श्रीराधा सप्तशती अध्याय-४

श्री. वागीश शास्त्री द्वारा रचित श्री राधा सप्तशती, राधा रानी ची भक्ति, महिमा आणि त्यांच्या लीला-गाण्यांवर आधारित एक गहन आध्यात्मिक पाठ आहे.


सुकण्ठ उवाच

सखे त्वयातिमधुरं श्रीगह्वरकथानकम् ।
धावितं कृपया बूहि किमग्रे कृतवान् द्विजः॥१॥

मधुकण्ठ उवाच

प्रत्यहं राधिकादेव्या मन्दिरप्राङ्गणे द्विजः ।
पठन् भागवतं भवत्या प्रातरेवोपतिष्ठते॥२॥
तत्रानुभूतं विप्रेण श्रीकृपाहेतुकं तु यत् ।
हरिलीलामृतं मित्र कथयामि तवाग्रतः॥३॥
भावनायां तु लीलानां या स्फूतिर्जायते हृदि ।
साक्षात्कारोऽथवा तत्तु कृपाया लक्षणं परम् ॥४॥
विनानुभूति भक्तानां कयं स्यात्प्राणधारणम् ।
परियाकस्तथा वृद्धिर्भक्तरपि न सम्भवेत् ॥५॥
एकदा पठतस्तस्य मुहूर्ताधे गतेऽग्रतः।
मातुरङ्कगतो बालो गोपालो दर्शनं गतः ॥६॥
स चैकहायनो मातुस्तथा गोपस्य शिक्षया ।
प्रणाममेकहस्तेन कृतवान् वित्रसम्मुखे ॥७॥
प्रोवाच भाग्यवान्विषो जाताह्लादो महामनाः।
जयो जयोऽस्तु लाल्यस्य जयो लाल्यस्य सर्वदा ॥८॥
ततश्चान्तहिते तस्मिन् वित्रो विस्मितमानसः।
चिन्तयामास तस्यैकहस्ततः प्रणते. फलम् ॥९॥
एतस्मिन्नन्तरे देव्या राधायाः सेविकागणे ।
परस्परं विवादोऽभूदतिविस्मयकारकः॥१०॥
परं श्रीस्वामिनी तासां विवादेऽपि प्रसीदति ।
सुविस्मितोऽभवद् विप्रः प्रसन्ना स्वामिनी कयम् ॥११॥
चिन्तयित्वाचिरं सर्व सहसाधिजगाम ह ।
लीला गोपालचन्द्रेण मम मोहाय कल्पिता ॥१२॥
अश्रद्धां यत् सखीवर्गे कुर्यात् कलहदर्शनात् ।
न तदा श्रीसभायां मे कृत्यानि कथयिष्यति ॥१३॥
तस्माच्छीलाल्यचन्द्रस्य कौटिल्यात्सर्वदा मया ।
तस्माच्छीलाल्यचन्द्रस्य कौटिल्यात्सर्वदा मया ।
आत्मा सुरक्षणीयो हि तल्लोलातिविमोहिनी ॥१४॥
अयं प्रेमविलासो हि कलहः श्रीसखीगणे ।॥१५॥
मानलीलारसास्वादः कथं स्यात् कलहं दिना ।
तथा सखीगणश्चापि यथा राजा तथा प्रजाः ॥१६॥
सखीनां पादपोषु विचायँवं द्विजोत्तमः ।
पूर्वतोऽप्यधिकां श्रद्धां चकार प्रेमविह्वलः ॥१७॥
अथान्यदिवसे पाठासक्तवित्रस्य पुस्तकम् ।
आरुह्य शिशुगोपालः क्रीडति स्म यथासुखम् ॥१८॥
दृष्ट्या सुकौतुकं तस्य मुहूर्वार्धमभूद् द्विजः।
निश्चेष्टो बालचापल्यामृतास्वादननिर्वृतः ॥१९॥
ततश्चान्तहितो बालो गोपालोऽथ पुनः क्षणात् ।
पौगण्डवयसा युक्तो क्यस्यैर्बालकर्युतः ॥२०॥
संकीर्णवीथ्या अग्ने हि गिरिप्रान्ते अदृश्यत ।
परिश्रान्तस्य यो भातुर्बलभद्रस्य यत्नतः ॥२१॥
शय्यां किसलयः कुर्वन् सखीन् किमपि भाषते ।
दृष्ट्वा द्विजं शनैः कश्चित् सखा तेन सुशिक्षितः ॥२२॥
आगत्य सविधे विप्रमिदं वचनमब्रवीत् ।
अहो विप्र न ते कार्य श्रियो मन्दिरतो भवेत ॥२३॥
वृथा श्रमस्तवास्त्यत्र बलभद्रमितो वज ।
श्रीभागवतसप्ताहं पठ तुष्टो भविष्यति ॥२४॥
ज्येष्ठः श्रेष्ठो दयालुश्च प्रजापाल इतीरितः।
कृपया तस्य सुलभं वित्र वृन्दावनं तव ॥२५॥
इति सख्युर्वचः श्रुत्वा किंकर्तव्यविमोहितः।
रुरोद सुभृशं विप्रः पश्यञ्छून्यमिदं जगत् ॥२६॥
ततोऽतिदुःखितं वित्रं दयालुरपरः सखा ।
बोधयित्वाब्रवीद्वाक्यं वृथा कि खिद्यासे द्विज ॥२७॥
बञ्चनयं कृता विप्र तव कृष्णेन कौतुकात् ।
बलभद्रः सदा कृष्णप्रेमासवमदाग्वितः ॥२८॥
स्वात्मानमपि नो बेद कृष्णाधीनश्च सर्वदा ।
यशोदा रोहिणी श्रीमान् व्रजेन्द्रो व्रजवासिनः ॥२९॥
सर्वेऽपि शुटणवशगाः काष्ठपुतलिकोपमाः।
कृष्णवात्सल्यसूत्रान्तःसंनद्धाः संचरन्ति ते ॥३०॥
एकव राधिका देवी श्रीकृष्णवशकारिणी ।
स्वाधीनपतिका प्रोदत्तासावेव शरणं तव ॥३१॥
तस्या बलाश्रयाविप्रो मां चापि वशमानयेत् ।
तस्मात्ते वञ्चनानेन कृ खिद्यस्व मा द्विज ॥३२॥
मान्यत्र व्रज ते राधामन्दिरादेव सर्वथा ।
सखीगणप्रसादेन प्रसादाप्तिर्भविष्यति ॥३३॥
इत्युक्त्वान्तहिते तस्मिन् बलभद्रसुहृत् परः।
प्रीत्या दत्त्वा पयःपिण्डे समाश्वासितवान् द्विजम् ॥३४॥
भाग्यन भूयसा देवीं श्रियं शरणमागतः ।
पठ भागवतं भक्त्या इयं सर्वव्रजाधिपा ॥३५॥
रामकृष्णावयः सर्वे क्यमस्याः सभागताः।
जया शिषा वर्धयन्तस्तिष्ठामो बद्धपाणयः ॥३६॥
श्रीराधाराधनादेव कृष्णोऽप्येष प्रसीदति ।
प्रोक्ता बृहद्गौतमीये तस्याः कृष्णस्वरूपता ॥३७॥
'बेबी कृष्णमयी प्रोक्ता राधिका परदेवता।
सर्वलक्ष्मीमयो सर्वकान्तिः सम्मोहिनी परा'॥३८॥
इत्युक्त्वान्तहिते सख्यौ श्रीप्रसादमहोत्सवे ।
प्रसादं बुभुजे प्रेरणा सखीनामाज्ञया द्विजः ॥३९॥
अपृच्छदेकदा विप्रो भो सस्यो युष्मदीश्वरी ।
प्रिया श्रीराधिका देवी प्रेष्ठगेहं न गच्छति ॥४०॥
सर्वदेव निवासोऽस्था बृहत्सानपुरे कथम् ।
श्रुत्वोचुस्तास्ततो विप्रं लाल्या श्रीवार्षभानवी ॥४१॥
लालनप्रियताहेतोः पितृगेहं न मुञ्चति ।
लाल्या सर्वत्रजस्येयं प्राणपोष्यातिवल्लभा ॥४२॥
लालनं भानुनगरादन्यत्र नहि तादृशम् ।
प्रेष्ठस्तु सर्वदा वश्यो भुजाङ्गदमिव स्थितः ॥४३॥
न कदापि परित्यज्य क्षणमन्यत्र तिष्ठति ।
तृतीयायां शुक्लपक्षे श्रावणस्य महोत्सवे ॥४४॥
सखीरूपयरो नये सखीनां सेवते श्रियम् ।
स्वयमारात्तिकं देव्याः कुरते स सखीगणैः ॥४५॥
एक देव सा देव्या उत्सषु विशेषतः।
लायनानां श्रियं दृष्ट्वा कृतार्थत्त्वं भविष्यसि ॥४६॥
शुत्वातिनधुरं चित्रः श्रीलाल्यालालनं मुदा ।
सखीनुवाच शनकवि देव्याः कदाप्यहम् ॥४७॥
थियो लघुतरां सेवां कर्तुनहामि कामपि ।
ओमिति प्राह मुदिता भावं दृष्ट्वा द्विजस्य ता॥४८॥
दोलोत्सवससारम्भे श्रीप्रिया मेन्धिका शुभान् ।
धारयिष्यति तां सेवां विप्र कर्तुं त्वमर्हसि ॥४९॥
स्वहस्तेनेति पृष्टा सा सरोषमवदद्वचः।
अहो कि श्रीकरस्पर्शसाहसं कर्तुमिच्छति ॥५०॥
स्वयं श्रीललिता देवी प्रियायाः पाणिरजनम् ।
करोति निशि तस्यास्त्वं धृष्ट सौभाग्यमिच्छति ॥५१॥
अपराधिनमात्मानं मत्वावनतमस्तकः ।
सखी प्रसादयन् विप्रो वाक्यमेतदुवाच ह॥५२॥
दास्यामि भवतीहस्ते प्रियाय मेन्धिका शुभाम् ।
भवत्या कृपया देव्यै ललितायै प्रदीयताम् ॥५३॥
प्रियाया दूरतो दृष्ट्वा रक्तिमानं कराब्जयोः।
मोदिष्यतितरां देवि क्षमस्वावमजानतः ॥५४॥
ततोऽतिप्रणयाद् विप्रः सख्याः श्रीपादसंनिधौ ।
निवेदयामास मुदा नत्वा · · ॥५५॥
अर्थकदा भमन् विप्रो दानलीलास्थली गतः।
ददर्श कर्यरान् भूमौ चिन्तयामास मानसे ॥५६॥
अहो गोपालचन्द्रेण पीत्वा गोरसमुज्झिताः ।
कर्परा भग्नपात्राणानिने नास्त्यत्र संशयः ॥५७॥
लोढा हि जिह्वया तस्य क्लिन्ना लालारत्तामृतैः।
ततोऽतिहर्षतश्चकं कपरं मूनि संदधे ॥५८॥
गहीत्वा कपरं प्रीत्या द्विजः श्रीमन्दिरं गतः।
प्रविशन्नेष गोपालं ददर्शोत्तङ्गलालितम् ॥५९॥
हसन्तं प्रणमन्तं च मातणामनुशिक्षया ।
हसन्तं प्रणमन्तं च मातृणामनुशिक्षया ।
अभ्यनन्दत्तमाशोभिर्मधुरं लाल्यसुन्दरम् ॥६०॥
जयो जयोऽस्तु लाल्यस्य जयो लाल्यस्य सर्वदा ।
आरात्तिकावलोकाय गतः श्रीपादसंनिधौ ॥६१॥
तत्र श्रीललितादेवी स्वयं सेवापरायणा ।
महाप्रसादं श्रीदेव्याः पुष्पमालां सखीकरात् ॥६२॥
प्रेवयालास - वित्राय कृपया दीनवत्सला ।
कळे निधाय तां मालां विप्रो हष्टतनूरुहः ॥६३॥
अपूर्वा माधुरी कांचिवन्वभूदधुलोचनः ।
प्रणम्य पूर्ववत्प्रीत्या पठन् भागवतं द्विजः ॥६४॥
बिले शचिन्तयत्कृष्णो लेढि किं कर्परानपि ।
गोरसाम्भोनिधी जातो वजे व्रजपनन्दनः ॥६५॥
यशोदाप्राणपोष्यश्च न लिह्यात् करानसौ ।
एवं ध्यायत उत्सङ्ग तस्य गोपाल आगतः ॥६६॥
तदङ्गसङ्गसर्वस्वानन्दताररसं रिबन् ।
निश्चेष्टोऽभूदसौ वित्रो नुहर्धिननन्यधीः ॥६७॥
तत उत्सङ्ग एवास्य गोपालमुखतोऽपतत् ।
कर्परो लिह्यमानो हि लालामतरसाप्लुत ॥६८॥
शिरस्याधाय तं प्रेम्णा द्राक्षाफलसमाकृति ।
प्रमुमोदोत्तरं मत्वा लेढयसौ कर्परानिति ॥६९॥
अथ चान्तहिते तस्मिन् गोपाले लाल्यसुन्दरे ।
श्रीनन्दिराद्ययौ चित्रः श्रीप्रसादकृताशनः ॥७०॥
एकदा विवरन्वित्रो रुदन्तं नन्दनन्दनम् ।
श्रीगह्वरवने दृष्ट्वा करुणाकान्तमानसः ॥७१॥
प्रसादयितुमारब्धः किमर्थं लाल्य रोदिषि ।
मभापराधः कोऽप्यस्ति रुष्टस्तेनैव रोदिषि ॥७२॥
प्रतीकारं करोम्यस्य स्फुटं किं नैव भाषसे ।
केन तेऽपकृतं वत्सोत्सङ्गमागत्य तद ॥७३॥
एवं द्विजववः श्रुत्वा क्रन्दन्तं पूर्वतोऽधिकम् ।
दृष्ट्वा कपटभेवात्र ज्ञात्वा च तमथाब्रवीत् ॥७४॥
अहो चपल कापट्यादेव ते रोदनं मतम् ।
श्रीचन्द्रा तब जानाति मायां मोहन मोहिनीम् ॥७५॥
गत्त्वा ब्रवीमि तामेव त्वमुच्चैः कुरु रोदनम् ।
श्रुत्वा विप्रवचोऽङ्गुष्ठं दूरादेव प्रदर्शयन् ॥७६॥
विकुर्वन्नाननं तिर्यक् प्रेक्षते स्म हसन्मुहुः ।
तस्य तच्चापलं वीक्ष्य रुचिरं भाग्यवान् द्विजः ॥७७॥
महानन्दाम्बुधौ मग्नो गोपालोऽन्तहितस्तदा ।
अर्थकदा वजन्मार्गे यशोदोत्सङ्ग लालितम् ॥७८॥
दृष्ट्वा लाल्पवरं विप्रो मनस्येतबचिन्तयत् ।
स्वाङ्क आदाय गोपालं व्रजामि श्रीनिवेशनम् ॥७९॥
एवं चिन्तयतस्तस्य स्वयमेवाडूमागतः।
तमालिङ्गय वहन् विप्रो विश्वाधारमविस्मितः ॥८०॥
अश्रमः प्राङ्गणं प्राप्तस्तदङ्गस्पर्शनिर्वृतः।
प्राङ्गणादेव गोपालस्तस्योत्सङ्गाद् व्यलीयत ॥८१॥
परं श्रियो दक्षिणेऽयं मधुरो मुरलीधरः।
किशोरवयसा युक्तः कोटिकंदर्पमोहनः ॥८२॥
दामिनीद्युतिसंसक्तनवाम्बुदमनोहरः।
अदृश्यत रसाम्भोधिः प्रियाप्रेमेन्दुधितः॥८३॥
ततो नीराजनं चक्रुः सख्यः प्रेमपरिप्लुताः।
स्वयं श्रीः प्रेयसो मालां प्रेषयामास संज्ञया ॥८४॥
सखीद्वारेण वित्राय दैन्यान्मालाप्रलिप्सवे ।
प्रसादं भूरिभाग्याय वृन्दावनकृतात्मने ॥८५॥
शिरस्याधाय विप्रोऽपि सफलं निजजीवनम् ।
मेने श्रीराधिकादेव्या अहैतुक्यानुकम्पया ॥८६॥
अथ मध्याह्नवेलायां श्रीप्रसादमहोत्सवे ।
पायसापूपभोगेन परितृप्तो मुदं ययौ ॥८७॥
परमप्राप्य संकेतं प्रेयसीप्रेयसोद्विजः।भृशम ॥८८॥
प्रणम्य द्वार प्रेम्णा श्रीमद्भावनिरीक्षकम् ।
अपच्छदतिदुःखेन का व्यवस्था थियोगृहे ॥८९॥
सर्वर्युपचयोपते निराशो याति ब्राह्मणः ।
वृन्दाटवीनिवासाय कृतायासोऽतिदूरतः॥९०॥
समायातोऽतिपुण्यन प्रविष्टोऽपि गृहोत्तमे ।
प्रियाप्रियतमावतौ कथं मौनपरायणौ ॥९१॥
स्वतन्त्रौ सर्वथा वीर राज्ञीराजौ श्रुतौ मया ।
दृन्दाटवी महापुण्या राजधानी मतानयोः ॥९२॥
तत्र वासाय कृतधीः समायातोऽस्मि साम्प्रतम् ।
अस्वीकृति स्वीकृति वा भाषेते कृपया न किम् ॥९३॥
भो द्वारय गृहस्यास्य भेदज्ञो हि भवान्खलु ।
ब्रूहि सर्व कृपां कृत्वा यतितव्यं तथा मया ॥९४॥

श्रीभावनिरीक्षक उवाच

अहो वित्र त्वया प्राप्तं भूरिभाग्येन दर्शनम् ।
प्रेयसीप्रेयसोरत्र विषीदसि पुनः कथम् ॥९५॥
संकेतननयोवृन्दावनवासाय दुर्लभम् ।
ब्रह्मोन्द्रादिभिरभ्यर्थ्य वराकस्त्वं किनिच्छसि ॥९६॥
कृष्णो हि भाववशगो वृन्दारण्यं तदात्मकम् ।
भावादेव भवेत्प्राप्तिर्भावस्त्वासक्तितो भवेत् ॥९७॥
उक्तमेतत्पुरावित्विापि किमु मुह्यसि ।
आदौ श्रद्धा ततः साधुसङ्गोऽय भजनक्रिया ॥९८॥
ततोऽनर्थनिवृत्तिः स्यात्ततो निष्ठा रुचिस्तथा ।
अथासक्तिस्ततो भावस्ततः प्रेमाभ्युदञ्चति ॥९९॥
प्रियाप्रियतमावतावेकात्मानौ सदा मतौ। प्रिया प्रोक्ता॥१००॥
तबोल्लङ्गानुपागत्य यदि कृष्णो न भाषते ।
कयं प्रियापि भाषेत कारणं नात्र चिन्तय ॥१०१॥
तवासक्तिविवृद्धयर्थमनयोमौ नसाधनम् ।
पर सक्लिविनिर्धता प्रकृतिः क्षीयते यदा ॥१०२॥
तदा प्राकृत भावे समुद्भूते स्वयं भवेत् ।
वृन्दावीनिवासस्ते वित्र नास्त्यत्र संशयः ॥१०३॥
गोबर्धनो गिरिवृन्दावनं श्रीयमुना तथा ।
तत्र सर्वे विहाराद्या गावो गोपाश्च गोपिकाः ॥१०४॥
अप्राकृता मतास्तेषां भावादनुभवो भवेत् ।
रहस्यं कृष्णचन्द्रस्य प्रकृतेः परमुच्यते ॥१०५॥
अथ स्कन्दपुराणस्य मतमेतदनुस्मर ।
तदा स्वरूपज्ञानं ते वजऽभूमभविष्यति ॥१०६॥
प्रकृत्या खेलतस्तस्य लीलान्यैरनुभूयते ।

यत्र र गुण ॥१०७॥

लीलेव द्विविधा तस्य वास्तवी व्यावहारिकी ।
वास्तवी तत्स्वतंवेद्या जीवानां व्यावहारिकी ॥१०८॥
आद्यां बिना द्वितीया न द्वितीया नाद्यगा क्वचित् ।
लोकस्य गोचरेयं तु तल्लीला व्यावहारिकी ॥१०९॥
यत्र भूरादयो लोका भुवि माथुरमण्डलम् ।
अत्रैव ब्रजभूरेषा यत्र तत्त्वं सुगोपितम् ॥११०॥
भासते भावपूर्णानां कदाचिदपि सर्वतः ।
कदाचिद् द्वापरस्यान्ते रहोलीलाधिकारिणः ॥१११॥
समवेता यंदात्र स्युर्यथेदानीं तदा हरिः।
स्वैः सहावतरेत्स्वेषु समावेशार्थमोप्सिताः ॥११२॥
तदा देवादयोऽप्यन्येऽवतरन्ति समन्ततः।
सर्वेषां वाञ्छितं कृत्वा हरिरन्तहितोऽभवत् ॥११३॥
तेनात्र त्रिविधा लोकाः स्थिताः पूर्व न संशयः।
नित्यास्तल्लिप्सवश्चैव देवाद्याश्चेति भेदतः॥११४॥
देवाद्यास्तेषु कृष्णेन द्वारकां प्रापिताः पुरा ।
पुनमौं सलमार्गेण स्वाधिकारेषु योजिताः ॥११५॥
तल्लिप्सूश्च सदा कृष्णः प्रेमानन्दैकरूपिणः ।
विधाय स्वीयनित्येषु समावेशितवांस्तवा ॥११६॥
नित्याः सर्वेऽप्ययोग्यानां दर्शनाभावतां गताः ।
व्यावहारिकलीलास्थास्तत्र यत्राधिकारिणः ॥११७॥
पश्यन्त्यत्रागतास्ते वै प्राकृतत्वं समन्ततः ।
तस्माच्चिन्ता न ते कार्या वृन्दावननिवेशने ॥११८॥
उत्पन्ना रुचिरासक्तिर्भावश्च क्रमतो भवेत् ।
तवा वृन्दाटवी वित्र त्वामः धारयिष्यति ॥११९॥
त्वं तु वृन्दावनं गत्वा भक्त्या भागवतं पठ
तेनैव भावप्राप्तिः स्याद् वृन्दावनफलप्रदा ॥१२०॥
इत्याकर्ण्य मुदाऽऽविष्टस्तं प्रणम्य त्वरान्वितः।
वृन्दावनप्रयाणाज्ञां लब्धं श्रीमन्दिरं ययौ ॥१२१॥
अनुज्ञाप्य श्रियं देवीं सप्रेष्ठां ससखीगणाम् ।
प्रतस्थे प्ररुदन् कृच्छात्प्रणम्य च मुहुर्मुहुः ॥१२२॥
प्रतिज्ञाप्य विसृष्टस्तैः पुनरागमनं ततः ।
निर्जगाम बृहत्सानोः कृच्छाद्विरहविह्वलः ॥१२३॥

इति श्रीराधा सप्तशती श्रीराधामन्दिरमहाप्रसादो नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : July 13, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP