संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|वर्णानुक्रम स्तोत्रः| वकारादि श्रीवराहाष्टोत्तरशतनामावलिः वर्णानुक्रम स्तोत्रः ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम् ककारादि श्रीकल्क्यष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम् ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः कृकारादि श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् नकारादि श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम् नकारादि श्रीनरसिंहाष्टोत्तरशतनामावलिः बवर्णादि श्रीबुद्धाष्टोत्तरशतनामस्तोत्रम् बवर्णादि श्रीबुद्धाष्टोत्तरशतनामावलिः मकारादि श्रीमत्स्याष्टोत्तरशतनामस्तोत्रम् मकारादि श्रीमत्स्याष्टोत्तरशतनामावलिः रकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम् रकारादि श्रीपरशुरामाष्टोत्तरशतनामावलिः रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम् रकारादि श्रीरामाष्टोत्तरशतनामावलिः वकारादि श्रीवराहाष्टोत्तरशतनामस्तोत्रम् वकारादि श्रीवराहाष्टोत्तरशतनामावलिः वकारादि श्रीवामनाष्टोत्तरशतनामस्तोत्रम् वकारादि श्रीवामनाष्टोत्तरशतनामावलिः वकारादि श्रीवराहाष्टोत्तरशतनामावलिः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddesssanskritstotraदेवतादेवीसंस्कृतस्तोत्र वकारादि श्रीवराहाष्टोत्तरशतनामावलिः Translation - भाषांतर श्री हयग्रीवाय नमः ।हरिः ॐॐ वराहाय नमः ।ॐ वरदाय नमः ।ॐ वन्द्याय नमः ।ॐ वरेण्याय नमः ।ॐ वसुदेवजाय नमः ।ॐ वषट्काराय नमः ।ॐ वसुनिधये नमः ।ॐ वसुधोद्धरणाय नमः ।ॐ वसवे नमः ।ॐ वसुदेवाय नमः । १०ॐ वसुमतीदंष्ट्राय नमः ।ॐ वसुमतीप्रियाय नमः ।ॐ वनधिस्तोमरोमान्धवे नमः ।ॐ वज्ररोम्णे नमः ।ॐ वदावदाय नमः ।ॐ वलक्षाङ्गाय नमः ।ॐ वश्यविश्वाय नमः ।ॐ वसुधाधरसन्निभाय नमः ।ॐ वनजोदरदुर्वारविषादध्वंसनोदयाय नमः ।ॐ वल्गत्सटाजातवातधूतजीमूतसंहतये नमः । २०ॐ वज्रदंष्ट्राग्रविच्छिन्नहिरण्याक्षधराधराय नमः ।ॐ वशिष्टाद्यर्षिनिकरस्तूयमानाय नमः ।ॐ वनायनाय नमः ।ॐ वनजासनरुद्रेन्द्रप्रसादित महाशयाय नमः ।ॐ वरदानविनिर्धूतब्रह्मब्राह्मणसंशयाय नमः ।ॐ वल्लभाय नमः ।ॐ वसुधाहारिरक्षोबलनिषूदनाय नमः ।ॐ वज्रसारखुराघातदलिताब्धिरसाहिपाय नमः ।ॐ वलद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्पराय नमः ।ॐ वदनान्तर्गतायातब्रह्माण्डश्वासपद्धतये नमः । ३०ॐ वर्चस्विने नमः ।ॐ वरदंष्ट्राग्रसमुन्मीलितदिक्तटाय नमः ।ॐ वनजासननासान्तर्हंसवाहावरोहिताय नमः ।ॐ वनजासनदृक्पद्मविकासाद्भुतभास्कराय नमः ।ॐ वसुधाभ्रमरारूढदंष्ट्रापद्माग्रकेसराय नमः ।ॐ वसुधाधूममषिका रम्यदंष्ट्राप्रदीपकाय नमः ।ॐ वसुधासहस्रपत्रमृणालायित दंष्ट्रिकाय नमः ।ॐ वसुधेन्दीवराक्रान्तदंष्ट्राचन्द्रकलाञ्चिताय नमः ।ॐ वसुधाभाजनालम्बदंष्ट्रारजतयष्टिकाय नमः ।ॐ वसुधाभूधरावेधि दंष्ट्रासूचीकृताद्भुताय नमः । ४०ॐ वसुधासागराहार्यलोकलोकपधृद्रदाय नमः ।ॐ वसुधावसुधाहारिरक्षोधृच्छृङ्गयुग्मकाय नमः ।ॐ वसुधाधस्समालम्बिनालस्तम्भ प्रकम्पनाय नमः ।ॐ वसुधाच्छत्ररजतदण्डच्छृङ्गमनोहराय नमः ।ॐ वतंसीकृतमन्दाराय नमः ।ॐ वलक्षीकृतभूतलाय नमः ।ॐ वरदीकृतवृत्तान्ताय नमः ।ॐ वसुधीकृतसागराय नमः ।ॐ वश्यमायाय नमः ।ॐ वरगुणक्रियाधाराय नमः ।ॐ वराभिथाय नमः ।ॐ वरुणालयवास्तव्यजन्तुविद्राविघुर्घुराय नमः ।ॐ वरुणालयविच्छेत्रे नमः ।ॐ वरुणादिदुरासदाय नमः ।ॐ वनजासनसन्तानावनजात महाकृपाय नमः ।ॐ वत्सलाय नमः ।ॐ वह्निवदनाय नमः ।ॐ वराहवमयाय नमः ।ॐ वसवे नमः ।ॐ वनमालिने नमः । ६०ॐ वन्दिवेदाय नमः ।ॐ वयस्थाय नमः ।ॐ वनजोदराय नमः ।ॐ वेदत्वचे नमः ।ॐ वेदविदे नमः ।ॐ वेदिने नमः ।ॐ वेदवादिने नमः ।ॐ वेदवेदाङ्गतत्त्वज्ञाय नमः ।ॐ वेदमूर्तये नमः ।ॐ वेदविद्वेद्य विभवाय नमः । ७०ॐ वेदेशाय नमः ।ॐ वेदरक्षणाय नमः ।ॐ वेदान्तसिन्धुसञ्चारिणे नमः ।ॐ वेददूराय नमः ।ॐ वेदान्तसिन्धुमध्यस्थाचलोद्धर्त्रे नमः ।ॐ वितानकृते नमः ।ॐ वितानेशाय नमः ।ॐ वितानाङ्गाय नमः ।ॐ वितानफलदाय नमः ।ॐ विभवे नमः । ८०ॐ वितानभावनाय नमः ।ॐ विश्वभावनाय नमः ।ॐ विश्वरूपधृते नमः ।ॐ विश्वदंष्ट्राय नमः ।ॐ विश्वगर्भाय नमः ।ॐ विश्वगाय नमः ।ॐ विश्वसम्मताय नमः ।ॐ वेदारण्यचराय नमः ।ॐ वामदेवादिमृगसंवृताय नमः ।ॐ विश्वातिक्रान्तमहिम्ने नमः । ९०ॐ वन्यभूपतये नमः ।ॐ वैकुण्ठकोलाय नमः ।ॐ विकुण्ठलीलाय नमः ।ॐ विलयसिन्धुगाय नमः ।ॐ वप्तःकबलिताजाण्डाय नमः ।ॐ वेगवते नमः ।ॐ विश्वपावनाय नमः ।ॐ विपश्चिदाशयारण्यपुण्यस्फूर्तये नमः ।ॐ विशृङ्खलाय नमः ।ॐ विश्वद्रोहिक्षयकराय नमः । १००ॐ विश्वाधिकमहाबलाय नमः ।ॐ वीर्यसिन्धवे नमः ।ॐ विवद्बन्धवे नमः ।ॐ वियत्सिन्धुतरङ्गिताय नमः ।ॐ व्यादत्तविद्वेषिसत्त्वमुस्ताय नमः ।ॐ विश्वगुणाम्बुधये नमः ।ॐ विश्वमङ्गलकान्तारकृत लीलाविहाराय नमः ।ॐ विश्वमङ्गलदोत्तुङ्गकरुणापाङ्गाय नमः । १०८॥ इति वकारादि श्री वराहाष्टोत्तरशतनामावलिः पराभवश्रावणशुद्ध त्रयोदश्यां लिखिता रामेण समर्पिता चश्रीहयग्रीव चरणार विन्दयोर्विजयतां तराम् ॥ N/A References : N/A Last Updated : September 12, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP