संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|वर्णानुक्रम स्तोत्रः|
रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम्

रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


 रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाय नमः ।
हरिः ॐ

रामो राजीवपत्राक्षो राकाचन्द्रनिभाननः ।
रात्रिञ्चरार्दितक्षोणी परितापविनाशनः ॥१॥

राजीवनाभो राजेन्द्रो राजीवासनसंस्तुतः ।
राजराजादिदिक्पालमौलि माणिक्यदीपितः ॥२॥

राघवान्वयपाथोधिचन्द्रो राकेन्दुसद्यशाः ।
रामचन्द्रो राघवेन्द्रो राजीवरुचिराननः ॥३॥

राजानुजामन्दिरोरा राजीवविलसत्पदः ।
राजीवहस्तो राजीवप्रियवंशकृतोदयः ॥४॥

रात्रिनव्याम्बुभृन्मूर्ती राजांशुरुचिरस्मितः ।
राजीवहारो राजीवधारी राजीवजाप्रियः ॥५॥

राघवोत्सङ्गविद्योतो राकेन्द्वयुतभास्वरः ।
राजलेखानखाङ्कूरो राजीवप्रियभूषणः ॥६॥

राजराजन्मणीभूषो राराजद्भ्रमरालकः ।
राजलेखाभसीमन्तो राजन्मृगमदाङ्कनः ॥७॥

राजहीरलसच्छ्रोत्रो राजीवकरगामृतः ।
रत्नकाञ्चीधरो रम्यो रत्नकाञ्चनकङ्कणः ॥८॥

रणत्काञ्चनमञ्जीरो रञ्जिताखिलभूतलः ।
राराजत्कुन्दरदनो रम्यकण्ठो रतव्रजः ॥९॥

रञ्जिताद्भुतगाधेयो रात्रिञ्चरसतीहरः ।
रात्रिञ्चरभयत्त्रातगाधेय सवनोत्तमः ॥१०॥

राराजच्चरणाम्भोजरजःपूतमुनिप्रियः ।
राजराजसुहृच्चापभेदनो राजपूजितः ॥११॥

रमारामाकराम्भोज मालोन्मीलितकण्ठमः ।
रमाकराब्जमारन्दबिन्दुमुक्ताफलावृतः ॥१२॥

रत्नकङ्कणनिध्वानमिषल्लक्ष्मीस्तुतिश्रुतिः ।
रमावामदृगन्तालि व्याप्तदुर्लक्ष्यविग्रहः ॥१३॥

रामतेजस्समाहर्ता रामसोपानभञ्जनः ।
राघवाज्ञाकृतारण्यवासो रामानुजार्चितः ॥१४॥

रक्तकञ्जातचरणो रम्यवल्कलवेष्टितः ।
रात्र्यम्बुदजटाभारो रम्याङ्गश्रीविभूषणः ॥१५॥

रणच्चापगुणोरक्तमुनित्राणपरायणः ।
रात्रिञ्चरगणप्राणहर्ता रम्यफलादनः ॥१६॥

रात्रिञ्चरेन्द्रभगिनीकर्णनासोष्टभेदनः ।
रातमायामृगप्राणो रावणाहृतसत्प्रियः ॥१७॥

राजीवबन्धुपुत्राप्तो राजदेवसुतार्धनः ।
रक्तश्रीहनुमद्वाहो रत्नाकरनिबन्धनः ॥१८॥

रुद्धरात्रिञ्चरावासो रावणादिविमर्दनः ।
रामासमालिङ्गिताङ्को रावणानुजपूजितः ॥१९॥

रत्नसिंहासनासीनो राज्यपट्टाभिषेचनः ।
राजनक्षत्रवलयवृत राकेन्दुसुन्दरः ॥२०॥

राकेन्दुमण्डलच्चत्रो राजांशूत्करचामरः ।
राजर्षिगणसंवीतो रञ्जितप्लवगाधिपः ॥२१॥

रमादृङ्मालिकानीला नीराजितपदाम्बुजः ।
रामतत्त्वप्रवचनो राजराजसखोदयः ॥२२॥

राजबिम्बाननागाननर्तनामोदितान्तरः ।
राज्यलक्ष्मीपरीरम्भसम्भृताद्भुतकण्टकः ॥२३॥

रामायणकथामालानायको राष्ट्रशोभनः ।
राजमालामौलिमालामकरन्दप्लुताङ्घ्रिकः ॥२४॥

राजताद्रिमहाधीरो राद्धदेवगुरुद्विजः ।
राद्धभक्ताशयारामो रमिताखिलदैवतः ॥२५॥

रागी रागविहीनात्मभक्तप्राप्यो रसात्मकः ।
रसप्रदो रसास्वादो रसाधीशो रसातिगः ॥२६॥

रसनापावनाभिख्यो रामनामामृतोदधिः ।
राजराजीवमित्राक्षो राजीवभवकारणम् ॥२७॥

रमारामाशयानन्द दुग्धसागरचन्द्रमाः ।
रामभद्रो राजमानो राजीवप्रियबिम्बगः ॥२८॥

रमारामाभुजलता कण्ठालिङ्गनमङ्गलः ।
रामसूरिहृदम्भोधिवृत्तिवीचीविहारवान् ॥२९॥

॥ इति विश्वावसु चैत्रशुद्ध नवमी दिने रामेण लिखितं
समर्पितं च रामभद्राय सद्विजयते तराम्
रकारादि श्री रामनामाष्टोत्तरशतम् ॥

N/A

References : N/A
Last Updated : September 12, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP