संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|वर्णानुक्रम स्तोत्रः| ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम् वर्णानुक्रम स्तोत्रः ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम् ककारादि श्रीकल्क्यष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम् ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः कृकारादि श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् नकारादि श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम् नकारादि श्रीनरसिंहाष्टोत्तरशतनामावलिः बवर्णादि श्रीबुद्धाष्टोत्तरशतनामस्तोत्रम् बवर्णादि श्रीबुद्धाष्टोत्तरशतनामावलिः मकारादि श्रीमत्स्याष्टोत्तरशतनामस्तोत्रम् मकारादि श्रीमत्स्याष्टोत्तरशतनामावलिः रकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम् रकारादि श्रीपरशुरामाष्टोत्तरशतनामावलिः रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम् रकारादि श्रीरामाष्टोत्तरशतनामावलिः वकारादि श्रीवराहाष्टोत्तरशतनामस्तोत्रम् वकारादि श्रीवराहाष्टोत्तरशतनामावलिः वकारादि श्रीवामनाष्टोत्तरशतनामस्तोत्रम् वकारादि श्रीवामनाष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम् देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddesssanskritstotraदेवतादेवीसंस्कृतस्तोत्र ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम् Translation - भाषांतर श्री हयग्रीवाय नमः ।हरिः ॐकमठः कन्धिमध्यस्थः करुणावरुणालयः ।कुलाचलसमुद्धर्ता कुण्डलीन्द्रसमाश्रयः ॥१॥कठोरपृष्टः कुधरः कलुषीकृतसागरः ।कल्याणमूर्तिः क्रतुभुक्प्रार्थनाधृत विग्रहः ॥२॥कुलाचलसमुद्भ्रान्तिघृष्टकण्डूतिसौख्यवान् ।करालश्वाससङ्क्षुब्धसिन्धूर्मिप्रहताम्बरः ॥३॥कन्धिकर्दमकस्तूरीलिप्तवक्षःस्थलः कृती ।कुलीरादिपयस्सत्त्वनिष्पेषणचतुष्पदः ॥४॥कराग्रादत्तसम्भुक्ततिमिङ्गिलगिलोत्करः ।कन्धिपुष्पद्विरेफाभः कपर्द्यादिसमीडितः ॥५॥कल्याणाचलतुङ्गात्मागाधीकृतपयोनिधिः ।कुलिशत्पृष्ठसङ्घर्षक्षीणमूलकुलाचलः ॥६॥काश्यपीसत्कुचप्रायमन्दराहतपृष्ठकः ।कायैकदेशापर्याप्तशेषदिग्गजमण्डलः ॥७॥कठोरचरणाघातद्वैधीकृतपयोनिधिः ।कालकूटकृतत्रासः काण्डदुर्मितवैभवः ॥८॥कमनीयः कविस्तुत्यः कनिधिः कमलापतिः ।कमलासनकल्याणसन्धाता कलिनाशनः ॥९॥कटाक्षक्षतदेवार्तिः केन्द्रादिविधृतांजलिः ।कालीपतिप्रीतिपात्रं कामितार्थप्रदः कविः ॥१०॥कूटस्थः कूटकमठः कूटयोगिसुदुर्लभः ।कामहीनः कामहेतुः कामभृत्कंजलोचनः ॥११॥क्रतुभुग्दैन्यविध्वंसी क्रतुभुक्पालकः क्रतुः ।क्रतुपूज्यः क्रतुनिधिः क्रतुत्राता क्रतूद्भवः ॥१२॥कैवल्यसौख्यदकथः कैशोरोत्क्षिप्तमन्दरः ।कैवल्यनिर्वाणमयः कैटभप्रतिसूदनः ॥१३॥क्रान्तसर्वाम्बुधिः क्रान्तपातालः कोमलोदरः ।कन्धिसोर्मिजलक्षौमः कुलाचलकचोत्करः ॥१४॥कटुनिश्श्वासनिर्धूतरक्षस्तूलः कृताद्भुतः ।कौमोदकीहतामित्रः कौतुकाकविताहवः ॥१५॥करालिकंटकोद्धर्ता कविताब्धिमणीसुमः ।कैवल्यवल्लरीकन्दः कन्दुकीकृतचन्दिरः ॥१६॥करपीतसमस्ताब्धिः कायान्तर्गतवाश्चरः ।कर्पराब्जद्विरेफाभमन्दरः कन्दलत्स्मितः ॥१७॥काश्यपीव्रततीकन्दः कश्यपादिसमानतः ।कल्याणजालनिलयः क्रतुभुङ्नेत्रनन्दनः ॥१८॥कबन्धचरहर्यक्षः क्रान्तदर्शिमनोहरः ।कर्मठाविषयः कर्मकर्तृभावादिवर्जितः ॥१९॥कर्मानधीनः कर्मज्ञः कर्मपः कर्मचोदनः ।कर्मसाक्षी कर्महेतुः कर्मज्ञानविभागकृत् ॥२०॥कर्ता कारयिता कार्यं कारणं करणं कृतिः ।कृत्स्नं कृत्स्नातिगः कृत्स्नचेतनः कृत्स्नमोहनः ॥२१॥करणागोचरः कालः कार्यकारणतातिगः ।कालावशः कालपाशबद्धभक्तावनाभिधः ॥२२॥कृतकृत्यः केलिफलः कीर्तनीयः कृतोत्सवः ।कृतेतरमहानन्दः कृतज्ञः कृतसत्सुखः ॥२३॥॥ इति ककारादि श्री कमठावताराष्टोत्तरशतम् रामेण पराभववैशाख बहुलद्वादश्यां लिखितम् श्री हयग्रीवायार्पितम् ॥ N/A References : N/A Last Updated : September 12, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP