संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|राधा सप्तशती| श्रीराधा सप्तशती अध्याय-३ राधा सप्तशती श्रीराधा सप्तशती अध्याय-१ श्रीराधा सप्तशती अध्याय-२ श्रीराधा सप्तशती अध्याय-३ श्रीराधा सप्तशती अध्याय-४ श्रीराधा सप्तशती अध्याय-५ श्रीराधा सप्तशती अध्याय-६-१ श्रीराधा सप्तशती अध्याय-६-२ श्रीराधा सप्तशती अध्याय-७-१ श्रीराधा सप्तशती अध्याय-७-२ श्रीराधा सप्तशती अध्याय-३ श्री. वागीश शास्त्री द्वारा रचित श्री राधा सप्तशती, राधा रानी ची भक्ति, महिमा आणि त्यांच्या लीला-गाण्यांवर आधारित एक गहन आध्यात्मिक पाठ आहे. Tags : radhasanskrutshaptashatiराधासंस्कृतसप्तशति अध्याय-३ Translation - भाषांतर मधुकण्ठ उवाचगह्वरमन्येत्य भावमग्नां श्रियः सखीम् ।न्द्रां दूरतो दृष्ट्वा ननाम भुवि दण्डवत् ॥१॥मासनं नत्वा भूम्यामुपविवेश ह ।तं विस्तरात् सर्वमसंकोचाल्यवेदयत् ॥२॥गशवाणीवृत्तान्तं कृष्णमित्रवचस्तथा ।॥३॥वर्णयित्वाथ जिज्ञासुः श्रीचन्द्रां शरणं गतः।श्रीश्यामाश्यामयोर्देवि रतरीति न वेदम्यहम् ॥४॥पदे पदे विमुह्यामि तेन त्वां शरणं गतः।मयि दीने दयां कृत्वा यदहस्यं वदाधुना ॥५॥श्यामस्योपरि में रोषः श्यामस्य च ममोपरि।युक्तमेतत्कथं वाम्यं सखीभिरनुमोदितम् ॥६॥निशम्य विप्रवचनं श्रीचन्द्रा वाक्यमब्रवीत् ॥शृणु विप्र लद स्नेहात् किमप्यत्रानुवर्णये ॥७॥यथावत्राधिका देवी तत्प्रेष्ठः श्यामसुन्दरः।रसरीति विजानाति यतस्तौ रसरूपिणी ॥८॥स्वभावकुटिलं प्रेम तदधीने रसे सदा ।कौटिल्यमनिवार्य हि प्रेमाभिन्नत्वहेतुना ॥९॥व्रजेन्द्रनन्दने कृष्ण शैशवादेव वामता।पायनात्पयसो मातु कौटिल्यनमुकुटे लकुटे दृष्टौ चलने वचने तनौ।महारसमयस्यास्य वान्यं प्रेम स्वभावजम् ॥११॥कृष्णादपि महावामा देवी श्रीवृषभानुजा।यया वशीकृतः कृष्णो वामचञ्च लवीक्षणः॥१२॥महाप्रेममयो साक्षात् श्यामा श्रीश्याममोहिनी।अस्याः कृपाकटाक्षेण वामत्वमभिजायते ॥१३॥तदैवाराध्यते कुष्णस्त्यक्त्वा संकोचमात्मनि ।वामत्वे नास्ति संकोचो रसस्तेन प्रकाशते ॥१४॥तवाप्याकाशवाण्या यत् प्रोक्तं वामत्वसिद्धये।येन गोपालमधुना वामदृष्टया बिलोकसे ॥१५॥राधाकृपाकटाक्षस्य फलमेतदनुस्मर ।वामदृष्टयैव दृष्टोऽयं गोपालो वशगो भवेत् ॥१६॥दासोऽस्मीति वचः श्रुत्वा दूरादेव पलायते।अगौरवे कृते तुष्टो गौरवादथ कुप्यति ॥१७॥जगदीश जगन्नाथ कोटिब्रह्माण्डनायक ।ब्रह्मन् स्वामिन्परात्मन् भोः श्रुत्वा संकोचमेत्यसौ ॥१८॥लाल्य लालित लाल्येन्दो वत्स दामोदरादिभिः ।तथा मित्र सखे प्रेष्ठेत्याह्वानरति तुष्यति ॥१९॥कितवासित जिह्मेति चौर चञ्चल धृष्ट रे।अदान्त कुहकेत्यादि समाकर्ण्य प्रमोदते ॥२०॥स्तुवन्तो व्रजवासाय ब्रह्माद्या अपि नादृताः।मौनं स्तुतौ सतामस्य ब्रूते गोकृतहुंकृतौ ॥२१॥लज्जते विप्रयज्ञेषु विहरन् व्रजकर्दमे ।कुरुते दास्यमाभीरीगणे स्वाम्यं न योगिनाम् ॥२२॥न दत्तमस्य रुचिरं स्तेयं स्वादु गृहे गृहे फलप्रवालबहस्रग्धातुस्तबकभूषणः ॥२३॥गोपालबालकैयन् नृत्यन् युध्यन् प्रसीदति ।पराजितो वहन् स्कन्धे तातयं मन्यते सुखम् ॥२४॥सख्यवात्सल्यशृङ्गारा नजे मुख्यास्त्रयो रसाः।तत्तल्लीलाप्रसङ्गेषु ब्रह्माद्यैरपि संस्तुताः॥२५॥'अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।यन्मित्रं परमानन्दं पूर्ण ब्रह्म सनातनम् ॥२६॥पयांसि यासामपिबत् पुत्रस्नेहस्नुतान्यलम् ।भगवान् देवकीपुत्रः कैवल्याद्यखिलप्रदः ॥२७॥तासामविरतं कृष्ण कुर्वतीनां सुतेक्षणम् ।न पुनः कल्पते राजन् संसारोऽज्ञानसम्भवः ॥२८॥पादच्यासर्भुजविधुतिभिः सस्मितैर्भुविलासैर्भज्यन्मध्यैश्वलकुचपटै:कुण्डलैर्गण्डलोलेः।स्विद्यन्मुख्यः कवररशनानन्थयः कृष्णवध्वोगायन्त्यस्तं तडित इव ता भेघचके विरेजुः ॥२९॥तत्रोत्कण्ठाप्रधानत्वात् प्रेम्णोऽतृप्तिस्वभावता।प्रतिक्षणमतो वृद्धिरतृप्तेजवासिनाम् ॥३०॥'यस्याननं मकरकुण्डलचारुकर्णंभ्राजत्कपोलसुभगं सुविलासहासम् ।नित्योत्सवं न ततृपुर्द शिभिः पिबन्त्योनार्यो नराश्च मुदिताः कुपिता निमेश्च ॥३१॥गोपीनां परमानन्द आसीद् गोविन्ददर्शने ।क्षणं युगशतमिव यासां येन विनाभवत' ॥३२॥उक्तिरेषा प्रसिद्धास्ति श्रीशुकस्य महात्मनः।श्रीकृष्णस्य वियोगस्तु दुस्सहो व्रजवासिनान् ॥३३॥कदाचित्रेमवैचित्त्यात् संयोगेऽपि वियोगिता।क्षणे क्षणे प्रेयसीनां वेद्या तद्रसवेदिभिः॥३४॥परं वियोगकालेऽपि विचित्रा रसमाधुरी।अनिर्वाच्यतमा काचित् संयोगादधिकायते ॥३५॥विप्र उवाचकयं देवि महावेगविरहानलतापजः।दुरन्तशोकमोहाद्याप्तोऽपि लभते रतिम्॥३६॥संशयोऽयं सनुच्छेद्यस्त्वयैव कृपयानघे।महागाडतमे दुःखे कुलोऽस्ति रसमाधुरी ॥३७॥श्रीचन्द्रोवाचमहाविरहदुःखेऽपि परिणाने महासुखम् ।तत्स्फूलिस्तद्रसज्ञस्य रसराजानुकम्पया ॥३८॥वियोगकालिकं भावं पुनरप्येष वाञ्छति।तदभावे तु संतापस्तेनास्य सुखरूपता ॥३९॥दुःखस्य बाञ्छनीयत्वं न लोके प्रथितं क्वचित् ।तस्माविरहजं दुःखं विद्धि वित्र सुखात्मकम् ॥४०॥विरहानुभवः प्रेष्ठसंयोगादनुजायते ।सदानुवृत्तिः प्रेष्ठस्य विरहेणैव सिव्यति ॥४१॥यथाधनो लब्धयने विनष्टे तस्य चिन्तया।निभूतो नानुसंधत्ते धनादन्यत् कदाचन ॥४२॥एकदा वजनारीणां दृष्ट्वा विरहवेदनाम् ।उद्धवः परमः प्रीतस्ता नमस्यन्निदं जगौ ॥४३॥'अहो यूयं स्म पूर्णार्था भवत्यो लोकयूजिताः।वासुदेवे भगवति यासामिपितं मनः ॥४४॥सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे।विरहेण महाभागा महान्मेऽनुग्रहः कृतः ॥४५॥विरहस्त्वेष प्रेष्ठस्य संयोगसुखवर्षकः ।यथा हरीतकीचूर्ण माधुर्यव्यञ्जकं ह्यपाम् ॥४६॥प्रेयसो या महारासे पूर्वा रसमाधुरी।विरहादनुभूता सा श्रिया सह सखीगणैः ॥४७॥विप्र उवाचधन्योऽस्म्यनगृहीतोऽस्मि श्रीगोष्टप्रेमप्रक्रियाम् ।त्वत्तः शृणोम्यहं देवि तव पादानुकम्पया ॥४८॥दुलभा श्रीमहारासरसपीयषमाधुरी ।मादृशामपि लभ्या स्यात् साधनं देवि तहद ॥४९॥श्रीचन्द्रोवाचनहि साधनतः प्राप्यं महारासरसामृतम् ।श्रीश्यामाश्यामयोरत्र स्वतन्त्रा कारणं कृपा ॥५०॥क्रियाभिश्च परिश्रान्तचित्तोपरतिकारकम् ।साधनं चाभिमुख्याय कारणत्वेन कल्पितम् ॥५१॥विद्यादयो गुणा राज्ञश्चाभिमख्यप्रयोजकाः।परितोषफलं तस्य स्वतन्त्रकृपया भवेत् ॥५२॥साधनं चाभिमुख्या) तव चित्र वदाम्यहम् ।प्रथमं शृणुयाद्भक्तमुखाद्भागवतों कथान् ॥५३॥ततः समाश्रयेद्भक्त्या रसिकं श्रोत्रियं गुरुम् ।ततो नवविधा भक्तिं विविक्तवसति तथा॥५४॥अथ देहानसंधानं त्यक्त्वा रासाधिकारिताम् ।आभिमुख्यं च लभते प्रेयसं प्रेयसोस्ततः ॥५५॥तत्कृपालेशतः प्राप्य चिदानन्दमयं वपुः ।लभते रासलीलाया रसपीयूषमाधुरीम् ॥५६॥चिदानन्दात्मलीलाया रसास्वादस्तु प्राकृतः ।देहेन्द्रियासुभिः कर्तुमशक्यः सर्वथा जनैः ॥५७॥रासेश्वर कृपा चात्र परमं कारणं मतम् ।रासलीलारसास्वादे यतः साऽऽह्लादिनी मता ॥५८॥महोन्मादकतापूर्णा रासलीला हरेरपि ।विमोहिनी वामनोक्तं प्रमाणं श्रीहरेर्वचः ॥५९॥'सन्ति यद्यपि मे प्राज्या लीलास्तास्ता मनोहराः।नहि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥६०॥इत्युक्त्वा विरता देवी श्रीचन्द्रा बाक्यमब्रवीत् ।गह्वरागमवेलास्ति प्रेयसीप्रेयसोरियम् ॥६१॥व्रजामि तरसेत्युक्त्वा श्रीनिकुञ्जवलीयत ।अथ विप्रोऽपितं देशं नत्वा स्वावासमागमत् ॥६२॥इति श्रीराधा सप्तशती श्रीगह्वरगम्भीरता नाम तृतीयोऽध्यायः । N/A References : N/A Last Updated : July 13, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP