संस्कृत सूची|संस्कृत स्तोत्र साहित्य|त्रिशती नामावलिः| श्रीमती शर्मदिश्यान्मे गो... त्रिशती नामावलिः गिरीशं मरकतशृङ्गवासिनं म... नमः शिवाभ्यां सरसोत्सवाभ्... ॐ अस्य श्रीकुमारत्रिशतीमह... श्रीगणेशाय नमः । पूर्वपीठ... प्रचण्डचण्डीत्रिशती अस्य श्रीबालात्रिपुरसुन्द... विहायाद्रिनाथं विभुष्टान्... ध्यानम् - ब्रह्माण्डव्याप... अगस्त्य उवाच -- हयग्रीव द... श्रीमती शर्मदिश्यान्मे गो... सूर्य उवाच --- एकार्णमन्त... ॐ गणेश्वराय नमः । गणक्रीड... श्रीदेव्युवाच - त्रिशतीं ... ॐ सौं शरवणभवः शरच्चन्द्रा... हरिः ॐ । ॐ स्वर्णमहालक्ष्... श्रीललितात्रिशत्यान्तरम् - श्रीमती शर्मदिश्यान्मे गो... त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो. Tags : 300त्रिशतीनामावलिः श्रीललितात्रिशत्यान्तरम् Translation - भाषांतर श्रीमती शर्मदिश्यान्मे गोमती परदेवता ।कामराजश्चेदमीय सामरस्यपरायणः ॥१॥मदनानन्दनाथाय करवै गुरवे नम ।मोदिन्यम्बासमेताय मोहान्धतमसच्छिदे ॥२॥नारायणीजानकीभ्यामम्बाभ्यां सहितो मम ।नरसिंहानन्दनाथो जयतात् परमो गुरुः ॥३॥मधुमत्यम्बयोपेतः परमेष्ठिगुरुर्मम ।महादेवानन्दनाथो मङ्गलं तनुतात् सदा ॥४॥सारस्वतो यत्कृपया मयास्वाद्योऽभवद् रसः ।गीर्वाणानन्दनाथाय तस्मै श्री गुरवे नमः ॥५॥वाग्देवतावशिन्याद्या वाचोयुक्तिं दिशन्तु मे ।रहस्यनामसाहस्रं याभिर्निर्मितमद्भुतम् ॥६॥चक्रराजनिवासिन्यो देवता याः सहसशः ।मन्त्रिणीदण्डिनीमुख्यास्ताः प्रसन्ना भवन्तु मे ॥७॥उपासकसमाजाय श्रीविद्याचारवेदिने ।कुलधर्मैकनिष्ठाय कुर्महे वयमञ्जलिम् ॥८॥विद्याकाद्यक्षराद्यानि पथङ्नामानि विंशतिः ।कामेश्वरीप्रसादार्थं कथ्यन्ते गुर्वनुज्ञया ॥९॥इमं कामेश्वरी नाम त्रिशतीरचनोद्यमम् ।मामकं सफलीकुर्यादेकः श्रीगुर्वनुग्रहि ॥१०॥ॐ ककारशेखराकारा करुणामसृणाशया ।कल्याणदायिनी कल्या कमलासनसेविता ॥११॥कलापूर्णकलानाथगर्वसर्वङ्कषानना ।करेणुराजगमना कञ्जनाभसहोदरी ॥१२॥कष्टताशमनी काबुकण्ठी कण्ठीरवासना ।कलिकल्मषनीहारहरिदश्वकरच्छटा ॥१३॥कटाक्षदुरिताभद्रा कनकाचलवासिनी ।कम्रस्मेरमुखाम्भोजा कज्जलाञ्चितलोचना ॥१४॥कलिन्दनन्दिनीरोधस्तमालासितकैशिका ।कवित्वदायिनी कन्याजनपूजनहर्षिता ॥१५॥कपर्दिनिर्दयामर्दसहिष्णुकठिनस्तनी ।एकारविलसम्पूर्त्तिरेणीशाबविलोचना ॥१६॥एकदन्तप्रसूरेनःपुञ्जभञ्जनकारिणी ।एकपिङ्गार्च्चितैकाग्रबुद्धिरेणाङ्कशेखरा ॥१७॥एधमानतनुच्छायशोणीकृतदिगन्तरा ।एजितारिकुलैकान्तसपर्यापरितोषिता ॥१८॥एतावदित्यप्रमेयवैभवैकपतिव्रता ।एकपत्न्येकवीरैकैश्वर्यदैकान्तकोमला ॥१९॥एकाकिन्येकसिद्धान्तिन्येडमूककवित्वदा ।एककालोदितानेकविकर्त्तनशतद्युतिः ॥२०॥ईकारमध्यकुटैकस्वरूपमुखपङ्कजा ।ईर्षाविरहितेशानप्रेयसीड्यगुणान्विता ॥२१॥ईषत्करप्रपञ्चेहामृगादिभयनाशिनी ।ईशानशक्तिरीतिच्छिदीशित्रीहितपूरणी ॥२२॥ईक्षणश्रीजितोत्फुल्लशतपत्रेरित्रशुतिः ।ईर्मतोदापहन्त्रीशचित्तव्यामोहदायिनी ॥२३॥ईश्वरार्धतनूरीषदुन्मिषत्स्मितभासुरा ।ईक्षासृष्टजगद्राशिरीशितासिद्धिदेश्वरी ॥२४॥ईषिकान्तस्रवद्दानगजाग्रेसरसैनिका ।लकारविलसद्रूपा लक्षणावृत्तिबोधिता ॥२५॥लम्बमानकचा लज्जाशालिनी लकुचस्तनी ।लतावेष्टितकाश्लेषतोषितार्द्धेन्दुशेखरा ॥२६॥लवङ्गसौरभोल्लासिवदना लड्डुकप्रिया ।लसद्बिसप्रसूनाभलोचना ललनामणिः ॥२७॥लक्ष्मीवल्लभसंसेव्या लघिष्टोपासनाकमा ।लयस्थित्युद्भवाध्यक्षमूर्त्तित्रितयचोदिनी ॥२८॥ललाटिकालसद्भाला ललाटेक्षणवल्लभा ।लतामतल्लिकाबाहुर्लघिमासिद्धिरूपिणी ॥२९॥लक्षकोटिजगज्जालशिक्षारक्षाविधायिनी ।लवशः खण्डितारातिशरीरा ललिताम्बिका ॥३०॥ह्रीङ्कारस्फुरदाकारा ह्रीङ्कारत्रयशालिनी ।ह्रीङ्कारमन्त्रतात्पर्यपर्यालोचिजनेष्टदा ॥३१॥ह्रीङ्कारमयपीठस्था ह्रीङ्कारानन्दकन्दली ।ह्रीङ्कारलक्ष्या ह्रीङ्कारबोध्या ह्रीङ्कारपूजिता ॥३२॥ह्रीङ्कारजपवल्लोकशोकोन्मूलनकारिणी ।ह्रीङ्कारशक्तिह्रीङ्कारी ह्रीङ्कारमहिमावहा ॥३३॥ह्रीङ्कारचैतन्यमयी ह्रीङ्कारमयभूषणा ।ह्रीङ्काराक्षरजीवातुर्ह्रीङ्काराभिन्नमानसा ॥३४॥ह्रीङ्कारसिद्धिमद्भक्तहृदयैकनिकेतना ।ह्रीङ्कारभाव्या ह्रीङ्कारसेव्या ह्रीङ्कारसिद्धिदा ॥३५॥हकारादिमकूटोद्यन्मध्यकाया हसन्मुखी ।हस्ताम्बुजन्यस्तशुकी हस्तिमस्तकसुस्तनी ॥३६॥हलाहलाशनापायपालितप्राणवल्लभा ।हराक्षिप्लुष्टकन्दर्पसञ्जीवनमहौषधिः ॥३७॥हरितालसवर्णाभा हल्लकस्रगलङ्कृता ।हरिनेत्रा हरिस्तुत्या हरिणाक्षी हतासुरा ॥३८॥हरिराजसमारुढा हरिणी हरिभाषिणी ।हरिन्मणिगणोल्लासिकिरीटा हरिदम्बरा ॥३९॥हरिदश्वायुतज्योतिर्हर्षितप्रियमानसा ।हलिप्रियापानकणेघातघूर्णितलोचना ॥४०॥सकारघटिताकारा सच्चिदानन्दरूपिणी ।समाश्रितजनक्लेशसमुन्मूलनकर्मठा ॥४१॥समस्ततन्त्रातिशायिस्वत्रन्ता समशेमुषी ।सरस्वती सरोजाक्षी सर्वलोकैकनायिका ॥४२॥सकृत्प्रन्नजनतासाम्राज्यस्थानदायिनी ।सङ्गीतरसिका सङ्गरहिता सङ्गरोद्भटा ॥४३॥सनन्दादिमुनिस्तोममनस्तलिमशायिनी ।सन्तानकुसुमोत्तंसा सन्देहास्पदमध्यमा ॥४४॥सङ्कल्पकल्पिताशेषजगती सङ्कटापहा ।सङ्क्रान्तिपूज्या सङ्क्रन्दनार्चिता सद्गतिप्रदा ॥४५॥ककारमध्यावयवा कनत्कनकमेखला ।कन्दर्परथचातुर्यधुरीणजघनस्थला ॥४६॥कदम्बवाटिनिलया कपोलोल्लासिकुण्डला ।कलहंसगतिः कर्मफलदा कर्कशेतरा ॥४७॥कण्ठदघ्नदयापूरा कळकण्ठसुभाषिणी ।कलधौतगलग्राहिकलेवरगलन्महाः ॥४८॥कलङ्कहीना कर्पूरदिग्धाङ्गू कण्टकापहा ।कन्धराशोभिमाङ्गल्यसूत्रा कदननाशिनी ॥४९॥कङ्कणालङ्कृतभुजा कच्छपीमधुरस्वरा ।कदलीकाण्डकम्रोरुद्वया कल्पान्तसाक्षिणी ॥५०॥हकाराभिव्यक्तशक्तिर्हरिणाङ्कार्भकालिका ।हलायुधार्चिता हर्षदायिनी हरवल्लभा ॥५१॥हव्यवाहनशीतांशु हरिदश्वविलोचना ।हविस्वीकारसन्तुष्टा हयवर्योल्लसच्चमूः ॥५२॥हसिताधःकृतसुधा हरिद्रौदनलोलुपा ।हतभण्डादिदैतेया हनुमत्स्वामिसेविता ॥५३॥हरिचन्दनवाटस्था हन्तव्यहननोत्सुका ।हर्म्यप्रकाण्डनिलया हतोद्यच्चतुरायुधा ॥५४॥हरिप्रियाहितप्रेमा हरित्पतिवरप्रदा ।हवनोत्थापिता हस्तिमुखशक्तिधरप्रसूः ॥५५॥लकारलसिताकारा ललामरुचिरालिका ।ललितापहृतेशानमानसा ललिताकृतिः ॥५६॥लघुकृत्रप्रपन्नार्त्तिर्लब्धवर्णजनार्चिता ।लङ्घिताज्ञार्त्तिदा लक्ष्मीवाणीशच्यादिवन्दिता ॥५७॥लग्नकुङ्कुमपङ्काङ्गा लपनाधरिताम्बुजा ।लब्धदीक्षैकसुलभा लम्भितैश्वर्यसेवका ॥५८॥ललद्भ्रूलतिका लक्षणोज्ज्वलाङ्गी लसद्गुणा ।लपितस्फारमाधुर्यनिर्भर्त्सितसुधाझरी ॥५९॥लक्ष्महीनसमग्रेन्दुमुखी लयविधायिनी ।लक्ष्यनिस्सीमसौन्दर्यविग्रहा लक्ष्यवेधिनी ॥६०॥ह्रीङ्कारभासुराकारा ह्रीङ्कारमधुमाधुरी ।ह्रीङ्कारबिम्बारूणिमा ह्रीङ्कारसुमसौरभी ॥६१॥ह्रीङ्कारवाद्यक्वणना ह्रीङ्कारपटहध्वनिः ।ह्रीङ्कारकोकिलकुहुर्ह्रीङ्कारशुकराजवाक् ॥६२॥ह्रीङ्कारकेकिराट्केका ह्रीङ्कारगजगर्जना ।ह्रीङ्कारतुरग्रह्रीपा ह्रीङ्कारकविसाहिती ॥६३॥ह्रीङ्कारनिस्त्रंशधरा ह्रीङ्कारेष्वासशिञ्जिनी ।ह्रीङ्कारनिर्झरझरी ह्रीङ्काराम्बुधिवीचिका ॥६४॥ह्रीङ्कारकेसरिसटा ह्रीङ्काराशीविषस्टा ।ह्रीङ्कारदन्तीन्द्रशुण्डा ह्रीङ्कारखगपक्षतिः ॥६५॥सकारावयवाकारव्यक्तीभूतशिवा सती ।सत्यस्वरूपा सर्वाङ्गसुन्दरी सकलेश्वरी ॥६६॥सद्यस्सिद्धिप्रदा सर्वमङ्गला सद्गुणाम्बुधिः ।सदाशिवमयोत्तुङ्गमञ्चोपरिनिषेदुषी ॥६७॥सहस्रशीर्षवदनपाणिपादविलोचना ।समाजैकसुगमा समा समजदुर्गमा ॥६८॥समांसमीनादरिणी समानाधिकवर्जिता ।समुद्रागाधहृदया समुत्पाटितपातका ॥६९॥समूलोन्मूलितामित्रा समुत्पादितविष्टपा ।समुल्लसच्छक्तिकूटकट्यधोभागशालिनी ॥७०॥ककारकलिताकारा ककुद्मद्वाहनप्रिया ।कक्ष्यानवकमध्यस्था कङ्केलिकुसुमप्रिया ॥७१॥कबरीकान्तिनिर्धूतनिबिरीसवलाहका ।कच्छपप्रपदा कद्रुवन्दिता कन्दुकस्तनी ॥७२॥कस्तूरीमकरीक्रमकपोला कश्मलार्तिदा ।कल्पान्तभैरवारब्धमहाताण्डवसाक्षिणी ॥७३॥कल्हारदामरुचिरा कलालापा कलावती ।कर्मकारीभवत्सर्वगीर्वाणा कवचावृता ॥७४॥कर्णजाहलसद्वाली कर्णजित्समुपासिता ।कपालिपुण्यलहरी कमनीयकलेवरा ॥७५॥लकारविलसद्रूपा लक्ष्मीपुत्रनिषेविता ।लक्षणीयवपुर्लक्ष्मीर्लक्ष्मीजानिप्रियङ्करी ॥७६॥लब्धादिमरसानन्दयोगिमानसहंसिका ।लक्ष्मीवती लक्ष्महीना लक्ष्मीगृहलसत्करा ॥७७॥ललाटजितबालेन्दुर्लतिकाचारुविग्रहा ।लम्बालका लब्धविद्या लोकशोकविनाशिनी ॥७८॥ललन्तिकाशोभमाना लहरीलोलचिल्लिका ।लङ्काधिनाथनिधनसमर्थीकृतराघवा ॥७९॥लसन्ती ललिता लक्ष्मीसहजार्भकशेखरा ।ललन्मौक्तिकचिन्ताका लक्ष्मीफलफलस्तनी ॥८०॥ह्रीङ्कारपूरिताकारा ह्रीङ्काराद्वैतरूपिणी ।ह्रीङ्कारकमलार्काभा ह्रीङ्कारकुमुदेन्दुभा ॥८१॥ह्रीङ्कारकेतनपटी ह्रीङ्कारमणिदीधितिः ।ह्रीङ्कारशल्यशलली ह्रीङ्कारफणिभुक्छिखा ॥८२॥ह्रीङ्कारमन्दुरावामी ह्रीङ्कारबिलपन्नगी ।ह्रीङ्कारवेदगायत्री ह्रीङ्कारकरसन्मणिः ॥८३॥ह्रीङ्कारक्षणदाज्योत्स्ना ह्रीङ्कारदिनसूर्यभा ।ह्रीङ्कारसिंहासनेशी ह्रीङ्कारकुलपालिका ॥८४॥ह्रीङ्कारगुप्ता ह्रीङ्कारलीना ह्रीङ्कारमध्यगा ।ह्रीङ्कारकारणानन्दकैवल्याद्वैतरूपिणी ॥८५॥गुरुपादसहायेन मया नामशत्रत्रयी ।विनिर्मिता जगन्मातुः प्रसादाय भवत्वियम् ॥८६॥श्रीकामेश्वरकामेशीमुखनिस्सृतया तया ।त्रिशत्या त्रिशतीमेनां तुलयेन्न कदाचन ॥८७॥द्वयोस्तुल्येऽपि तत्रान्यादृशमस्ति हि ।अदृष्टकशक्त्या माहात्म्यं मन्त्रत्वादन्यदुर्लभम् ॥८८॥तुल्यरूपेऽपि पुष्पादौ कल्पिते शिल्पकारिभिः ।आविर्भवेत् कथन्नाम सौरभ्यं वास्तवे यथा ॥८९॥अतस्तादृशोत्कृष्टमाहात्म्येन स्तवेन कः ।मन्निबद्धमिमं लोके तुलयेदास्तिको जनः ॥९०॥तथापि श्रीमहाराज्ञीनामावल्यात्मकः स्तवः ।अभीष्टफलदाता स्यात् पठितृणामयं ध्रुवम् ॥९१॥मातस्त्वद्भक्तिनुन्नेन कृतास्तुतिरियं मया ।सावद्यास्त्वनवद्या वा सर्वथा क्षन्तुमर्हसि ॥९२॥अर्पितं तदिदं स्तोत्रं त्वत्पादाम्भोजयोर्मया ।अप्रमेयदयासिन्धो त्वत्प्रसादो भवेन्मयि ॥९३॥जना निन्दन्तु जननि स्तवमेनं स्तुवन्तु वा ।यदि प्रसन्ना भवती कृतार्थस्तावतास्म्यहम् ॥९४॥सत्समाजा स्तोत्रमिदं न निन्देयुः कथञ्चन ।समाजा यदि निन्देयुः किमनेनास्य हीयते ॥९५॥भक्त्या सुदृढया नित्यं ये पठेयुरिमं स्तवम् ।तेषामभीष्टसिद्धिः स्यात् कृपया ते महेश्वरि ॥९६॥पतितोऽस्मि पदाम्भोजे परमेश्वरि तावके ।यथा प्रसीदसि तथा विधेयेस्मिन् विधीयताम् ॥९७॥अवलम्बनमेका त्वं जगदम्ब दृढं मम ।न मुञ्चामि भवत्पादौ सम्पत्स्वपि विपत्स्वपि ॥९८॥त्वामेकामेव सेवेऽहं न परानमरानुमे ।यस्मादनिर्विशेषं रक्षणीयास्त्वयैव ते ॥९९॥अवस्थात्रितयेप्यस्तु भवद्ध्यानं भवानि मे ।अविच्छिन्नं भवेद्येन शिवं मे सर्वमङ्गले ॥१००॥महात्रिपुरसुन्दर्या समेतः स्तोतमम्बया ।महादेवानन्दनाथः किमप्येतद् विनिर्ममे ॥१०१॥इति श्री केरलवर्मणा विरचितं त्रिशत्यन्तरं सम्पूर्णम् । N/A References : N/A Last Updated : January 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP