संस्कृत सूची|संस्कृत स्तोत्र साहित्य|त्रिशती नामावलिः| ॐ अस्य श्रीकुमारत्रिशतीमह... त्रिशती नामावलिः गिरीशं मरकतशृङ्गवासिनं म... नमः शिवाभ्यां सरसोत्सवाभ्... ॐ अस्य श्रीकुमारत्रिशतीमह... श्रीगणेशाय नमः । पूर्वपीठ... प्रचण्डचण्डीत्रिशती अस्य श्रीबालात्रिपुरसुन्द... विहायाद्रिनाथं विभुष्टान्... ध्यानम् - ब्रह्माण्डव्याप... अगस्त्य उवाच -- हयग्रीव द... श्रीमती शर्मदिश्यान्मे गो... सूर्य उवाच --- एकार्णमन्त... ॐ गणेश्वराय नमः । गणक्रीड... श्रीदेव्युवाच - त्रिशतीं ... ॐ सौं शरवणभवः शरच्चन्द्रा... हरिः ॐ । ॐ स्वर्णमहालक्ष्... श्रीकुमारत्रिशतीनामावलिः - ॐ अस्य श्रीकुमारत्रिशतीमह... त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो. Tags : 300त्रिशतीनामावलिः श्रीकुमारत्रिशतीनामावलिः Translation - भाषांतर ॐ अस्य श्रीकुमारत्रिशतीमहामन्त्रस्य मार्कण्डेय ऋषिः ।अनुष्टुप्छन्दः । कुमारषण्मुखो देवता । कुमार इति बीजम् ।शाख इति शक्तिः । विशाख इति कीलकम् । नेजमेष इत्यर्गलम् ।कार्तिकेय इति कवचम् । षण्मुख इति ध्यानम्॥ध्यानम् -ध्यायेत् षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितंबालार्कद्युतिषट्किरीटविलसत् केयूरहारान्वितम् ।कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितंकाञ्चीकङ्कणकिङ्किणीरवयुतं शृङ्गारसारोदयम्॥ध्यायेदीप्सितसिद्धिदं भवसुतं श्रीद्वादशाक्षं गुहंखेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् ।वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखंदेवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम्॥अथ श्रीकुमारत्रिशतीनामावलिः अथवा शत्रुंजयत्रिशतीनामावलिः ।ॐ अरिन्दमाय नमः ।ॐ कुमाराय नमः ।ॐ गुहाय नमः ।ॐ स्कन्दाय नमः ।ॐ महाबलाय नमः ।ॐ रुद्रप्रियाय नमः ।ॐ महाबाहवे नमः ।ॐ आग्नेयाय नमः ।ॐ महेश्वराय नमः ।ॐ रुद्रसुताय नमः । (१०)ॐ गणाध्यक्षाय नमः ।ॐ उग्रबाहवे नमः ।ॐ गुहाश्रयाय नमः ।ॐ शरजसे नमः ।ॐ वीरघ्ने नमः ।ॐ उग्राय नमः ।ॐ लोहिताक्षाय नमः ।ॐ सुलोचनाय नमः ।ॐ मयूरवाहनाय नमः ।ॐ श्रेष्ठाय नमः । (२०)ॐ शत्रुजिते नमः ।ॐ शत्रुनाशनाय नमः ।ॐ षष्ठीप्रियाय नमः ।ॐ उमापुत्राय नमः ।ॐ कार्तिकेयाय नमः ।ॐ भयानकाय नमः ।ॐ शक्तिपाणये नमः ।ॐ महेश्वराय नमः ।ॐ महासेनाय नमः ।ॐ सनातनाय नमः । (३०)ॐ सुब्रह्मण्याय नमः ।ॐ विशाखाय नमः ।ॐ ब्रह्मण्याय नमः ।ॐ ब्राह्मणप्रियाय नमः ।ॐ नेजमेषाय नमः ।ॐ महावीराय नमः ।ॐ शाखाय नमः ।ॐ धूर्ताय नमः ।ॐ रणप्रियाय नमः ।ॐ चोराचार्याय नमः । (४०)ॐ विहर्त्रे नमः ।ॐ स्थविराय नमः ।ॐ सुमनोहराय नमः ।ॐ प्रणवाय नमः ।ॐ देवसेनेशाय नमः ।ॐ दक्षाय नमः ।ॐ दर्पणशोभिताय नमः ।ॐ बालरूपाय नमः ।ॐ ब्रह्मगर्भाय नमः ।ॐ भीमाय नमः । (५०)ॐ भीमपराक्रमाय नमः ।ॐ श्रीमते नमः ।ॐ शिष्टाय नमः ।ॐ शुचये नमः ।ॐ शीघ्राय नमः ।ॐ शाश्वताय नमः ।ॐ शिखिवाहनाय नमः ।ॐ बाहुलेयाय नमः ।ॐ बृहद्बाहवे नमः ।ॐ बलिष्ठाय नमः । (६०)ॐ बलवते नमः ।ॐ बलिने नमः ।ॐ एकवीराय नमः ।ॐ महामान्याय नमः ।ॐ सुमेदघ्ने नमः ।ॐ रोगनाशनाय नमः ।ॐ रक्ताम्बराय नमः ।ॐ महामायिने नमः ।ॐ बहुरूपाय नमः ।ॐ गणेश्वराय नमः । (७०)ॐ इषुहस्ताय नमः ।ॐ महाधन्विने नमः ।ॐ क्रौञ्चभिदे नमः ।ॐ अघनाशकाय नमः ।ॐ बालग्रहाय नमः ।ॐ बृहद्रूपाय नमः ।ॐ महाशक्तिने नमः ।ॐ महाद्युतये नमः ।ॐ उग्रवीर्याय नमः ।ॐ महामन्यवे नमः । (८०)ॐ रुचिराय नमः ।ॐ रुद्रसम्भवाय नमः ।ॐ भद्रशाखाय नमः ।ॐ महापुण्याय नमः ।ॐ महोत्साहाय नमः ।ॐ कलाधराय नमः ।ॐ नन्दिकेशप्रियाय नमः ।ॐ देवाय नमः ।ॐ ललिताय नमः ।ॐ लोकनायकाय नमः । (९०)ॐ विद्वत्तमाय नमः ।ॐ विरोधिघ्नाय नमः ।ॐ विशोकाय नमः ।ॐ वज्रधारकाय नमः ।ॐ श्रीकराय नमः ।ॐ सुमनसे नमः ।ॐ सूक्ष्माय नमः ।ॐ सुघोषाय नमः ।ॐ सुखदाय नमः ।ॐ सुहृदे नमः । (१००)ॐ वह्निजन्माय नमः ।ॐ हरिद्वर्णाय नमः ।ॐ सेनानिने नमः ।ॐ रेवतीप्रियाय नमः ।ॐ रत्नार्चिने नमः ।ॐ रञ्जनाय नमः ।ॐ वीराय नमः ।ॐ विशिष्टाय नमः ।ॐ शुभलक्षणाय नमः ।ॐ अर्कपुष्पार्चिताय नमः । (११०)ॐ शुद्धाय नमः ।ॐ वृद्धिकागणसेविताय नमः ।ॐ कुङ्कुमाङ्गाय नमः ।ॐ महावेगाय नमः ।ॐ कूटस्थाय नमः ।ॐ कुक्कुटध्वजाय नमः ।ॐ स्वाहाप्रियाय नमः ।ॐ ग्रहाध्यक्षाय नमः ।ॐ पिशाचगणसेविताय नमः ।ॐ महोत्तमाय नमः । (१२०)ॐ महामुख्याय नमः ।ॐ शूराय नमः ।ॐ महिषमर्दनाय नमः ।ॐ वैजयन्तिने नमः ।ॐ महावीर्याय नमः ।ॐ देवसिंहाय नमः ।ॐ दृढव्रताय नमः ।ॐ रत्नाङ्गदधराय नमः ।ॐ दिव्याय नमः ।ॐ रक्तमाल्यानुलेपनाय नमः । (१३०)ॐ दुःसहाय नमः ।ॐ दुर्लभाय नमः ।ॐ दीप्ताय नमः ।ॐ गजारूढाय नमः ।ॐ महातपाय नमः ।ॐ यशस्विने नमः ।ॐ विमलाय नमः ।ॐ वाग्मिने नमः ।ॐ मुखमण्डिने नमः ।ॐ सुसेविताय नमः । (१४०)ॐ कान्तियुक्ताय नमः ।ॐ वषट्काराय नमः ।ॐ मेधाविने नमः ।ॐ मेखलिने नमः ।ॐ महते नमः ।ॐ नेत्रे नमः ।ॐ नियतकल्याणाय नमः ।ॐ धन्याय नमः ।ॐ धुर्याय नमः ।ॐ धृतव्रताय नमः । (१५०)ॐ पवित्राय नमः ।ॐ पुष्टिदाय नमः ।ॐ पूर्तये नमः ।ॐ पिङ्गलाय नमः ।ॐ पुष्टिवर्धनाय नमः ।ॐ मनोहराय नमः ।ॐ महाज्योतये नमः ।ॐ प्रदिष्टाय नमः ।ॐ महिषान्तकाय नमः ।ॐ षण्मुखाय नमः । (१६०)ॐ हरपुत्राय नमः ।ॐ मन्त्रगर्भाय नमः ।ॐ वसुप्रदाय नमः ।ॐ वरिष्ठाय नमः ।ॐ वरदाय नमः ।ॐ वेद्याय नमः ।ॐ विचित्राङ्गाय नमः ।ॐ विरोचनाय नमः ।ॐ विबुधाग्रचराय नमः ।ॐ वेत्त्रे नमः । (१७०)ॐ विश्वजिते नमः ।ॐ विश्वपालकाय नमः ।ॐ फलदाय नमः ।ॐ मतिदाय नमः ।ॐ मालिने नमः ।ॐ मुक्तामालाविभूषणाय नमः ।ॐ मुनिस्तुताय नमः ।ॐ विशालाक्षाय नमः ।ॐ नदीसुताय नमः ।ॐ वीर्यवते (१८०)ॐ शक्रप्रियाय नमः ।ॐ सुकेशाय नमः ।ॐ पुण्यकीर्तिने नमः ।ॐ अनामयाय नमः ।ॐ वीरबाहवे नमः ।ॐ सुवीर्याय नमः ।ॐ स्वामिने नमः ।ॐ बालग्रहान्विताय नमः ।ॐ रणशूराय नमः ।ॐ सुषेणाय नमः । (१९०)ॐ खट्वाङ्गिने नमः ।ॐ खड्गधारकाय नमः ।ॐ रणस्वामिने नमः ।ॐ महोपायाय नमः ।ॐ श्वेतछत्राय नमः ।ॐ पुरातनाय नमः ।ॐ दानवारये नमः ।ॐ कृतिने नमः ।ॐ कामिने नमः ।ॐ शत्रुघ्नाय नमः । (२००)ॐ गगनेचराय नमः ।ॐ सुलभाय नमः ।ॐ सिद्धिदाय नमः ।ॐ सौम्याय नमः ।ॐ सर्वज्ञाय नमः ।ॐ सर्वतोमुखाय नमः ।ॐ असिहस्ताय नमः ।ॐ विनीतात्मने नमः ।ॐ सुवीराय नमः ।ॐ विश्वतोमुखाय नमः । (२१०)ॐ दण्डायुधिने नमः ।ॐ महादण्डाय नमः ।ॐ सुकुमाराय नमः ।ॐ हिरण्मयाय नमः ।ॐ षाण्मातुराय नमः ।ॐ जितामित्राय नमः ।ॐ जयदाय नमः ।ॐ पूतनान्विताय नमः ।ॐ जनप्रियाय नमः ।ॐ महाघोराय नमः । (२२०)ॐ जितदैत्याय नमः ।ॐ जयप्रदाय नमः ।ॐ बालपालाय नमः । ॐ गणाधीशाय नमः ।ॐ बालरोगनिवारकाय नमः ।ॐ जयिने नमः ।ॐ जितेन्द्रियाय नमः ।ॐ जैत्राय नमः ।ॐ जगत्पालाय नमः ।ॐ जगत्प्रभवे नमः । (२३०)ॐ जैत्ररथाय नमः ।ॐ प्रशान्ताय नमः ।ॐ सर्वजिते नमः ।ॐ दैत्यसूदनाय नमः ।ॐ शोभनाय नमः ।ॐ सुमुखाय नमः ।ॐ शान्ताय नमः ।ॐ कवये नमः ।ॐ सोमाय नमः ।ॐ जिताहवाय नमः । (२४०)ॐ मरुत्तमाय नमः ।ॐ बृहद्भानवे नमः ।ॐ बृहत्सेनाय नमः ।ॐ बहुप्रदाय नमः ।ॐ सुदृश्याय नमः ।ॐ देवसेनानिने नमः ।ॐ तारकारिणे नमः ।ॐ गुणार्णवाय नमः ।ॐ मातृगुप्ताय नमः ।ॐ महाघोषाय नमः । (२५०)ॐ भवसूनवे नमः ।ॐ कृपाकराय नमः ।ॐ घोरघुष्याय नमः ।ॐ बृहद्द्युम्नाय नमः ।ॐ धनुर्हस्ताय नमः ।ॐ सुवर्धनाय नमः ।ॐ कामप्रदाय नमः ।ॐ सुशिप्राय नमः ।ॐ बहुकाराय नमः ।ॐ महाजवाय नमः । (२६०)ॐ गोप्त्रे नमः ।ॐ त्रात्रे नमः ।ॐ धनुर्धारिणे नमः ।ॐ मातृचक्रनिवासिने नमः ।ॐ षड्शीर्षाय नमः ।ॐ षडरषट्काय नमः ।ॐ द्वादशाक्षाय नमः ।ॐ द्विषड्भुजाय नमः ।ॐ षडक्षराय नमः ।ॐ षडर्चये नमः । (२७०)ॐ षडङ्गाय नमः ।ॐ षडनीकवदे नमः ।ॐ शर्वाय नमः ।ऊं सनत्कुमाराय नमः ।ॐ सद्योजाताय नमः ।ॐ महामुनये नमः ।ॐ रक्तवर्णाय नमः ।ॐ शिशवे नमः ।ॐ चण्डाय नमः ।ॐ हेमचूडाय नमः । (२८०)ॐ सुखप्रदाय नमः ।ॐ सुहेतिरङ्गनाय नमः ।ॐ अऽश्लिष्टाय नमः ।ॐ मातृकागणसेविताय नमः ।ॐ भूतपतये नमः ।ॐ गतातङ्काय नमः ।ॐ नीलचूडकवाहनाय नमः ।ॐ वचद्भुवे नमः ।ॐ रुद्रभुवे नमः ।ॐ जगद्भुवे नमः । (२९०)ॐ ब्रह्मभुवे नमः ।ॐ भुवद्भुवे नमः ।ॐ विश्वभुवे नमः ।ॐ मन्त्रमूर्तये नमः ।ॐ महामनवे नमः ।ॐ वासुदेवप्रियाय नमः ।ॐ प्रह्लादबलसूदनाय नमः ।ॐ क्षेत्रपालाय नमः ।ॐ बृहद्भासाय नमः ।ॐ बृहद्देवाय नमः । (३००)ॐ अरिञ्जयाय नमः । (३०१) इति श्रीकुमारत्रिशतीनामावलिः समाप्ता । N/A References : N/A Last Updated : January 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP