संस्कृत सूची|संस्कृत स्तोत्र साहित्य|स्तोत्रः|वर्णानुक्रम स्तोत्रः| ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः वर्णानुक्रम स्तोत्रः ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम् ककारादि श्रीकल्क्यष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम् ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः कृकारादि श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् नकारादि श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम् नकारादि श्रीनरसिंहाष्टोत्तरशतनामावलिः बवर्णादि श्रीबुद्धाष्टोत्तरशतनामस्तोत्रम् बवर्णादि श्रीबुद्धाष्टोत्तरशतनामावलिः मकारादि श्रीमत्स्याष्टोत्तरशतनामस्तोत्रम् मकारादि श्रीमत्स्याष्टोत्तरशतनामावलिः रकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम् रकारादि श्रीपरशुरामाष्टोत्तरशतनामावलिः रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम् रकारादि श्रीरामाष्टोत्तरशतनामावलिः वकारादि श्रीवराहाष्टोत्तरशतनामस्तोत्रम् वकारादि श्रीवराहाष्टोत्तरशतनामावलिः वकारादि श्रीवामनाष्टोत्तरशतनामस्तोत्रम् वकारादि श्रीवामनाष्टोत्तरशतनामावलिः ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddesssanskritstotraदेवतादेवीसंस्कृतस्तोत्र ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः Translation - भाषांतर श्री हयग्रीवाय नमः ।हरिः ॐॐ कमठाय नमः ।ॐ कन्धिमध्यस्थाय नमः ।ॐ करुणावरुणालयाय नमः ।ॐ कुलाचलसमुद्धर्त्रे नमः ।ॐ कुण्डलीन्द्रसमाश्रयाय नमः ।ॐ कठोरपृष्टाय नमः ।ॐ कुधराय नमः ।ॐ कलुषीकृतसागराय नमः ।ॐ कल्याणमूर्तये नमः ।ॐ क्रतुभुक्प्रार्थनाधृत विग्रहाय नमः । १०ॐ कुलाचलसमुद्भ्रान्तिघृष्टकण्डूतिसौख्यवते नमः ।ॐ करालश्वाससङ्क्षुब्धसिन्धूर्मिप्रहताम्बराय नमः ।ॐ कन्धिकर्दमकस्तूरीलिप्तवक्षस्थलाय नमः ।ॐ कृतिने नमः ।ॐ कुलीरादिपयस्सत्त्वनिष्पेषणचतुष्पदाय नमः ।ॐ कराग्रादत्तसम्भुक्ततिमिङ्गिलगिलोत्कराय नमः ।ॐ कन्धिपुष्पद्विरेफाभाय नमः ।ॐ कपर्द्यादिसमीडिताय नमः ।ॐ कल्याणाचलतुङ्गात्मगाधीकृतपयोनिधये नमः ।ॐ कुलिशत्पृष्ठसङ्घर्षक्षीणमूलकुलाचलाय नमः । २०ॐ काश्यपीसत्कुचप्रायमन्दराहतपृष्ठकाय नमः ।ॐ कायैकदेशापर्याप्तशेषदिग्गजमण्डलाय नमः ।ॐ कठोरचरणाघातद्वैधीकृतपयोनिधये नमः ।ॐ कालकूटकृतत्रासाय नमः ।ॐ काण्डदुर्मितवैभवाय नमः ।ॐ कमनीयाय नमः ।ॐ कविस्तुत्याय नमः ।ॐ कनिधये नमः ।ॐ कमलापतये नमः ।ॐ कमलासनकल्याणसन्धात्रे नमः । ३०ॐ कलिनाशनाय नमः ।ॐ कटाक्षक्षतदेवार्तये नमः ।ॐ केन्द्रादिविधृतांजलये नमः ।ॐ कालीपतिप्रीतिपात्राय नमः ।ॐ कामितार्धप्रदाय नमः ।ॐ कवये नमः ।ॐ कूटस्थाय नमः ।ॐ कूटकमठाय नमः ।ॐ कूटयोगिसुदुर्लभाय नमः ।ॐ कामहीनाय नमः । ४०ॐ कामहेतवे नमः ।ॐ कामभृते नमः ।ॐ कंजलोचनाय नमः ।ॐ क्रतुभुग्दैन्यविध्वंसिने नमः ।ॐ क्रतुभुक्पालकाय नमः ।ॐ क्रतवे नमः ।ॐ क्रतुपूज्याय नमः ।ॐ क्रतुनिधये नमः ।ॐ क्रतुत्रात्रे नमः ।ॐ क्रतूद्भवाय नमः । ५०ॐ कैवल्यसौख्यदकथाय नमः ।ॐ कैशोरोत्क्षिप्तमन्दराय नमः ।ॐ कैवल्यनिर्वाणमयाय नमः ।ॐ कैटभप्रतिसूदनाय नमः ।ॐ क्रान्तसर्वाम्बुधये नमः ।ॐ क्रान्तपातालाय नमः ।ॐ कोमलोदराय नमः ।ॐ कन्धिसोर्मिजलक्षौमाय नमः ।ॐ कुलाचलकचोत्कराय नमः ।ॐ कटुनिश्श्वासनिर्धूतरक्षस्तूलाय नमः । ६०ॐ कृताद्भुताय नमः ।ॐ कौमोदकीहतामित्राय नमः ।ॐ कौतुकाकलिताहवाय नमः ।ॐ कराशिकंटकोद्धर्त्रे नमः ।ॐ कविताब्धिमणीसुमाय नमः ।ॐ कैवल्यवल्लरीकन्दाय नमः ।ॐ कन्दुकीकृतचन्दिराय नमः ।ॐ करपीतसमस्ताब्धये नमः ।ॐ कायान्तर्गतवाश्चराय नमः ।ॐ कर्पराब्जद्विरेफाभमन्दराय नमः । ७०ॐ कन्दलत्स्मिताय नमः ।ॐ काश्यपीव्रततीकन्दाय नमः ।ॐ कश्यपादिसमानताय नमः ।ॐ कल्याणजालनिलयाय नमः ।ॐ क्रतुभुङ्नेत्रनन्दनाय नमः ।ॐ कबन्धचरहर्यक्षाय नमः ।ॐ क्रान्तदर्शिमनोहराय नमः ।ॐ कर्मठाविषयाय नमः ।ॐ कर्मकर्तृभावादिवर्जिताय नमः ।ॐ कर्मानधीनाय नमः । ८०ॐ कर्मज्ञाय नमः ।ॐ कर्मपाय नमः ।ॐ कर्मचोदनाय नमः ।ॐ कर्मसाक्षिणे नमः ।ॐ कर्महेतने नमः ।ॐ कर्मज्ञानविभागकृते नमः ।ॐ कर्त्रे नमः ।ॐ कारयित्रे नमः ।ॐ कार्याय नमः ।ॐ कारणाय नमः ।ॐ करणाय नमः ।ॐ कृतये नमः ।ॐ कृत्स्नाय नमः ।ॐ कृत्स्नातिगाय नमः ।ॐ कृत्स्नचेतनाय नमः ।ॐ कृत्स्नमोहनाय नमः ।ॐ करणागोचराय नमः ।ॐ कालाय नमः ।ॐ कार्यकारणतातिगाय नमः ।ॐ कालावशाय नमः । १००ॐ कालपाशबद्धभक्तावनाभिधाय नमः ।ॐ कृतकृत्याय नमः ।ॐ केलिफलाय नमः ।ॐ कीर्तनीयाय नमः ।ॐ कृतोत्सवाय नमः ।ॐ कृतेतरमहानन्दाय नमः ।ॐ कृतज्ञाय नमः ।ॐ कृतसत्सुखाय नमः । १०८॥ इति ककारादि श्री कमठावताराष्टोत्तरशतम् पराभववैशाख बहुलद्वादश्यां लिखितं रामेण समर्पितं चश्री हयग्रीवदेवाय ॥ N/A References : N/A Last Updated : September 12, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP