संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|वर्णानुक्रम स्तोत्रः| ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम् वर्णानुक्रम स्तोत्रः ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम् ककारादि श्रीकल्क्यष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम् ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः कृकारादि श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् नकारादि श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम् नकारादि श्रीनरसिंहाष्टोत्तरशतनामावलिः बवर्णादि श्रीबुद्धाष्टोत्तरशतनामस्तोत्रम् बवर्णादि श्रीबुद्धाष्टोत्तरशतनामावलिः मकारादि श्रीमत्स्याष्टोत्तरशतनामस्तोत्रम् मकारादि श्रीमत्स्याष्टोत्तरशतनामावलिः रकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम् रकारादि श्रीपरशुरामाष्टोत्तरशतनामावलिः रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम् रकारादि श्रीरामाष्टोत्तरशतनामावलिः वकारादि श्रीवराहाष्टोत्तरशतनामस्तोत्रम् वकारादि श्रीवराहाष्टोत्तरशतनामावलिः वकारादि श्रीवामनाष्टोत्तरशतनामस्तोत्रम् वकारादि श्रीवामनाष्टोत्तरशतनामावलिः ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम् देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddesssanskritstotraदेवतादेवीसंस्कृतस्तोत्र ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम् Translation - भाषांतर श्री हयग्रीवाय नमः ।हरिः ॐकल्की कल्की कल्किहन्ता कल्किजित्कलिमारकः ।कल्क्यलभ्यः कल्मषघ्नः कल्पितक्षोणिमङ्गलः ॥१॥कलिताश्वाकृतिः कन्तुसुन्दरः कञ्जलोचनः ।कल्याणमूर्तिः कमलाचित्तचोरः कलानिधिः ॥२॥कमनीयः कलिनिशाकल्यनामा कनत्तनुः ।कलानिधिसहस्राभा कपर्दिगिरिसन्निभः ॥३॥कन्दर्पदर्पदमनः कण्ठीरवपराक्रमः ।कन्धरोच्चलितश्वेतपटानिर्धूतकन्धरः ॥४॥कठोरहेषानिनदत्रासिताशेषमानुषः ।कविः कवीन्द्रसंस्तुत्यः कमलासनसन्नुतः ॥५॥कनत्खुराग्रकुलिशचूर्णीकृताखिलाचलः ।कचित्तदर्पदमनगमनस्तम्भिताहिपः ॥६॥कलाकुलकलाजालचलवालामलाचलः ।कल्याणकान्तिसन्तान पारदक्षालिताखिलः ॥७॥कल्पद्रुकुसुमाकीर्णः कलिकल्पमहीरुहः ।कचन्द्राग्नीन्द्ररुद्रादि बुधलोकमयाकृतिः ॥८॥कञ्जासनाण्डामितात्मप्रतापः कन्धिबन्धनः ।कठोरखुरविन्यासपीडिताशेषभूतलः ॥९॥कबलीकृतमार्ताण्डहिमांशुकिरणाङ्कुरः ।कदर्थीकृतरुद्रादिवीरवर्यः कठोरदृक् ॥१०॥कविलोकामृतासार वर्षायितदृगावलिः ।कदात्मायुर्घृतग्राहिकोपाग्निरुचिदृक्ततिः ॥११॥कठोरश्वासनिर्धूतखलतूलावृताम्बुधिः ।कलानिधिपदोद्भेदलीलाकृतसमुत्प्लवः ॥१२॥कठोरखुरनिर्भेदक्रोशदाकाशसंस्तुतः ।कञ्जास्याण्डबिभित्योर्थ्वदृष्टिश्रुतियुगाद्भुतः ॥१३॥कनत्पक्षद्वयव्याज शङ्खचक्रोपशोभितः ।कदर्थीकृतकौबेरशङ्खश्रुतियुगाञ्चितः ॥१४॥कलितांशुगदावालः कण्ठसन्मणिविभ्रमः ।कलानिधिलसत्फालः कमलालयविग्रहः ॥१५॥कर्पूरखण्डरदनः कमलाबडबान्वितः ।करुणासिन्धुफेनान्तलम्बमानाधरोष्टकः ॥१६॥कलितानन्तचरणः कर्मब्रह्मसमुद्भवः ।कर्मब्रह्माब्जमार्ताण्डः कर्मब्रह्मद्विरर्दनः ॥१७॥कर्मब्रह्ममयाकारः कर्मब्रह्मविलक्षणः ।कर्मब्रह्मात्यविषयः कर्मब्रह्मस्वरूपवित् ॥१८॥कर्मास्पृष्टः कर्महीनः कल्याणानन्दचिन्मयः ।कञ्जासनाण्डजठरः कल्पिताखिलविभ्रमः ॥१९॥कर्मालसजनाज्ञेयः कर्मब्रह्ममतासहः ।कर्माकर्मविकर्मस्थः कर्मसाक्षी कभासकः ॥२०॥कचन्द्राग्न्युडुतारादिभासहीनः कमध्यगः ।कचन्द्रादित्यलसनः कलावार्ताविवर्जितः ॥२१॥करुद्रमाधवमयः कलाभूतप्रमातृकः ।कलितानन्तभुवन सृष्टिस्थितिलयक्रियः ॥२२॥करुद्रादि तरङ्गाध्यस्वात्मानन्दपयोदधिः ।कलिचित्तानन्दसिन्धुसम्पूर्णानङ्कचन्द्रमाः ॥२३॥कलिचेतस्सरोहंसः कलिताखिलचोदनः ।कलानिधिवरज्योत्स्नामृतक्षालितविग्रहः ॥२४॥कपर्दिमकुटोदञ्चद्गङ्गापुष्करसेवितः ।कञ्जासनात्ममोदाब्धितरङ्गार्द्रानिलार्चितः ॥२५॥कलानिधिकलाश्वेतशारदाम्बुदविग्रहः ।कमलावाङ्मरन्दाब्धिफेनचन्दनचर्चितः ॥२६॥कलितात्मानन्दभुक्तिः करुङ्नीराजिताकृतिः ।कश्यपादिस्तुतख्यातिः कविचेतस्सुमार्पणः ॥२७॥कलिताकारसद्धर्मः कलाफलमयाकृतिः ।कठोरखुरघातात्तप्राणाधर्मवशुः कलिजित् ॥२८॥कलापूर्णीकृतवृषः कल्पितादियुगस्थितिः ।कम्रः कल्मषपैशाचमुक्ततुष्टधरानुतः ॥२९॥कर्पूरधवलात्मीय कीर्तिव्याप्तदिगन्तरः ।कल्याणात्मयशोवल्लीपुष्पायितकलानिधिः ॥३०॥कल्याणात्मयशस्सिन्धु जाताप्सरसनर्तितः ।कमलाकीर्तिगङ्गाम्भः परिपूर्णयशोम्बुधिः ॥३१॥कमलासनधीमन्थमथितानन्दसिन्धुभू ।कल्याणसिन्धुः कल्याणदायी कल्याणमङ्गलः ॥३२॥॥ इति ककारादि कल्क्यष्टोत्तरशतनाममूलं लिखितं रामेणपराभवाश्वयुज बहुल चतुर्थ्याम् समर्पितं चश्रीमते हयग्रीवाय देवाय ॥ N/A References : N/A Last Updated : September 12, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP