श्रीराधा सप्तशती अध्याय-२

श्री. वागीश शास्त्री द्वारा रचित श्री राधा सप्तशती, राधा रानी ची भक्ति, महिमा आणि त्यांच्या लीला-गाण्यांवर आधारित एक गहन आध्यात्मिक पाठ आहे.


मधुकण्ठ उवाच

शृणु कथामग्रे श्रीराधामन्दिरे यथा ।
कृतवान् विप्रो वर्णयामि यथाक्रमम् ॥१॥
गुरुणा साकं स्नातो भानुसरोवरे ।
पूर्वभावेन भावितात्माभवत् क्षणात् ॥२॥
राधिकादेव्यां तत्प्रिये तत्सखीजने ।
(ऽऽविरभूच्चित्ते विचित्रानन्ददायिनी ॥३॥
कृतार्थश्चागतो विप्रो गुरुणा सह तद्गृहम् ।
गुरुस्तदा समाहूय श्रीदामानं वचोऽब्रवीत् ॥४॥
वत्सैनमादराद् विप्रं राधागेहे प्रवेशय ।
सख्योऽथ द्वारपास्तत्र युक्त्या बोध्यास्त्वयैव हि ॥५॥
येन सर्वेऽनुकम्पातः स्थापयेयुरिमं गृहे।
ततस्तं राधिकादेव्याः श्रीदामाऽऽनीतवान् गृहम् ॥६॥
श्रीगुरोरेष सम्बन्धी प्रबोध्यवं सखीगणान् ।
द्वारपांश्च प्रवेशाय स्वयं स्वालयमागमत् ॥७॥
ततस्तत्कृपया शीघ्रं प्रविष्टो भाग्यवान् द्विजः।
ददर्श प्राङ्गणादेव हर्म्य गोपालवल्लभाम् ॥८
कोटिचन्द्रप्रतीकाशां मणिसिंहासने स्थिताम् ।
प्रणम्य दण्डवद् भूमौ तत्रैवोपविवेश ह ॥९ ॥
सखीगणमथामन्त्र्य पत्रीमादाय वाचने ।
प्रवृत्त सव विस्मयात ॥१०॥
आदरेण समालिङ्गय स्थितं स्वप्राणवल्लभाम् ।
चकम्पे च द्विजः पत्रीमत्याने वाचये कथम् ॥११॥
यदस्यामस्य सर्वापि कृतिर्विलिखिता मया।
श्रुत्वा रोषपरीतात्मा दण्डमेव करिष्यति ॥१२॥
प्रियासभागतं स्वीयमवमानं सहेत किम् ।
कदाचिदस्य वा देवी प्रियापि कुपिता भवेत् ॥१३॥
ततो भयार्त्तमालक्ष्य प्रोचुर्विप्रं सखीगणाः।
मा भैषीर्विप्र गोपालं दृष्ट्वास्मत्समुपस्थितौ ॥१४॥
स्वामिनीवशगः कृष्णः सा चास्मद्वशर्तिनी।
प्राणप्रिया सदास्माकं समाराध्या तथा सखी ॥१५॥
अस्मद्दर्शितमार्गेण स्वाभिप्रायं निवेदय ।
सारल्यादथ भीत्या च कार्यहानिर्भविष्यति ॥१६॥
वामतात्र प्रिया विप्र श्रीश्यामाश्यामचन्द्रयोः।
रसरीतिं त्वमनयोरज्ञात्वैव विमुह्यसि ॥१७॥
पत्रिकां पठ हर्षेण प्रियाप्रियतमावुभौ ।
वशगौ सर्वदास्माकं न ते कोपं करिष्यतः॥१८॥
अथापि कम्पमानं तं सख्यो दृष्ट्वानुकम्पया।
ऊचुर्मा विप्र कम्पिष्ठाः गोपालस्त्वेष गच्छति ॥१९॥
गोपालवञ्चने दक्षा उच्चैर्गोपालमब्रुवन् ।
गाः सम्भालय गोपाल गतास्ता गह्वरे वने ॥२०॥
सखीनामाशु वचनं स्वामिन्याप्यनुमोदितम् ।
अनिच्छन्नपि गोपालः सखीचातुर्यतोऽगमत् ॥२१॥
प्रियालिङ्गितकक्षात्तु गच्छतः स्वेदबिन्दवः ।
पतिता इति संलक्ष्य विप्रः प्रेमदयान्वितः ॥२२॥
वीजनायाब्रवीदस्य सखीं व्यजनवाहिनीम् ।
भ्रूभङ्गन्या साब्रवीदेतत्करोमि व्यजनं श्रियै ॥२३॥
तेनैव प्रेयसः स्वेदशान्तिराशु भविष्यति ।
व्यजनार्थ तन्निरोधः किमर्थ क्रियते त्वया ॥२४॥
उभयोरपृथरिसद्धस्वरूपत्वमदेहि ओः।
राधा कृष्णस्वरूपां वै कृष्णं राधास्वरूपिणम् ॥२५॥
आत्मा तु राधिका तस्य तयैव रमणादसौ ।
आत्माराम इति प्रोक्तो रसरीतिविचक्षणै: ॥२६॥
रहस्यं त्विदमेतस्य प्रकृतेः परमुच्यते ।
इत्याकर्ण्य सखीवाक्यं द्विजस्तत्याज पत्रिकाम् ॥२७॥
श्रीकृष्णस्य गुणानेव श्रीराधासंनिधौ मुदा ।
शुकोक्तानपठत्प्रेम्णा तस्याः संतोषहेतवे ॥२८॥
सखीनां मध्यतस्त्वेका प्रीत्या तं द्विजमब्रवीत् ।
किमर्थमागतोऽसि त्वं कथमश्रूणि मुञ्चसि ॥२९॥
प्रियायाः परमोदारे राधायाः श्रीगृहाजिरे।
उवाच विप्रस्तां नत्वा देवि वृन्दावने मम ॥३०॥
देवैः सुदुर्लभा जाता कामना वासहेतवे।
सा कथं सफला मेऽस्तु तेन दोनोस्मि साम्प्रतम् ॥३१॥
प्रोवाच सा सखी विप्र सफलां विद्धि कामनाम् ।
राधागृहाजिरे यत् ते न्यपतन्नश्रुबिन्दवः ॥३२॥
महादयामयी राधा न सा भक्तानुपेक्षते ।
इति श्रुत्वा सखीवाक्यमाशीर्वादात्मकं द्विजः ॥३३॥
जग्राह शिरसाऽऽत्मानं मत्वा तदनुकम्पितम् ।
विरेमे पाठतश्चापि भावावेशं गतो द्विजः॥३४॥
सभाबिसृष्टौ मध्याह्न श्रीप्रसादमहोत्सवे।
गोष्ठ्यामादरतो विप्रो भोजितः श्रीसखीगणैः ॥३५॥
ता आमन्त्र्य ततो भक्त्या प्रणम्य च पुनः पुनः।
वनं गह्वरमायातः श्रीचन्द्राचरणान्तिके ॥३६॥
के चरणों के निकट चले आये ॥३६॥
इति श्रीराधा सप्तशती द्वितीयोऽध्यायः॥

N/A

References : N/A
Last Updated : July 13, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP