संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|वर्णानुक्रम स्तोत्रः|
वकारादि श्रीवामनाष्टोत्तरशतनामस्तोत्रम्

वकारादि श्रीवामनाष्टोत्तरशतनामस्तोत्रम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.

In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


श्री हयग्रीवाय नमः ।
हरिः ॐ

वामनो वारिजाताक्षो वर्णी वासवसोदरः ।
वासुदेवो वावदूको वालखिल्यसमो वरः ॥१॥

वेदवादी विद्युदाभो वृतदण्डो वृषाकपिः ।
वारिवाहसितच्छत्रो वारिपूर्णकमण्डलुः ॥२॥

वलक्षयज्ञोपवीतो वरकौपीनधारकः ।
विशुद्धमौञ्जीरशनो विधृतस्फाटिकस्रजः ॥३॥

वृतकृष्णाजिनकुशो विभूतिच्छन्नविग्रहः ।
वरभिक्षापात्रकक्षो वारिजारिमुखो वशी ॥४॥

वारिजाङ्घ्रिर्वृद्धसेवी वदनस्मितचन्द्रिकः ।
वल्गुभाषी विश्वचित्तधनस्तेयी विशिष्टधीः ॥५॥

वसन्तसदृशो वह्नि शुद्धाङ्गो विपुलप्रभः ।
विशारदो वेदमयो विद्वदर्धिजनावृतः ॥६॥

वितानपावनो विश्वविस्मयो विनयान्वितः ।
वन्दारुजनमन्दारो वैष्णवर्क्षविभूषणः ॥७॥

वामाक्षीमदनो विद्वन्नयनाम्बुजभास्करः ।
वारिजासनगौरीशवयस्यो वासवप्रियः ॥८॥

वैरोचनिमखालङ्कृद्वैरोचनिवनीवकः ।
वैरोचनियशस्सिन्धुचन्द्रमा वैरिबाडबः ॥९॥

वासवार्थस्वीकृतार्थिभावो वासितकैतवः ।
वैरोचनिकराम्भोजरससिक्तपदाम्बुजः ॥१०॥

वैरोचनिकराब्धारापूरिताञ्जलिपङ्कजः ।
वियत्पतितमन्दारो विन्ध्यावलिकृतोत्सवः ॥११॥

वैषम्यनैर्घृण्यहीनो वैरोचनिकृतप्रियः ।
विदारितैककाव्याक्षो वांछिताज्ङ्घ्रित्रयक्षितिः ॥१२॥

वैरोचनिमहाभाग्य परिणामो विषादहृत् ।
वियद्दुन्दुभिनिर्घृष्टबलिवाक्यप्रहर्षितः ॥१३॥

वैरोचनिमहापुण्याहार्यतुल्यविवर्धनः ।
विबुधद्वेषिसन्त्रासतुल्यवृद्धवपुर्विभुः ॥१४॥

विश्वात्मा विक्रमक्रान्तलोको विबुधरञ्जनः ।
वसुधामण्डलव्यापिदिव्यैकचरणाम्बुजः ॥१५॥

विधात्रण्डविनिर्भेदिद्वितीयचरणाम्बुजः ।
विग्रहस्थितलोकौघो वियद्गङ्गोदयाङ्घ्रिकः ॥१६॥

वरायुधधरो वन्द्यो विलसद्भूरिभूषणः ।
विष्वक्सेनाद्युपवृतो विश्वमोहाब्जनिस्स्वनः ॥१७॥

वास्तोष्पत्यादिदिक्पालबाहुर्विधुमयाशयः ।
विरोचनाक्षो वह्न्यास्यो विश्वहेत्वर्षिगुह्यकः ॥१८॥

वार्धिकुक्षिर्वारिवाहकेशो वक्षस्थ्सलेन्दिरः ।
वायुनासो वेदकण्ठो वाक्छन्दा विधिचेतनः ॥१९॥

वरुणस्थानरसनो विग्रहस्थचराचरः ।
विबुधर्षिगणप्राणो विबुधारिकटिस्थलः ॥२०॥

विधिरुद्रादिविनुतो विरोचनसुतानन्दनः ।
वारितासुरसन्दोहो वार्धिगम्भीरमानसः ॥२१॥

विरोचनपितृस्तोत्रकृतशान्तिर्वृषप्रियः ।
विन्ध्यावलिप्राणनाध भिक्षादायी वरप्रदः ॥२२॥

वासवत्राकृतस्वर्गो वैरोचनिकृतातलः ।
वासवश्रीलतोपघ्नो वैरोचनिकृतादरः ॥२३॥

विबुधद्रुसुमापाङ्गवारिताश्रितकश्मलः ।
वारिवाहोपमो वाणीभूषणोऽवतु वाक्पतिः ॥२४॥

॥ इति वकारादि श्री वामनावताराष्टोत्तरशतम् पराभव
श्रावण बहुल प्रतिपदि लिखितं रामेण समर्पितं च
श्री हयग्रीवायदेवाय ॥

N/A

References : N/A
Last Updated : September 12, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP