह्मादि वंद्यं च एक बिल्वं शिवार्पणम् ॥६३॥
कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् । ब्रह्मशत्रुं जगन्मित्रम् एक बिल्वं शिवार्पणम् ॥६४॥
लावण्यमधुराकारं करुणारसवारधिम् । भ्रुवोर्मध्ये सहस्रार्चिम् एक बिल्वं शिवार्पणम् ॥६५॥
जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् । कामदं सर्वदागम्यम् एक बिल्वं शिवार्पणम् ॥६६॥
शिवं शान्तं उमानाथं महाध्यानपरायणम् । ज्ञानप्रदं कृत्तिवासम् एक बिल्वं शिवार्पणम् ॥६७॥
वासुक्युरगहारं च लोकानुग्रहकारणम् । ज्ञानप्रदं कृत्तिवासम् एक बिल्वं शिवार्पणम् ॥६८॥
शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् । शुद्धं च शाश्वतं नित्यम् एक बिल्वं शिवार्पणम् ॥६९॥
शरणागत दीनार्ति परित्राणपरायणम् । गम्भीरं च वषट्कारम् एक बिल्वं शिवार्पणम् ॥७०॥
भोक्तारं भोजनं भोज्यं जेतारं जितमानस् । करणं कारणं जिष्णुम् एक बिल्वं शिवार्पणम् ॥७१॥
क्षेत्रज्ञं क्षेत्रपालञ् च परार्धैकप्रयोजनम् । व्योमकेशं भीमवेषम् एक बिल्वं शिवार्पणम् ॥७२॥
भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् । हिरण्यगर्भं हेमाङ्गम् एक बिल्वं शिवार्पणम् ॥७३॥
दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् । हिरण्यदं हेमरूपम् एक बिल्वं शिवार्पणम् ॥७४॥
महाश्मशाननिलयं प्रच्छन्न स्फटिकप्रभम् । वेदास्यं वेदरूप. च एक बिल्वं शिवार्पणम् ॥७५॥
स्थिरं धर्मम् उमानाथं ब्रह्मण्यं चाश्रयं विभुम् । जगन्निवासं प्रथममेक बिल्वं शिवार्पणम् ॥७६॥
रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् । रुद्राक्षभक्त संस्तोममेक बिल्वं शिवार्पणम् ॥७७॥
फणीन्द्र विलसत्कंठं भुजङभरणप्रियम् । दक्षाध्वर विनाशं च एक बिल्वं शिवार्पणम् ॥७८॥
नागेन्द्र विलसत्कर्णं महीन्द्रवलयावृतम् । मुनिवंद्यं मुनिश्रेष्ठमेक बिल्वं शिवार्पणम् ॥७९॥
मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् । सर्वदेवादि पूज्यं च एक बिल्वं शिवार्पणम् ॥८०॥
निधनेशं धनाधीशम् अपमृत्युविनाशनम् । लिङ्गमूर्तिमलिङ्गात्मम् एक बिल्वं शिवार्पणम् ॥८॥
भक्तकल्याणदं व्यस्तं वेदवेदांतसंस्तुतम् । कल्पकृत्कल्पनाशं च एक बिल्वं शिवार्पणम् ॥८२॥
घोरपातकदावाग्निं जन्मकर्मविवर्जितम् । कपालमालाभरणम् एक बिल्वं शिवार्पणम् ॥८३॥
मातङ्गचर्मवसनं विराड्रूपविदारकम् । विष्णुक्रांतमनंतं च एक बिल्वं शिवार्पणम् ॥८४॥
यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् । यज्ञेशं यज्ञभोक्तारम् एक बिल्वं शिवार्पणम् ॥८५॥
कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् । योगिमानसपूज्यं च एक बिल्वं शिवार्पणम् ॥८६॥
महोन्नतमहाकायं महोदरमहाभुजम् । महावक्त्रं महावृद्धम् एक बिल्वं शिवार्पणम् ॥८७॥
सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् . महेश्वरं शिवतरम् एक बिल्वं शिवार्पणम् ॥८८॥
समस्तजगदाधारं समस्तगुणसागरम् । सत्यं सत्यगुणोपेतम् एक बिल्वं शिवार्पणम् ॥८९॥
माघकृष्णचतुर्दश्यां पूजार्धं च जगद्गुरोः । दुर्लभं सर्वदेवानाम् एक बिल्वं शिवार्पणम् ॥९०॥
तत्रापिदुर्लभं मन्येत् नभोमासेन्दुवासरे । प्रदोषकालेपूजायाम् एक बिल्वं शिवार्पणम् ॥९१॥
तटाकंधननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् । कोटिकन्यामहादानम् एक बिल्वं शिवार्पणम् ॥९२॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारम् एक बिल्वं शिवार्पणम् ॥९३॥
तुलसीबिल्वनिर्गुण्डी जंबीरामलकं तथा । पञ्चबिल्वमितिख्यातम् एक बिल्वं शिवार्पणम् ॥९४॥
अखण्डबिल्वपत्रैश्च पूजयेन्नंदिकेश्वरम् । मुच्यते सर्वपापेभ्यः एक बिल्वं शिवार्पणम् ॥९५॥
सालंकृताशतावृत्ता कन्याकोटिसहस्रकम् । साम्राज्यपृथ्वीदानं च एक बिल्वं शिवार्पणम् ॥९६॥
दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् । सवत्सधेनुदानानि एक बिल्वं शिवार्पणम् ॥९७॥
चतुर्वेदसहस्राणि भारतादिपुराणकम् । साम्राज्यपृथ्वीदानं च एक बिल्वं शिवार्पणम् ॥९८॥
सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् । तुलाभागं शतावर्तम् एक बिल्वं शिवार्पणम् ॥९९॥
अष्टोत्तरश्शतं बिल्वं योर्चयेल्लिङ्गमस्तके।अधर्वोक्तम् अधेभ्यस्तु एक बिल्वं शिवार्पणम् ॥१००॥
काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । अघोरपापसंहारम् एक बिल्वं शिवार्पणम् ॥१०१॥
अष्टोत्तरश्शतश्लोकैः स्तोत्राद्यैः पूजयेद्यधाः । त्रिसंध्यं मोक्षमाप्नोति एक बिल्वं शिवार्पणम् ॥१०२॥
दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम् । सर्वक्रतुमयं पुण्यम् एक बिल्वं शिवार्पणम् ॥१०३॥
पुत्रपौत्रादिकं भोगं भुक्त्वाचात्रयधेप्सितम् । अंतेज शिवसायुज्यम् एक बिल्वं शिवार्पणम् ॥१०४॥
विप्रकोटिसहस्राणां वित्तदानाश्चयत्फलम् ।तत्फलं प्राप्नुयात्सत्यम् एक बिल्वं शिवार्पणम् ।१०५॥
त्वन्नामकीर्तनं तत्त्वतवपादाम्बुयः पिबेत्।जीवन्मुक्तोभवेन्नित्यम् एक बिल्वं शिवार्पणम् ॥१०६॥
अनेकदानफलदम् अनन्तसुकृतादिकम् । तीर्थयात्राखिलं पुण्यम् एक बिल्वं शिवार्पणम् ॥१०७॥
त्वं मां पालय सर्वत्र पदध्यानकृतं तव । भवनं शाङ्करं नित्यम् एक बिल्वं शिवार्पणम् ॥१०८॥
उमयासहितं देवं सवाहनगणं शिवम् । भस्मानुलिप्तसर्वाङ्गम् एक बिल्वं शिवार्पणम् ॥१०९॥
सालग्रामसहस्राणि विप्राणां शतकोटिकम् । यज्ञकोटिसहस्राणि एक बिल्वं शिवार्पणम् ॥११०॥
अज्ञानेन कृतं पापं ज्ञानेनाभिकृतं च यत् । तत्सर्वं नाशमायात् एक बिल्वं शिवार्पणम् ॥१११॥
अमृतोद्भववृक्षस्य महादेवप्रियस्य च । मुच्यंते कंटकाघातात् कंटकेभ्यो हि मानवाः ॥११२॥
एकैकबिल्वपत्रेण कोटियज्ञफलं भवेत् । महादेवस्य पूजार्थम् एक बिल्वं शिवार्पणम् ॥११३॥
एककाले पठेन्नित्यं सर्वशत्रुनिवारणम् । द्विकालेच पठेन्नित्यं मनोरथफलप्रदम् .
त्रिकालेच पठेन्नित्यम् आयुर्वर्ध्यो धनप्रदम् । अचिरात्कार्यसिद्धिं च लभते नात्र संशयः ॥११४॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । लक्ष्मीप्राप्तिश्शिवावासः शिवेन सह मोदते ॥११५॥
कोटिजन्म कृतं पापम् अर्चनेन विनश्यति । सप्तजन्मकृतं पापं श्रवणेन विनश्यति ।
जन्मान्तरकृतं पापं पठनेन विनश्यति । दिवारात्रकृतं पापं दर्शनेन विनश्यति ।
क्षणेक्षणेकृतं पापं स्मरणेन विनश्यति । पुस्तकं धारयेद्देहि आरोग्यं भयनाशनम् ॥११६॥
इति बिल्वाष्टोत्तर शतनामावलिः समाप्ता