संस्कृत सूची|संस्कृत स्तोत्र साहित्य|त्रिशती नामावलिः| ॐ सौं शरवणभवः शरच्चन्द्रा... त्रिशती नामावलिः गिरीशं मरकतशृङ्गवासिनं म... नमः शिवाभ्यां सरसोत्सवाभ्... ॐ अस्य श्रीकुमारत्रिशतीमह... श्रीगणेशाय नमः । पूर्वपीठ... प्रचण्डचण्डीत्रिशती अस्य श्रीबालात्रिपुरसुन्द... विहायाद्रिनाथं विभुष्टान्... ध्यानम् - ब्रह्माण्डव्याप... अगस्त्य उवाच -- हयग्रीव द... श्रीमती शर्मदिश्यान्मे गो... सूर्य उवाच --- एकार्णमन्त... ॐ गणेश्वराय नमः । गणक्रीड... श्रीदेव्युवाच - त्रिशतीं ... ॐ सौं शरवणभवः शरच्चन्द्रा... हरिः ॐ । ॐ स्वर्णमहालक्ष्... श्रीसुब्रह्मण्यत्रिशतीस्तोत्रम् - ॐ सौं शरवणभवः शरच्चन्द्रा... त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो. Tags : 300त्रिशतीनामावलिः श्रीसुब्रह्मण्यत्रिशतीस्तोत्रम् Translation - भाषांतर ॐ सौं शरवणभवः शरच्चन्द्रायुतप्रभः ।शशाङ्कशेखरसुतः शचीमाङ्गल्यरक्षकः ॥१शतायुष्यप्रदाता च शतकोटिरविप्रभः ।शचीवल्लभसुप्रीतः शचीनायकपूजितः ॥२शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दितः ।शचीशार्तिहरश्चैव शंभुः शंभूपदेशकः ॥३शङ्करः शङ्करप्रीतः शंयाककुसुमप्रियः ।शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दितः ॥४शचीनाथसुताप्राणनायकः शक्तिपाणिमान् ।शङ्खपाणिप्रियः शङ्खोपमषड्गलसुप्रभः ॥५शङ्खघोषप्रियः शङ्खचक्रशूलादिकायुधः ।शङ्खधाराभिषेकादिप्रियः शङ्करवल्लभः ॥६शब्दब्रह्ममयश्चैव शब्दमूलान्तरात्मकः ।शब्दप्रियः शब्दरूपः शब्दानन्दः शचीस्तुतः ॥७शतकोटिप्रविस्तारयोजनायतमन्दिरः ।शतकोटिरविप्रख्यरत्नसिंहासनान्वितः ॥८शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभूः ।शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकः ॥९शतकोटीन्द्रदिक्पालहस्तचामरसेवितः ।शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकः ॥१०शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेवितः ।शङ्खपद्मनिधीनां च कोटिभिः परिसेवितः ॥११शशाङ्कादित्यकोटीभिः सव्यदक्षिणसेवितः ।शङ्खपालाद्यष्टनागकोटीभिः परिसेवितः ॥१२शशाङ्कारपतङ्गादिग्रहनक्षत्रसेवितः ।शशिभास्करभौमादिग्रहदोषार्तिभञ्जनः ॥१३शतपत्रद्वयकरः शतपत्रार्चनप्रियः ।शतपत्रसमासीनः शतपत्रासनस्तुतः ॥१४शारीरब्रह्ममूलादिषडाधारनिवासकः ।शतपत्रसमुत्पन्नब्रह्मगर्वनिभेदनः॥१५शशाङ्कार्धजटाजूटः शरणागतवत्सलः ।रकाररूपो रमणो राजीवाक्षो रहोगतः ॥१६रतीशकोटिसौन्दर्यो रविकोट्युदयप्रभः ।रागस्वरूपो रागघ्नो रक्ताब्जप्रिय एव च ॥१७राजराजेश्वरीपुत्रो राजेन्द्रविभवप्रदः ।रत्नप्रभाकिरीटाग्रो रविचन्द्राग्निलोचनः ॥१८रत्नाङ्गदमहाबाहू रत्नताटङ्कभूषणः ।रत्नकेयूरभूषाढ्यो रत्नहारविराजितः ॥१९रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभितः ।रवसंयुक्तरत्नाभनूपुराङ्घ्रिसरोरुहः ॥२०रत्नकङ्कणचूल्यादिसर्वाभरणभूषितः ।रत्नसिंहासनासीनो रत्नशोभितमन्दिरः ॥२१राकेन्दुमुखषट्कश्च रमावाण्यादिपूजितः ।राक्षसामरगन्धर्वकोटिकोट्यभिवन्दितः ॥२२रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकः ।राक्षसानीकसंहारकोपाविष्टायुधान्वितः ॥२३राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधः ।रवयुक्तधनुर्हस्तो रत्नकुक्कुटधारणः ॥२४रणरङ्गजयो रामास्तोत्रश्रवणकौतुकः ।रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दितः ॥२५रक्तपीतांबरधरो रक्तगन्धानुलेपनः ।रक्तद्वादशपद्माक्षो रक्तमाल्यविभूषितः ॥२६रविप्रियो रावणेशस्तोत्रसाममनोधरः ।राज्यप्रदो रन्ध्रगुह्यो रतिवल्लभसुप्रियः ॥२७रणानुबन्धनिर्मुक्तो राक्षसानीकनाशकः ।राजीवसंभवद्वेषी राजीवासनपूजितः ॥२८रमणीयमहाचित्रमयूरारूढसुन्दरः ।रमानाथस्तुतो रामो रकाराकर्षणक्रियः ॥२९वकाररूपो वरदो वज्रशक्त्यभयान्वितः ।वामदेवादिसम्पूज्यो वज्रपाणिमनोहरः ॥३०वाणीस्तुतो वासवेशो वल्लीकल्याणसुन्दरः ।वल्लीवदनपद्मार्को वल्लीनेत्रोत्पलोडुपः ॥३१वल्लीद्विनयनानन्दो वल्लीचित्ततटामृतम् ।वल्लीकल्पलतावृक्षो वल्लीप्रियमनोहरः ॥३२वल्लीकुमुदहास्येन्दुः वल्लीभाषितसुप्रियः ।वल्लीमनोहृत्सौन्दर्यो वल्लीविद्युल्लताघनः ॥३३वल्लीमङ्गलवेषाढ्यो वल्लीमुखवशङ्करः ।वल्लीकुचगिरिद्वन्द्वकुंकुमाङ्कितवक्षकः ॥३४वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः ।वक्रतुण्डानुजो वत्सो वत्सलो वत्सरक्षकः ॥३५वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः ।वारणाननदैत्यघ्नो वातापिघ्नोपदेशकः ॥३६वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः ।वर्णस्थो वारणारूढो वज्रशक्त्यायुधप्रियः ॥३७वामाङ्गो वामनयनो वचद्भूर्व्मनप्रियः ।वरवेषधरो वामो वाचस्पतिसमर्चितः ॥३८वसिष्ठादिमुनिश्रेष्ठवन्दितो वन्दनप्रियः ।वकारनृपदेवस्त्रीचोरभूतारिमोहनः ॥३९णकाररूपो नादान्तो नारदादिमुनिस्तुतः ।णकारपीठमध्यस्थो नगभेदी नगेश्वरः ॥४०णकारनादसन्तुष्टो नागाशनरथस्थितः ।णकारजपसुप्रीतो नानावेषो नगप्रियः॥४१णकारबिन्दुनिलयो नवग्रहसुरूपकः ।णकारपठनानन्दो नन्दिकेश्वरवन्दितः ॥४२णकारघण्टानिनदो नारायणमनोहरः ।णकारनादश्रवणो नलिनोद्भवशिक्षकः ॥४३णकारपङ्कजादित्यो नववीराधिनायकः ।णकारपुष्पभ्रमरो नवरत्नविभूषणः ॥४४णकारानर्घशयनो नवशक्तिसमावृतः ।णकारवृक्षकुसुमो नाट्यसङ्गीतसुप्रियः ॥४५णकारबिन्दुनादज्ञो नयज्ञो नयनोद्भवः ।णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणिः ॥४६णकारपेटकमणिर्नागपर्वतमन्दिरः ।णकारकरुणानन्दो नादात्मा नागभूषणः ॥४७णकारकिङ्किणीभूषो नयनादृश्यदर्शनः ।णकारवृषभावासो नामपारायणप्रियः ॥४८णकारकमलारूढो नामानन्तसमन्वितः ।णकारतुरगारूढो नवरत्नादिदायकः ॥४९णकारमकुटज्वालामणिर्नवनिधिप्रदः ।णकारमूलमन्त्रार्थो नवसिद्धादिपूजितः॥५०णकारमूलनादान्तो णकारस्तम्भनक्रियः ।भकाररूपो भक्तार्थो भवो भर्गो भयापहः ॥५१भक्तप्रियो भक्तवन्द्यो भगवान्भक्तवत्सलः ।भक्तार्तिभञ्जनो भद्रो भक्तसौभाग्यदायकः ॥५२भक्तमङ्गलदाता च भक्तकल्याणदर्शनः ।भक्तदर्शनसन्तुष्टो भक्तसङ्घसुपूजितः ॥५३भक्तस्तोत्रप्रियानन्दो भक्ताभीष्टप्रदायकः ।भक्तसम्पूर्णफलदो भक्तसाम्राज्यभोगदः॥ ५४भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः ।भवौषधिर्भवघ्नश्च भवारण्यदवानलः ॥५५भवान्धकारमार्ताण्डो भववैद्यो भवायुधम् ।भवशैलमहावज्रो भवसागरनाविकः ॥५६भवमॄत्युभयध्वंसी भावनातीतविग्रहः ।भवभूतपिशाचघ्नो भास्वरो भारतीप्रियः ॥५७भाषितध्वनिमूलान्तो भावाभावविवर्जितः ।भानुकोपपितृध्वंसी भारतीशोपदेशकः ॥५८भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः ।भारक्रौञ्चासुरद्वेषो भार्गवीनाथवल्लभः ॥५९भटवीरनमस्कॄत्यो भटवीरसमावृतः ।भटतारागणोड्वीशो भटवीरगणस्तुतः ॥६०भागीरथेयो भाषार्थो भावनाशबरीप्रियः ।भकारे कलिचोरारिभूताद्युच्चाटनोद्यतः ॥६१वकारसुकलासंस्थो वरिष्ठो वसुदायकः ।वकारकुमुदेन्दुश्च वकाराब्धिसुधामयः ॥६२वकारामृतमाधुर्यो वकारामृतदायकः ।वज्राभीतिदक्षहस्तो वामे शक्तिवरान्वितः ॥६३वकारोदधिपूर्णेन्दुःवकारोदधिमौक्तिकम् ।वकारमेघसलिलो वासवात्मजरक्षकः ॥६४वकारफलसारज्ञो वकारकलशामृतम् ।वकारपङ्कजरसो वसुवंशविवर्धनः ॥६५वकारदिव्यकमलभ्रमरो वायुवन्दितः ।वकारशशिसङ्काशो वज्रपाणिसुताप्रियः ॥६६वकारपुष्पसद्गन्धो वकारतटपङ्कजम् ।वकारभ्रमरध्वानो वयस्तेजोबलप्रदः ॥६७वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः ।वकारफलसत्कारो वकाराज्यहुताशनः ॥६८वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः ।वकारवटमूलस्थो वकारजलधेस्तटः ॥६९वकारगङ्गावेगाब्धिः वज्रमाणिक्यभूषणः ।वातरोगहरो वाणीगीतश्रवणकौतुकः ॥७०वकारमकरारूढो वकारजलधेः पतिः ।वकारामलमन्त्रार्थो वकारगृहमङ्गलम् ॥७१वकारस्वर्गमाहेन्द्रो वकारारण्यवारणः ।वकारपञ्जरशुको वलारितनयास्तुतः ॥७२वकारमन्त्रमलयसानुमन्मन्दमारुतः ।वाद्यन्तभान्तषट्क्रम्यजपान्ते शत्रुभञ्जनः ॥७३वज्रहस्तसुतावल्लीवामदक्षिणसेवितः ।वकुलोत्पल्कादम्बपुष्पदामस्वलङ्कृतः ॥७४वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहः ।वासनागन्धलिप्ताङ्गो वषट्कारो वशीकरः ॥७५वासनायुक्ततांबूलपूरिताननसुन्दरः ।वल्लभानाथसुप्रीतो वरपूर्णामृतोदधिः ॥७६ N/A References : N/A Last Updated : January 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP