श्रीराधा सप्तशती अध्याय-१

श्री. वागीश शास्त्री द्वारा रचित श्री राधा सप्तशती, राधा रानी ची भक्ति, महिमा आणि त्यांच्या लीला-गाण्यांवर आधारित एक गहन आध्यात्मिक पाठ आहे.


राधा साध्यम साधनं यस्य राधा
मंत्रो राधा मन्त्र दात्री च राधा ।
सर्वं राधा जीवनम् यस्य राधा
राधा राधा वाचि किम तस्य शेषम ॥

बरसाने में प्रवेश

कीर्त्तियशोदयोर्निजमहावात्सल्यसिन्धूद्भवं
मामृतसिन्धुमग्नमनिशं दिव्याद्भुतक्रीडनम् ।
श्चर्यमयं महारसमयं गोप्येकभावाश्रयं
राध्यं हृदि पीतनीलकमलद्वन्द्वं महामोहनम्‌ ॥१॥

श्रीसुकण्ठ उवाच

बृहत्सानुकथां पुण्यां श्यामाश्यामकृपामयीम् ।
सर्वात्मतर्पणी मित्र श्रावयाद्यानुकम्पया ॥२॥

श्रीमधुकण्ठ उवाच

सखे श्रृणु कथां पुण्यां मधुरामृतवर्षिणीम्‌ ।
वसन्तदेवो विप्रोऽभूत् कश्चिच्छीजाह्नवीतटे ॥३॥
कदाचित्तस्य वासाय श्रीवृन्दाविपिने व्रजे ।
समुत्कण्ठा समुत्पन्ना सहसा मानसेऽनघे ॥४॥
सोऽतीय विस्मितो विप्रः श्रीकृष्णकृतधीः सुधीः ।
विचारमाचरत् कस्मादाविर्भूता रुचिर्मम ॥५॥
व्रजे वृन्दाबने वापि ब्रह्माद्यैरपि दुर्लभे ।
वासे मनोरथोऽयं मे स्वप्नमायेव लक्ष्यते ॥६॥
कोटिजन्मसमुत्थेन पुण्येनापि सुदुर्लभा ।
वृन्दाटवी महापुण्या राधामाधववल्लभा ॥७॥
एवं चिन्तयतस्तस्य व्यतीतं माससप्तकम् ।
द्विगुणा च तदुत्कण्ठा जाता वृन्दावनं प्रति ॥८॥
प्रत्यहं स्वेष्टदेवस्य गोपालस्य पदाब्जयोः ।
प्रार्थयन्नपि न प्राप सान्त्वनां वा सदुत्तरम् ॥९॥
तदा चिन्तापरीतात्मा गङ्गातटमुपागतः ।
बृन्दाटवीनिवासाय किमत्र क्रियतामिति ॥१०॥
गोपाललीला काप्येषा प्रलुब्धं मानसं यया ।
एवं चिन्तयता तेन श्रीमद्भागवतं तदा ॥११॥
पठता दिवसा नीताः गोपालप्रियकाम्यया ।
गङ्गातीरकृतावासान् विरक्तान् साधुसत्तमान् ॥१२
प्रणिपत्यातिदैन्येन पप्रच्छात्ममनोरथम् ।
किं करोमि यतो वृन्दाटवीवासमवाप्नुयाम् ॥१३॥
भवन्तः शरणं सर्वे मज्जतो नौरिवार्णवे ।
उपायं कृपयामोघं प्रबतामोघदर्शनाः ॥१४॥
सर्वेऽपि तमिदं प्रोचुग हे तिष्ठ गृहाश्रमी ।
भज तत्रैव गोपालं पालयस्व गृहाश्रमम् ॥१५॥
वृन्दाटव्यास्तु गेहे त्वं भावनां कुरु सर्वदा ।
तेषां वचनमाकर्ण्य कर्णशूलकरं द्विजः ॥१६॥
पार्श्वतोऽपासरत्तेषां मृगो व्याधभयादिव ।
ततो ययौ कर्णवासं तीर्थ सिद्धनिषेवितम् ॥१७॥
तत्र साधून विरक्ताश्च भक्तान् दृष्ट्वा मुदं ययौ ।
तेषां च परमाराध्यं गुरुं शंकररूपिणम् ॥१८॥
यतिराजमथावोचन्निपत्य पदकंजयोः ।
भगवन्मे परोत्कण्ठा वृन्दारण्यसुखाप्तये ॥१९॥
जाता तत्रैव वासाय प्राणा व्याकुलिता यया ।
तत्ते शरणमायातः कृपयाऽऽज्ञां प्रदेहि मे ॥२०॥
तेनापि सहसा प्रोक्तं तत्र वासोऽतिदुष्करः ।
ये दोषदशिनो धाम्नि वासादपि पतन्ति ते ॥२१॥
परं विप्रप्रतोषाय पद्यमेकं जगौ मुदा ।
शाकपत्रावने तुष्टा ये वृन्दावनवासिनः ॥२२॥
तेषां भाग्यमहो दृष्ट्वा स्पहयन्ति हजादयः ।
श्रुत्वतद् गन्तुकामाय वृन्दारण्यं द्विजाय सः ॥२३॥
एलालवङ्गपूग्यादिप्रसादं प्रददौ स्वयम् ।
त्वरावानथ विप्रोऽसौ निशायामेव प्रस्थितः॥२४॥
याचे श्रीनन्दगोपालं स्वयं वृन्दावनस्थितिम् ।
एवं संकल्प्य वेगेन तमेवानुस्मरन्ययौ ॥२५॥
अथ गङ्गातटाद्विप्रः प्राप्तः श्रीयमुनातटम् ।
तत्र स्नात्वा, च देवर्षीन् पितृन् संतl सत्वरम् ॥२६॥
गमनाय मतिं चक्रे श्रीमद्वृन्दावनं प्रति
व्योमवाणी तदैवासीद् बृहत्सानुमितो व्रज ॥२७॥
भविता कार्यसंसिद्धिः श्रीराधाचरणान्तिके ।
गोपालो नानुकूलस्तेऽधुना विप्रेति चिन्त्यताम् ॥२८॥
श्रुत्वैतद्विस्मितो विप्रो वाण्या अर्थमचिन्तयत् ।
नूनं मां प्रत्युदासीनो गोपालो मम भाग्यतः ॥२९॥
महाकारुणिको वा मे परिहासं करोत्यसौ ।
सदा कौतुकिनस्तस्य कर्तव्यं केन ज्ञायताम् ॥३०॥
व्यतीताः कतिचिन्मासा नाशृणोन्मम प्राथितम् ।
निवेद्यमेतद् गत्वैव वृषभानुसुतान्तिके ॥३१॥
तदाज्ञया तु गोपालो मां दीनं कृपयिष्यति ।
इति संचिन्तयन्दिप्रो वृषभानुपुरं ययौ ॥३२॥

सुकण्ठ उवाच

स्वतन्त्रो ब्रजकार्येषु स्वयं व्रजपनन्दनः।
कथं श्रीराधिकादेवी श्रीकृष्णस्य प्रयोजिका ॥३३॥
तदाज्ञावशतित्वं विप्रवाचोपणितम् ।
कथं तद्धटते मित्र ब्रूहि मे सोपपत्तिकम् ॥३४॥

मधुकण्ठ उवाच

शृणु तेऽहं प्रवक्ष्यामि रहस्यं श्रीब्रजक्षितेः।
राधाकृष्णस्वरूपं च तथा सम्बन्धमेतयोः॥३५॥
व्रजनं व्याप्तिरित्युक्ता व्यापनाद्वज उच्यते ।
गुणातीतं परं ब्रह्म व्यापकं वजरूपधृक् ॥३६॥
यतोऽयं सच्चिदानन्दरूप एव न संशयः।
वनान्युपवनान्यस्मिन् यमुना गिरयस्तथा ॥३७॥
सच्चिदानन्दरूपत्वात् सर्वे श्रीकृष्णविग्रहाः।
गीत घद पुराणऽपि श्रीकृ स्फुटम ॥३८ ॥
पञ्चयोजनविस्तीर्ण बनं मे देहरूपकम् ।
महावृन्दावनं तत्र केलिवृन्दावनानि च ॥३९॥
स कृष्णो राधिकाधीनः सैव सर्वव्रजेश्वरी ।
वृषभानुसुता देवी महाप्रेमस्वरूपिणी ॥४०॥
प्रेमवश्यः सदा कृष्ण इति सर्वत्र वर्णितम् ।
तेन राधाप्रयोज्यत्वान्न स्वतन्त्रो व्रजक्षितौ ॥४१॥
कृष्णप्राणाधिदेवो सा तदधीनो विभुर्यतः।
रासेश्वरी तस्य नित्यं तया होनो न तिष्ठति ॥४२॥
देवीभागवते तत् कथितं व्याससूरिणा ।
राधाधीनाः क्रियाः सर्वाः श्रीकृष्णस्य न केवलाः॥४३॥
राधाधीनः सदा ब्रूते पश्यत्यथ शृणोति च ।
राधाधीनश्च हसति गायत्यपि च नृत्यति ॥४४॥
नादत्तेऽर्पितवस्तूनि राधासंकेतमन्तरा ।
केवलस्य च कृष्णस्य दोषायाराधनं मतम् ॥४५॥
श्रीशंकरवचश्चात्र प्रमाणं साधुसम्मतम् ।
'गौरतेजो विना यस्तु श्यामतेजः समर्चयेत् ॥४६॥
जपेद्वा ध्यायते वापि स भवेत्पातको शिवे ।'
इति तेऽभिहितं पृष्टं शास्त्राणां हृदयं परम् ॥४७॥
अथाने शृणु विप्रस्य व्रजयात्रां मनोरमाम्
व्रजन् भानुपुर मार्गे मनस्येतदचिन्तयत् ॥४८॥
गोपालवल्लभां गत्वा गोपालं ज्ञपयाम्यहम् ।
कथं निरपराधेऽयं मयि ते प्राणवल्लभः ॥४९॥
उदासीनोऽत्र देवि त्वं प्रमाणं स्वामिनी तथा ।
एवं चिन्तयतस्तस्य रुष्टोऽभून्नन्दनन्दनः ॥५०॥
राधार्य ज्ञपयित्वा मां किं मे विप्रः करिष्यति ।
इति मार्गे स विप्रस्य छत्रपात्रे अचूचुरत् ॥५१॥
उभाभ्यां रहितो विप्रः पिपासातपपीडितः।
नन्दग्राम जगामाशु ज्ञात्वा तस्यैव चेष्टितम् ॥५२॥
गोपराजाय पुत्रस्य धाष्टर्यं सर्वं निवेदये।
नन्दान्तिकमथायान्तं दृष्ट्वा विप्रं त्वरण सः॥५३॥
गोपालः पिदधे द्वारं मन्दिरस्य विचक्षणः।
अथोपविष्टो विप्रोऽपि द्वारमाक्रम्य दीनधीः॥५४॥
दृष्ट्वाऽऽग्रहपरं वित्रं श्रान्तं चातिबुभुक्षितम् ।
पायसं प्रेषयामास भुक्त्वायं व्रजतादिति ॥५५॥
गृहीत्वा पायसं विप्रो गोपालस्य पितुर्ग हात् ।
ग्रामतश्चापि निस्सृत्य सरोषं बहिरागतः॥५६॥
चिन्तयामास राधाय निजदैन्याधिबोधिकाम् ।
प्रार्थनापत्रिकामद्य लिखित्वाहं निवेदये ॥५७॥
इति रोषपरीतात्मा पत्रीमेवालिखत्तदा ॥५८॥

सुकण्ठ उवाच

रोषो न युज्यते स्वेष्टदेवे श्रीनन्दनन्दने ।
प्रातिकूल्येऽपि प्रेष्ठस्य प्रेष्ठत्वं न विहन्यते ॥५९॥
तो भी उनका प्रियतमपना नष्ट नहीं होता ॥५९॥
ब्रह्मण्यो भगवान्कृष्णः प्रेष्ठोऽयं प्रेयसामपि ।
लीलया परिहासादि भक्तैः सह करोत्यसौ ॥६०॥

मधुकण्ठ उवाच

रहस्यातिरहस्यं मे स्मारितं मित्र यत्त्वया ।
तदहं तेऽभिधास्यामि श्रीगोष्ठप्रेमप्रक्रियाम् ॥६१॥
रोषोऽयं ब्राह्मणस्यास्ति भाग्यातिशयबोधकः।
रोष प्रमैव कथ्यते ६२
श्रीकृष्णाभिन्नतद्धामश्रीवृन्दावनकारणात् ।
तत्प्रार्थनाविघातेन रोषो विप्रस्य युज्यते ॥६३॥
वृन्दावननिवासस्तु कृष्णसांनिध्यहेतवे ।
अपेक्षितो हि विप्रस्य त्यक्त्वा संसारवासनाम् ॥६४॥
केवलं कृष्णलीलानामपूर्वा रसमाधुरीम् ।
कर्णाञ्जलिपुटैः पीत्वा वाचा तामेव कीर्तयन् ॥६५॥
देहगेहादि विस्मृत्य यमुनाकुञ्जगह्वरे।
विमुञ्चन्नश्रुपुञ्जानि विचरिष्ये मुदा भृतः ॥६६॥
इति संकल्प्य मनसा गोपालं शरणं गतः।
उपेक्षितो यदा तेन प्रणयात्कुपितोऽभवत् ॥६७॥
यदा हि प्रणयाद्रोषः प्रेमोद्दीपनकारकः।
यथा नीलाम्बुदे विद्युद् भवेत्तस्यैव दीपिका ॥६८॥
प्रेमण एवानुभावत्वाद् रोषो हि रतिवर्धनः।
रोषः स्वार्थविधाते यः प्राकृतो रोष उच्यते ॥६९॥
स एव हि महापाप्मा महावैरी विनाशनः ।
श्रीकृष्णार्थविधाते यो रोषो प्राकृतः स्मृतः ॥७०॥
प्रेम्णि कृष्णार्थ एवार्थः स्वस्य नान्यस्ततो बहिः।
तन्नामरूपलीलानां धाम्नोऽथ परिसेवनम् ॥७१॥
कृष्णार्थोऽभिमतो भक्तस्तन्मयत्वादभेदतः ।
शृणु मित्र कथामग्रे लिखित्वा पत्रिका द्विजः ॥७२॥
श्रीराधायै स्वयं दातुं तरसा गन्तुमुद्यतः।
तदेवास्यान्तिके कश्चित् कृष्णस्यागतवान्सखा ॥७३॥
ब्राह्मणोऽकथयत्सर्व वृत्तं स्वस्य तथा हरेः।
श्रुत्वा दयालुविप्राय मन्त्रमेतमुवाच सः॥७४॥
श्रीकृष्णसखा उवाच
गच्छ विष बृहत्सानु श्रीराधाचरणान्तिके।
तन्मन्दिर प्रतोहारी नाम्ना भावनिरीक्षकः ॥७५॥
मत्सखस्तस्य साहाय्यात् प्रवेशस्ते भविष्यति ।
मन्दिरे राधिका देवी सखीभिः परिसेविता ॥७६॥
राजते कोटिचन्द्राभा श्यामा श्रीश्यामवल्लभा।
सखीनामनुमत्या त्वं तस्यै पत्रीं समर्पय ॥७७॥
ततस्त्वं गह्वरं गत्वा सदा गहरवासिनीम् ।
श्रीचन्द्रां श्रीसखों भक्त्या शरण्यां शरणं व्रज ॥७८॥
तस्या दास्यप्रभावेण कार्यसिद्धिर्भविष्यति ।
प्रियाप्रियतमौ तस्या वशगौ क्रीडतः सदा ॥७९॥
आगत्य प्रत्यहं विप्र गह्वरं प्रेमगह्वरम् ।
श्रीचन्द्राकृपया. तुभ्यमनुकूलौ भविष्यतः।
श्रीचन्द्रायाः स्वरूपं तु भयोक्तं त्वं सदा स्मरः ॥८०॥
श्रीचन्द्रा कलौतकान्तिरुचिरा नीलाम्बरैरावृता
नानारत्नविभूषिता विधुमुखी प्रेयःप्रियां राधिकाम् ।
गङ्गां श्रीयुतगोमती निजनदीयूथैर्यथा संगता
संगम्य स्वसखीगणः प्रियतमं कृष्णाब्धिसाप्ता तथा ॥८१॥

मधुकण्ठ उवाच

हरेः सख्युरिदं पथ्यं निशम्य वचनं मुदा।
तं प्रणम्य बृहत्सानुं विप्रः सत्वरमागमत् ॥८२॥
दूरतः श्रीपुरं रम्यं दृष्ट्वा भुवि ननाम ह।
प्रविश्य परमप्रीतो वासार्थमनुचिन्तयन् ॥८३॥
तावद् गोपकुमारेण केननापि सुदयालुना।
प्रेम्णा प्रशितो विप्रो भानुवंशगुरोगृहे ॥८४॥
कृतातिथ्योऽथ गुरवे स्वाभिप्रायं न्यवेदयत् ।
भगवन् केन पुण्येन भवतो गेहमागतः ॥८५॥
पश्यामि दुर्लभं चार्थ हस्तप्राप्तमिवात्मनः।
स्वामेव शरणं यातोऽभीष्टं मेऽद्य प्रपूरय ॥८६॥
यथा भानुसुताराधामन्दिराभ्यन्तरे मम ।
दोनस्यापि प्रवेशः स्यात् तं विधि प्रतिपादय ॥८७॥
श्रुत्वा गुरुरिदं वाक्यमुवाचैनं दयाधीः ।
श्रीराधामन्दिरे विप्र गोपीभावेन गम्यते ॥८८॥
स्वात्मभावविशेषो हि गोपीभावो निगद्यते ।
स्तानात्ते भानुसरसि गोपीभावो भविष्यति ॥८९ ॥
तदा श्रीदामसाहाय्यात् सुखं राधागृहं धज ।
गुरुवाक्यमिदं श्रुत्वा मुमुदे सुभृशं द्विजः ॥९०॥

सुकण्ठ उवाच

अहो भावविशेषस्य गोपीत्वं यत्त्वयोदितम् ।
कृपया सुखबोधाय लक्षणं तस्य वर्णय ॥९१॥

मधुकण्ठ उवाच

सर्वात्मभावतः कृष्णे स्वात्मानं याभिरक्षति ।
गोपायतीति गोपी सा प्रोक्तमुखवसूरिभिः ॥९२॥
सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे।
देहेन्द्रियप्राणधियां गतिर्गोविन्दपादयोः ॥९३॥
सर्वत्रैवात्मनस्तस्य स्फूतिः सर्वात्मभावना ।
नात्र स्त्रीभावगन्धोऽपि गोपीभावे कदाचन ॥९४॥
चिन्तनीयो ह्यनिर्वाच्ये देहासक्तिविजिते ।
वस्तुतः सर्वजीवानां गोपीत्वं स्वस्वरूपता ॥९५॥
पुरीषु शयनादेकः श्रीकृष्णः पुरुषः परः।
अनन्याहस्वरूपाणामात्मायं निखिलात्मनाम् ॥९६॥
स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते ।
स्त्रीप्रायमितरत् सर्व जगद् ब्रह्मपुरस्सरम् ॥९७॥
गीतायामपि जीवानां प्रकृतित्वं निरूपितम् ।
अपरेय मतस्त्वन्यां प्रकृति विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥९८॥
अहं योषित्पुमान्षण्ठ इति भावो भ्रमात्तनौ ।
तावत्तु गोपीभावस्य कथमभ्युदयो भवेत् ॥९९॥
महाभावरवेरेव किरणत्वेन कल्पिताः।
गोप्यः सहस्रशः प्रोक्ता भावानां तारतम्यतः ॥१००॥
गोपीभिरेव लोकेषु कृष्ण भक्तिरनुत्तमा ।
प्रचारिता महाप्रेमलक्षणा याऽऽदृतोद्धवैः ॥१०१॥
आदर किया है ॥१०१
दिष्टया पुत्रान्पतीन् देहान् स्वजनान्भवनानि च ।
हित्वावृणीत यूयं यत् कृष्णाख्यं पुरुष परम् ॥१०२॥
महाभावस्वरूपा तु स्वयं श्रीभानुनन्दिनी ।
महानिर्वाच्यमाहात्म्या ह्लादिनी परमेश्वरी ॥१०३॥
यस्याः स्ववशगः कृष्णो रसात्मा रसवर्धनः।
सदाक्षिभूविलासेन पुत्तलीवाभिनृत्यति ॥१०४॥
सखे गोपीपदाम्भोजरजोभिरमलात्मनाम् ।
आराध्यौ राधिकाकृष्णौ सदामृतरसार्णवौ ॥१०५॥
यदुद्धवादयोऽप्यासां पादरेणोरभीषणशः।
वन्दनादेव कृष्णस्य सामीप्यमभिपेदिरे ॥१०६॥
तत्ते समासतः प्रोक्तं गोपीनां लक्षणं परम् ।
यज्ज्ञात्वा कृतकृत्योऽभूटिनो गुरुप्रसादतः ॥१०७॥


इति: श्रीराधा-सप्तशती श्रीबृहत्सानुपुरप्रवेशो नाम प्रथमोऽध्यायः।

N/A

References : N/A
Last Updated : July 13, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP