श्रीललितात्रिशत्यान्तरम् - श्रीमती शर्मदिश्यान्मे गो...
त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो.
श्रीमती शर्मदिश्यान्मे गोमती परदेवता ।
कामराजश्चेदमीय सामरस्यपरायणः ॥१॥
मदनानन्दनाथाय करवै गुरवे नम ।
मोदिन्यम्बासमेताय मोहान्धतमसच्छिदे ॥२॥
नारायणीजानकीभ्यामम्बाभ्यां सहितो मम ।
नरसिंहानन्दनाथो जयतात् परमो गुरुः ॥३॥
मधुमत्यम्बयोपेतः परमेष्ठिगुरुर्मम ।
महादेवानन्दनाथो मङ्गलं तनुतात् सदा ॥४॥
सारस्वतो यत्कृपया मयास्वाद्योऽभवद् रसः ।
गीर्वाणानन्दनाथाय तस्मै श्री गुरवे नमः ॥५॥
वाग्देवतावशिन्याद्या वाचोयुक्तिं दिशन्तु मे ।
रहस्यनामसाहस्रं याभिर्निर्मितमद्भुतम् ॥६॥
चक्रराजनिवासिन्यो देवता याः सहसशः ।
मन्त्रिणीदण्डिनीमुख्यास्ताः प्रसन्ना भवन्तु मे ॥७॥
उपासकसमाजाय श्रीविद्याचारवेदिने ।
कुलधर्मैकनिष्ठाय कुर्महे वयमञ्जलिम् ॥८॥
विद्याकाद्यक्षराद्यानि पथङ्नामानि विंशतिः ।
कामेश्वरीप्रसादार्थं कथ्यन्ते गुर्वनुज्ञया ॥९॥
इमं कामेश्वरी नाम त्रिशतीरचनोद्यमम् ।
मामकं सफलीकुर्यादेकः श्रीगुर्वनुग्रहि ॥१०॥
ॐ ककारशेखराकारा करुणामसृणाशया ।
कल्याणदायिनी कल्या कमलासनसेविता ॥११॥
कलापूर्णकलानाथगर्वसर्वङ्कषानना ।
करेणुराजगमना कञ्जनाभसहोदरी ॥१२॥
कष्टताशमनी काबुकण्ठी कण्ठीरवासना ।
कलिकल्मषनीहारहरिदश्वकरच्छटा ॥१३॥
कटाक्षदुरिताभद्रा कनकाचलवासिनी ।
कम्रस्मेरमुखाम्भोजा कज्जलाञ्चितलोचना ॥१४॥
कलिन्दनन्दिनीरोधस्तमालासितकैशिका ।
कवित्वदायिनी कन्याजनपूजनहर्षिता ॥१५॥
कपर्दिनिर्दयामर्दसहिष्णुकठिनस्तनी ।
एकारविलसम्पूर्त्तिरेणीशाबविलोचना ॥१६॥
एकदन्तप्रसूरेनःपुञ्जभञ्जनकारिणी ।
एकपिङ्गार्च्चितैकाग्रबुद्धिरेणाङ्कशेखरा ॥१७॥
एधमानतनुच्छायशोणीकृतदिगन्तरा ।
एजितारिकुलैकान्तसपर्यापरितोषिता ॥१८॥
एतावदित्यप्रमेयवैभवैकपतिव्रता ।
एकपत्न्येकवीरैकैश्वर्यदैकान्तकोमला ॥१९॥
एकाकिन्येकसिद्धान्तिन्येडमूककवित्वदा ।
एककालोदितानेकविकर्त्तनशतद्युतिः ॥२०॥
ईकारमध्यकुटैकस्वरूपमुखपङ्कजा ।
ईर्षाविरहितेशानप्रेयसीड्यगुणान्विता ॥२१॥
ईषत्करप्रपञ्चेहामृगादिभयनाशिनी ।
ईशानशक्तिरीतिच्छिदीशित्रीहितपूरणी ॥२२॥
ईक्षणश्रीजितोत्फुल्लशतपत्रेरित्रशुतिः ।
ईर्मतोदापहन्त्रीशचित्तव्यामोहदायिनी ॥२३॥
ईश्वरार्धतनूरीषदुन्मिषत्स्मितभासुरा ।
ईक्षासृष्टजगद्राशिरीशितासिद्धिदेश्वरी ॥२४॥
ईषिकान्तस्रवद्दानगजाग्रेसरसैनिका ।
लकारविलसद्रूपा लक्षणावृत्तिबोधिता ॥२५॥
लम्बमानकचा लज्जाशालिनी लकुचस्तनी ।
लतावेष्टितकाश्लेषतोषितार्द्धेन्दुशेखरा ॥२६॥
लवङ्गसौरभोल्लासिवदना लड्डुकप्रिया ।
लसद्बिसप्रसूनाभलोचना ललनामणिः ॥२७॥
लक्ष्मीवल्लभसंसेव्या लघिष्टोपासनाकमा ।
लयस्थित्युद्भवाध्यक्षमूर्त्तित्रितयचोदिनी ॥२८॥
ललाटिकालसद्भाला ललाटेक्षणवल्लभा ।
लतामतल्लिकाबाहुर्लघिमासिद्धिरूपिणी ॥२९॥
लक्षकोटिजगज्जालशिक्षारक्षाविधायिनी ।
लवशः खण्डितारातिशरीरा ललिताम्बिका ॥३०॥
ह्रीङ्कारस्फुरदाकारा ह्रीङ्कारत्रयशालिनी ।
ह्रीङ्कारमन्त्रतात्पर्यपर्यालोचिजनेष्टदा ॥३१॥
ह्रीङ्कारमयपीठस्था ह्रीङ्कारानन्दकन्दली ।
ह्रीङ्कारलक्ष्या ह्रीङ्कारबोध्या ह्रीङ्कारपूजिता ॥३२॥
ह्रीङ्कारजपवल्लोकशोकोन्मूलनकारिणी ।
ह्रीङ्कारशक्तिह्रीङ्कारी ह्रीङ्कारमहिमावहा ॥३३॥
ह्रीङ्कारचैतन्यमयी ह्रीङ्कारमयभूषणा ।
ह्रीङ्काराक्षरजीवातुर्ह्रीङ्काराभिन्नमानसा ॥३४॥
ह्रीङ्कारसिद्धिमद्भक्तहृदयैकनिकेतना ।
ह्रीङ्कारभाव्या ह्रीङ्कारसेव्या ह्रीङ्कारसिद्धिदा ॥३५॥
हकारादिमकूटोद्यन्मध्यकाया हसन्मुखी ।
हस्ताम्बुजन्यस्तशुकी हस्तिमस्तकसुस्तनी ॥३६॥
हलाहलाशनापायपालितप्राणवल्लभा ।
हराक्षिप्लुष्टकन्दर्पसञ्जीवनमहौषधिः ॥३७॥
हरितालसवर्णाभा हल्लकस्रगलङ्कृता ।
हरिनेत्रा हरिस्तुत्या हरिणाक्षी हतासुरा ॥३८॥
हरिराजसमारुढा हरिणी हरिभाषिणी ।
हरिन्मणिगणोल्लासिकिरीटा हरिदम्बरा ॥३९॥
हरिदश्वायुतज्योतिर्हर्षितप्रियमानसा ।
हलिप्रियापानकणेघातघूर्णितलोचना ॥४०॥
सकारघटिताकारा सच्चिदानन्दरूपिणी ।
समाश्रितजनक्लेशसमुन्मूलनकर्मठा ॥४१॥
समस्ततन्त्रातिशायिस्वत्रन्ता समशेमुषी ।
सरस्वती सरोजाक्षी सर्वलोकैकनायिका ॥४२॥
सकृत्प्रन्नजनतासाम्राज्यस्थानदायिनी ।
सङ्गीतरसिका सङ्गरहिता सङ्गरोद्भटा ॥४३॥
सनन्दादिमुनिस्तोममनस्तलिमशायिनी ।
सन्तानकुसुमोत्तंसा सन्देहास्पदमध्यमा ॥४४॥
सङ्कल्पकल्पिताशेषजगती सङ्कटापहा ।
सङ्क्रान्तिपूज्या सङ्क्रन्दनार्चिता सद्गतिप्रदा ॥४५॥
ककारमध्यावयवा कनत्कनकमेखला ।
कन्दर्परथचातुर्यधुरीणजघनस्थला ॥४६॥
कदम्बवाटिनिलया कपोलोल्लासिकुण्डला ।
कलहंसगतिः कर्मफलदा कर्कशेतरा ॥४७॥
कण्ठदघ्नदयापूरा कळकण्ठसुभाषिणी ।
कलधौतगलग्राहिकलेवरगलन्महाः ॥४८॥
कलङ्कहीना कर्पूरदिग्धाङ्गू कण्टकापहा ।
कन्धराशोभिमाङ्गल्यसूत्रा कदननाशिनी ॥४९॥
कङ्कणालङ्कृतभुजा कच्छपीमधुरस्वरा ।
कदलीकाण्डकम्रोरुद्वया कल्पान्तसाक्षिणी ॥५०॥
हकाराभिव्यक्तशक्तिर्हरिणाङ्कार्भकालिका ।
हलायुधार्चिता हर्षदायिनी हरवल्लभा ॥५१॥
हव्यवाहनशीतांशु हरिदश्वविलोचना ।
हविस्वीकारसन्तुष्टा हयवर्योल्लसच्चमूः ॥५२॥
हसिताधःकृतसुधा हरिद्रौदनलोलुपा ।
हतभण्डादिदैतेया हनुमत्स्वामिसेविता ॥५३॥
हरिचन्दनवाटस्था हन्तव्यहननोत्सुका ।
हर्म्यप्रकाण्डनिलया हतोद्यच्चतुरायुधा ॥५४॥
हरिप्रियाहितप्रेमा हरित्पतिवरप्रदा ।
हवनोत्थापिता हस्तिमुखशक्तिधरप्रसूः ॥५५॥
लकारलसिताकारा ललामरुचिरालिका ।
ललितापहृतेशानमानसा ललिताकृतिः ॥५६॥
लघुकृत्रप्रपन्नार्त्तिर्लब्धवर्णजनार्चिता ।
लङ्घिताज्ञार्त्तिदा लक्ष्मीवाणीशच्यादिवन्दिता ॥५७॥
लग्नकुङ्कुमपङ्काङ्गा लपनाधरिताम्बुजा ।
लब्धदीक्षैकसुलभा लम्भितैश्वर्यसेवका ॥५८॥
ललद्भ्रूलतिका लक्षणोज्ज्वलाङ्गी लसद्गुणा ।
लपितस्फारमाधुर्यनिर्भर्त्सितसुधाझरी ॥५९॥
लक्ष्महीनसमग्रेन्दुमुखी लयविधायिनी ।
लक्ष्यनिस्सीमसौन्दर्यविग्रहा लक्ष्यवेधिनी ॥६०॥
ह्रीङ्कारभासुराकारा ह्रीङ्कारमधुमाधुरी ।
ह्रीङ्कारबिम्बारूणिमा ह्रीङ्कारसुमसौरभी ॥६१॥
ह्रीङ्कारवाद्यक्वणना ह्रीङ्कारपटहध्वनिः ।
ह्रीङ्कारकोकिलकुहुर्ह्रीङ्कारशुकराजवाक् ॥६२॥
ह्रीङ्कारकेकिराट्केका ह्रीङ्कारगजगर्जना ।
ह्रीङ्कारतुरग्रह्रीपा ह्रीङ्कारकविसाहिती ॥६३॥
ह्रीङ्कारनिस्त्रंशधरा ह्रीङ्कारेष्वासशिञ्जिनी ।
ह्रीङ्कारनिर्झरझरी ह्रीङ्काराम्बुधिवीचिका ॥६४॥
ह्रीङ्कारकेसरिसटा ह्रीङ्काराशीविषस्टा ।
ह्रीङ्कारदन्तीन्द्रशुण्डा ह्रीङ्कारखगपक्षतिः ॥६५॥
सकारावयवाकारव्यक्तीभूतशिवा सती ।
सत्यस्वरूपा सर्वाङ्गसुन्दरी सकलेश्वरी ॥६६॥
सद्यस्सिद्धिप्रदा सर्वमङ्गला सद्गुणाम्बुधिः ।
सदाशिवमयोत्तुङ्गमञ्चोपरिनिषेदुषी ॥६७॥
सहस्रशीर्षवदनपाणिपादविलोचना ।
समाजैकसुगमा समा समजदुर्गमा ॥६८॥
समांसमीनादरिणी समानाधिकवर्जिता ।
समुद्रागाधहृदया समुत्पाटितपातका ॥६९॥
समूलोन्मूलितामित्रा समुत्पादितविष्टपा ।
समुल्लसच्छक्तिकूटकट्यधोभागशालिनी ॥७०॥
ककारकलिताकारा ककुद्मद्वाहनप्रिया ।
कक्ष्यानवकमध्यस्था कङ्केलिकुसुमप्रिया ॥७१॥
कबरीकान्तिनिर्धूतनिबिरीसवलाहका ।
कच्छपप्रपदा कद्रुवन्दिता कन्दुकस्तनी ॥७२॥
कस्तूरीमकरीक्रमकपोला कश्मलार्तिदा ।
कल्पान्तभैरवारब्धमहाताण्डवसाक्षिणी ॥७३॥
कल्हारदामरुचिरा कलालापा कलावती ।
कर्मकारीभवत्सर्वगीर्वाणा कवचावृता ॥७४॥
कर्णजाहलसद्वाली कर्णजित्समुपासिता ।
कपालिपुण्यलहरी कमनीयकलेवरा ॥७५॥
लकारविलसद्रूपा लक्ष्मीपुत्रनिषेविता ।
लक्षणीयवपुर्लक्ष्मीर्लक्ष्मीजानिप्रियङ्करी ॥७६॥
लब्धादिमरसानन्दयोगिमानसहंसिका ।
लक्ष्मीवती लक्ष्महीना लक्ष्मीगृहलसत्करा ॥७७॥
ललाटजितबालेन्दुर्लतिकाचारुविग्रहा ।
लम्बालका लब्धविद्या लोकशोकविनाशिनी ॥७८॥
ललन्तिकाशोभमाना लहरीलोलचिल्लिका ।
लङ्काधिनाथनिधनसमर्थीकृतराघवा ॥७९॥
लसन्ती ललिता लक्ष्मीसहजार्भकशेखरा ।
ललन्मौक्तिकचिन्ताका लक्ष्मीफलफलस्तनी ॥८०॥
ह्रीङ्कारपूरिताकारा ह्रीङ्काराद्वैतरूपिणी ।
ह्रीङ्कारकमलार्काभा ह्रीङ्कारकुमुदेन्दुभा ॥८१॥
ह्रीङ्कारकेतनपटी ह्रीङ्कारमणिदीधितिः ।
ह्रीङ्कारशल्यशलली ह्रीङ्कारफणिभुक्छिखा ॥८२॥
ह्रीङ्कारमन्दुरावामी ह्रीङ्कारबिलपन्नगी ।
ह्रीङ्कारवेदगायत्री ह्रीङ्कारकरसन्मणिः ॥८३॥
ह्रीङ्कारक्षणदाज्योत्स्ना ह्रीङ्कारदिनसूर्यभा ।
ह्रीङ्कारसिंहासनेशी ह्रीङ्कारकुलपालिका ॥८४॥
ह्रीङ्कारगुप्ता ह्रीङ्कारलीना ह्रीङ्कारमध्यगा ।
ह्रीङ्कारकारणानन्दकैवल्याद्वैतरूपिणी ॥८५॥
गुरुपादसहायेन मया नामशत्रत्रयी ।
विनिर्मिता जगन्मातुः प्रसादाय भवत्वियम् ॥८६॥
श्रीकामेश्वरकामेशीमुखनिस्सृतया तया ।
त्रिशत्या त्रिशतीमेनां तुलयेन्न कदाचन ॥८७॥
द्वयोस्तुल्येऽपि तत्रान्यादृशमस्ति हि ।
अदृष्टकशक्त्या माहात्म्यं मन्त्रत्वादन्यदुर्लभम् ॥८८॥
तुल्यरूपेऽपि पुष्पादौ कल्पिते शिल्पकारिभिः ।
आविर्भवेत् कथन्नाम सौरभ्यं वास्तवे यथा ॥८९॥
अतस्तादृशोत्कृष्टमाहात्म्येन स्तवेन कः ।
मन्निबद्धमिमं लोके तुलयेदास्तिको जनः ॥९०॥
तथापि श्रीमहाराज्ञीनामावल्यात्मकः स्तवः ।
अभीष्टफलदाता स्यात् पठितृणामयं ध्रुवम् ॥९१॥
मातस्त्वद्भक्तिनुन्नेन कृतास्तुतिरियं मया ।
सावद्यास्त्वनवद्या वा सर्वथा क्षन्तुमर्हसि ॥९२॥
अर्पितं तदिदं स्तोत्रं त्वत्पादाम्भोजयोर्मया ।
अप्रमेयदयासिन्धो त्वत्प्रसादो भवेन्मयि ॥९३॥
जना निन्दन्तु जननि स्तवमेनं स्तुवन्तु वा ।
यदि प्रसन्ना भवती कृतार्थस्तावतास्म्यहम् ॥९४॥
सत्समाजा स्तोत्रमिदं न निन्देयुः कथञ्चन ।
समाजा यदि निन्देयुः किमनेनास्य हीयते ॥९५॥
भक्त्या सुदृढया नित्यं ये पठेयुरिमं स्तवम् ।
तेषामभीष्टसिद्धिः स्यात् कृपया ते महेश्वरि ॥९६॥
पतितोऽस्मि पदाम्भोजे परमेश्वरि तावके ।
यथा प्रसीदसि तथा विधेयेस्मिन् विधीयताम् ॥९७॥
अवलम्बनमेका त्वं जगदम्ब दृढं मम ।
न मुञ्चामि भवत्पादौ सम्पत्स्वपि विपत्स्वपि ॥९८॥
त्वामेकामेव सेवेऽहं न परानमरानुमे ।
यस्मादनिर्विशेषं रक्षणीयास्त्वयैव ते ॥९९॥
अवस्थात्रितयेप्यस्तु भवद्ध्यानं भवानि मे ।
अविच्छिन्नं भवेद्येन शिवं मे सर्वमङ्गले ॥१००॥
महात्रिपुरसुन्दर्या समेतः स्तोतमम्बया ।
महादेवानन्दनाथः किमप्येतद् विनिर्ममे ॥१०१॥
इति श्री केरलवर्मणा विरचितं त्रिशत्यन्तरं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 20, 2026

TOP