संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|वर्णानुक्रम स्तोत्रः| ककारादि श्रीकल्क्यष्टोत्तरशतनामावलिः वर्णानुक्रम स्तोत्रः ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम् ककारादि श्रीकल्क्यष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम् ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः कृकारादि श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् नकारादि श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम् नकारादि श्रीनरसिंहाष्टोत्तरशतनामावलिः बवर्णादि श्रीबुद्धाष्टोत्तरशतनामस्तोत्रम् बवर्णादि श्रीबुद्धाष्टोत्तरशतनामावलिः मकारादि श्रीमत्स्याष्टोत्तरशतनामस्तोत्रम् मकारादि श्रीमत्स्याष्टोत्तरशतनामावलिः रकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम् रकारादि श्रीपरशुरामाष्टोत्तरशतनामावलिः रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम् रकारादि श्रीरामाष्टोत्तरशतनामावलिः वकारादि श्रीवराहाष्टोत्तरशतनामस्तोत्रम् वकारादि श्रीवराहाष्टोत्तरशतनामावलिः वकारादि श्रीवामनाष्टोत्तरशतनामस्तोत्रम् वकारादि श्रीवामनाष्टोत्तरशतनामावलिः ककारादि श्रीकल्क्यष्टोत्तरशतनामावलिः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddesssanskritstotraदेवतादेवीसंस्कृतस्तोत्र ककारादि श्रीकल्क्यष्टोत्तरशतनामावलिः Translation - भाषांतर श्री हयग्रीवाय नमः ।हरिः ॐॐ कल्किने नमः ।ॐ कल्किने नमः ।ॐ कल्किहन्त्रे नमः ।ॐ कल्किजिते नमः ।ॐ कलिमारकाय नमः ।ॐ कल्क्यलभ्याय नमः ।ॐ कल्मषघ्नाय नमः ।ॐ कल्पितक्षोणिमङ्गलाय नमः ।ॐ कलिताश्वाकृतये नमः ।ॐ कन्तुसुन्दराय नमः । १०ॐ कञ्जलोचनाय नमः ।ॐ कल्याणमूर्तये नमः ।ॐ कमलाचित्तचोराय नमः ।ॐ कलानिधये नमः ।ॐ कमनीयाय नमः ।ॐ कलिनिशाकल्यनाम्ने नमः ।ॐ कनत्तनवे नमः ।ॐ कलानिधिसहस्राभाय नमः ।ॐ कपर्दिगिरि सन्निभाय नमः ।ॐ कन्दर्पदर्पदमनाय नमः । २०ॐ कण्ठीरवपराक्रमाय नमः ।ॐ कन्धरोच्चलितश्वेतपटानिर्धूतकन्धराय नमः ।ॐ कठोरहेषानिनदत्रासिताशेषमानुषाय नमः ।ॐ कवये नमः ।ॐ कवीन्द्रसंस्तुत्याय नमः ।ॐ कमलासन सन्नुताय नमः ।ॐ कनत्खुराग्रकुलिशचूर्णीकृताखिलाचलाय नमः ।ॐ कचित्तदर्पदमनगमनस्तम्भिताहिपाय नमः ।ॐ कलाकुलकलाजालचलवालामलाचलाय नमः ।ॐ कल्याणकान्तिसन्तान पारदक्षालिताखिलाय नमः । ३०ॐ कल्पद्रुकुसुमाकीर्णाय नमः ।ॐ कलिकल्पमहीरुहाय नमः ।ॐ कचन्द्राग्नीन्द्ररुद्रादि बुधलोकमयाकृतये नमः ।ॐ कञ्जासनाण्डामितात्मप्रतापाय नमः ।ॐ कन्धिबन्धनाय नमः ।ॐ कठोरखुरविन्यासपीडिताशेषभूतलाय नमः ।ॐ कबलीकृतमार्ताण्डहिमांशुकिरणाङ्कुराय नमः ।ॐ कदर्थीकृतरुद्रादिवीरवर्याय नमः ।ॐ कठोरदृशे नमः ।ॐ कविलोकामृतासारवर्षायितदृगावलये नमः । ४०ॐ कदात्मायुर्घृतग्राहिकोपाग्निरुचिदृक्ततये नमः ।ॐ कठोरश्वासनिर्धूतखलतुलावृताम्बुधये नमः ।ॐ कलानिधिपदोद्भेदलीलाकृतसमुत्प्लवाय नमः ।ॐ कठोरखुरनिर्भेदक्रोशदाकाशसंस्तुताय नमः ।ॐ कञ्जास्याण्डबिभित्सोर्थ्वदृष्टिश्रुतियुगाद्भुताय नमः ।ॐ कनत्पक्षद्वयव्याजशङ्खचक्रोपशोभिताय नमः ।ॐ कदर्थीकृतकौबेरशङ्खश्रुतियुगाञ्चिताय नमः ।ॐ कलितांशुगदावालाय नमः ।ॐ कण्ठसन्मणिविभ्रमाय नमः ।ॐ कलानिधिलसत्फालाय नमः । ५०ॐ कमलालयविग्रहाय नमः ।ॐ कर्पूरखण्डरदनाय नमः ।ॐ कमलाबडबान्विताय नमः ।ॐ करुणासिन्धुफेनान्तलम्बमानाधरोष्टकाय नमः ।ॐ कलितानन्तचरणाय नमः ।ॐ कर्मब्रह्मसमुद्भवाय नमः ।ॐ कर्मब्रह्माब्जमार्ताण्डाय नमः ।ॐ कर्मब्रह्मद्विडर्दनाय नमः ।ॐ कर्मब्रह्ममयाकाराय नमः ।ॐ कर्मब्रह्मविलक्षणाय नमः । ६०ॐ कर्मब्रह्मात्यविषयाय नमः ।ॐ कर्मब्रह्मस्वरूपविदे नमः ।ॐ कर्मास्पृष्टाय नमः ।ॐ कर्मवीराय नमः ।ॐ कल्याणानन्दचिन्मयाय नमः ।ॐ कञ्जासनाण्डजठराय नमः ।ॐ कल्पिताखिलविभ्रमाय नमः ।ॐ कर्मालसजनाज्ञेयाय नमः ।ॐ कर्मब्रह्ममतासहाय नमः ।ॐ कर्माकर्मविकर्मस्थाय नमः । ७०ॐ कर्मसाक्षिणे नमः ।ॐ कभासकाय नमः ।ॐ कचन्द्राग्न्युडुतारादिभासहीनाय नमः ।ॐ कमध्यगाय नमः ।ॐ कचन्द्रादित्यलसनाय नमः ।ॐ कलावार्ताविवर्जिताय नमः ।ॐ करुद्रमाधवमयाय नमः ।ॐ कलाभूतप्रमातृकाय नमः ।ॐ कलितानन्तभुवनसृष्टिस्थितिलयक्रियाय नमः ।ॐ करुद्रादितरङ्गाध्यस्वात्मानन्दपयोदधये नमः । ८०ॐ कलिचित्तानन्दसिन्धुसम्पूर्णानङ्कचन्द्रमसे नमः ।ॐ कलिचेतस्सरोहंसाय नमः ।ॐ कलिताखिलचोदनाय नमः ।ॐ कलानिधिवरज्योत्स्नामृतक्षालितविग्रहाय नमः ।ॐ कपर्दिमकुटोदञ्चद्गङ्गापुष्करसेविताय नमः ।ॐ कञ्जासनात्ममोदाब्धितरङ्गार्द्रानिलार्चिताय नमः ।ॐ कलानिधिकलाश्वेतशारदाम्बुदविग्रहाय नमः ।ॐ कमलावाङ्मरन्दाब्धिफेनचन्दनचर्चिताय नमः ।ॐ कलितात्मानन्दभुक्तये नमः ।ॐ करुङ्नीराजिताकृतये नमः । ९०ॐ कश्यपादिस्तुतख्यातये नमः ।ॐ कविचेतस्सुमार्पणाय नमः ।ॐ कलिताकार सद्धर्माय नमः ।ॐ कलाफलमयाकृतये नमः ।ॐ कठोरखुरघातात्तप्राणाधर्मवशवे नमः ।ॐ कलिजिते नमः ।ॐ कलापूर्णीकृतवृषाय नमः ।ॐ कल्पितादियुगस्थितये नमः ।ॐ कम्राय नमः ।ॐ कल्मषपैशाचमुक्ततुष्टधरानुताय नमः ।ॐ कर्पूरधवलात्मीय कीर्तिव्याप्तदिगन्तराय नमः ।ॐ कल्याणात्मयशोवल्लीपुष्पायितकलानिधये नमः ।ॐ कल्याणात्मयशस्सिन्धुजाताप्सरसनर्तिताय नमः ।ॐ कमलाकीर्तिगङ्गाम्भः परिपूर्णयशोम्बुधये नमः ।ॐ कमलासनधीमन्थमथितानन्दसिन्धुभुवे नमः ।ॐ कल्याणसिन्धवे नमः ।ॐ कल्याणदायिने नमः ।ॐ कल्याणमङ्गलाय नमः ।॥ इति ककारादि श्री कल्क्यष्टोत्तरशतनामावलिःपराभवाश्वयुजकृष्णचतुर्थीदिने लिखिता रामेण समर्पिताच श्री हयग्रीवाय देवाय श्री हयग्रीवार्पणमस्तु श्री ॥ N/A References : N/A Last Updated : September 12, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP