संस्कृत सूची|संस्कृत स्तोत्र साहित्य|त्रिशती नामावलिः| ध्यानम् - ब्रह्माण्डव्याप... त्रिशती नामावलिः गिरीशं मरकतशृङ्गवासिनं म... नमः शिवाभ्यां सरसोत्सवाभ्... ॐ अस्य श्रीकुमारत्रिशतीमह... श्रीगणेशाय नमः । पूर्वपीठ... प्रचण्डचण्डीत्रिशती अस्य श्रीबालात्रिपुरसुन्द... विहायाद्रिनाथं विभुष्टान्... ध्यानम् - ब्रह्माण्डव्याप... अगस्त्य उवाच -- हयग्रीव द... श्रीमती शर्मदिश्यान्मे गो... सूर्य उवाच --- एकार्णमन्त... ॐ गणेश्वराय नमः । गणक्रीड... श्रीदेव्युवाच - त्रिशतीं ... ॐ सौं शरवणभवः शरच्चन्द्रा... हरिः ॐ । ॐ स्वर्णमहालक्ष्... श्रीरुद्रत्रिशती - ध्यानम् - ब्रह्माण्डव्याप... त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो. Tags : 300त्रिशतीनामावलिः श्रीरुद्रत्रिशती Translation - भाषांतर ध्यानम् -ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैःकण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शाम्भवा मूर्तिभेदाःरुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम्॥नमस्कारः -नमस्तेऽस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः॥॥ ॐ नमो भगवते रुद्राय॥ॐ श्री॒ गु॒रु॒भ्यो नमः॒ । ह॒रिः॒ ॐ ।॥ श्रीरुद्रनाम त्रिशती॥नमो॒ हिर॑ण्यबाहवे॒ नमः॑ । से॒ना॒न्ये॑ नमः॑ ।दि॒शां च॒ पत॑ये॒ नमः॑ । नमो॑ वृ॒क्षेभ्यो॒ नमः॑ ।हरि॑केशेभ्यो॒ नमः॑ । प॒शू॒नां पत॑ये॒ नमः॑ ।नमः॑ स॒स्पिञ्ज॑राय॒ नमः॑ । त्विषी॑मते॒ नमः॑ ।प॒थी॒नां पत॑ये॒ नमः॑ । नमो॑ बभ्लु॒शाय॒ नमः॑ ।वि॒व्या॒धिने॒ नमः॑ । अन्ना॑नां॒ पत॑ये॒ नमः॑ ।नमो॒ हरि॑केशाय॒ नमः॑ । उ॒प॒वी॒तिने॒ नमः॑ ।पु॒ष्टानां॒ पत॑ये नमः॑ । नमो॑ भ॒वस्य॑ हे॒त्यै नमः॑ ।जग॑तां॒ पत॑ये॒ नमः॑ । नमो॑ रु॒द्राय॒ नमः॑ ।आ॒त॒ता॒विने॒ नमः॑ । क्षेत्रा॑णां॒ पत॑ये॒ नमः॑ ।नमः॑ सू॒ताय॒ नमः॑ । अह॑न्त्याय॒ नमः॑ ।वना॑नां॒ पत॑ये॒ नमः॑ । नमो॒ रोहि॑ताय॒ नमः॑ ।स्थ॒पत॑ये नमः॑ । वृ॒क्षाणं॒ पत॑ये॒ नमः॑ ।नमो॑ म॒न्त्रिणे॒ नमः॑ । वा॒णि॒जाय॒ नमः॑ ।कक्षा॑णां॒ पत॑ये नमः॑ । नमो॑ भुव॒न्तये॒ नमः॑ ।वा॒रि॒व॒स्कृ॒ताय॒ नमः॑ । ओष॑धीनां॒ पत॑ये॒ नमः॑ ।नम॑ उ॒च्चैर्घो॑षाय॒ नमः॑ । आ॒क्र॒न्दय॑ते॒ नमः॑ ।प॒त्ती॒नाम् पत॑ये॒ नमः॑ । नमः॑ कृत्स्नवी॒ताय॒ नमः॑ ।धाव॑ते॒ नमः॑ । सत्त्व॑नां॒ पत॑ये॒ नमः॑॥नमः॒ सह॑मानाय॒ नमः॑ । नि॒व्या॒धिने॒ नमः॑ ।आ॒व्या॒धिनी॑नां॒ पत॑ये॒ नमः॑ । नमः॑ ककु॒भाय॒ नमः॑ ।नि॒षं॒गिणे॒ नमः॑ । स्ते॒नानां॒ पत॑ये॒ नमः॑ ।नमो॑ निषंङ्गिणे॒ नमः॑ । इ॒षु॒धि॒मते॒ नमः॑ ।तस्क॑राणां॒ पत॑ये॒ नमः॑ । नमो॒ वञ्च॑ते॒ नमः॑ ।प॒रि॒वञ्च॑ते॒ नमः॑ । स्ता॒यू॒नां पत॑ये॒ नमः॑ ।नमो॑ निचे॒रवे॒ नमः॑ । प॒रि॒च॒राय॒ नमः॑ ।अर॑ण्यानां॒ पत॑ये॒ नमः॑ । नमः॑ सृका॒विभ्यो॒ नमः॑ ।जिघाꣳ॑सद्भ्यो॒ नमः॑ । मु॒ष्ण॒तां पत॑ये॒ नमः॑ ।नमो॑ऽसि॒मद्भ्यो॒ नमः॑ । नक्त॒ञ्चर॑द्भ्यो॒ नमः॑ ।प्र॒कृ॒न्तानां॒ पत॑ये॒ नमः॑ । नम॑ उष्णी॒षिणे॒ नमः॑ ।गि॒रि॒च॒राय॒ नमः॑ । कु॒लुं॒चानां॒ पत॑ये॒ नमः॑ ।नम॒ इषु॑मद्भ्यो॒ नमः॑ । ध॒न्वा॒विभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ ।नम॑ आतन्वा॒नेभ्यो॒ नमः॑। प्र॒ति॒दधा॑नेभ्यश्च नमः॑ । वो॒ नमः॑ ।नम॑ आ॒यच्छ॑द्भ्यो॒ नमः॑ । वि॒सृ॒जद्भ्य॑श्च॒ नमः॑ । वो॒ नमः॑ ।नमोऽस्य॑द्भ्यो॒ नमः॑ । विध्य॑द्भ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नम॒ आसी॑नेभ्यो॒ नमः॑ । शया॑नेभ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नमः॑ स्व॒पद्भ्यो॒ नमः॑ । जाग्र॑द्भ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नम॒स्तिष्ठ॑द्भ्यो॒ नमः॑ । धाव॑द्भ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नम॑स्स॒भाभ्यो॒ नमः॑ । स॒भाप॑तिभ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नमो॒ अश्वे᳚भ्यो॒ नमः॑ । अश्व॑पतिभ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नम॑ आव्य॒धिनी᳚भ्यो॒ नमः॑ । वि॒विध्य॑न्तीभ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नम॒ उग॑णाभ्यो॒ नमः॑ । तृ॒ꣳहतीभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ ।नमो॑ गृ॒त्सेभ्यो॒ नमः॑ । गृ॒त्सप॑तिभ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नमो॒ व्राते᳚भ्यो॒ नमः॑ । व्रात॑पतिभ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नमो॑ ग॒णेभ्यो॒ नमः॑ । ग॒णप॑तिभ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नमो॒ विरू॑पेभ्यो॒ नमः॑ । वि॒श्वरुपेभ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नमो॑ म॒हद्भ्यो॒ नमः॑ । क्षु॒ल्ल॒केभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ ।नमो॑ र॒थिभ्यो॒ नमः॑ । अ॒र॒थेभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ ।नमो॒ रथे᳚भ्यो॒ नमः॑ । रथ॑पतिभ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नम॒स्सेना᳚भ्यो॒ नमः॑ । से॒ना॒निभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ ।नमः॑ क्ष॒त्तृभ्यो॒ नमः॑ । सं॒ग्र॒ही॒तृभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ ।नम॒स्तक्ष॑भ्यो॒ नमः॑ । र॒थ॒का॒रेभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ ।नमः॒ कुला॑लेभ्यो॒ नमः॑ । क॒र्मारे᳚भ्यश्च॒ नमः॑ । वो॒ नमः॑ ।नमः॑ पुं॒जिष्टे᳚भ्यो॒ नमः॑ । नि॒षा॒देभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ ।नम॑ इषु॒कृद्भ्यो॒ नमः॑ । ध॒न्व॒कृद्भ्य॑श्च॒ नमः॑ । वो॒ नमः॑ ।नमो॑ मृग॒युभ्यो॒ नमः॑ । श्व॒निभ्य॑श्च॒ नमः॑ । वो॒ नमः॑ ।नमः॒ श्वभ्यो॒ नमः॑ । श्वप॑तिभ्यश्च॒ नमः॑ । वो॒ नमः॑नमो॑ भ॒वाय॑ च॒ नमः॑ । रु॒द्राय॑ च॒ नमः॑ ।नम॑श्श॒र्वाय॑ च॒ नमः॑ । प॒शु॒पत॑ये च॒ नमः॑ ।नमो॒ नील॑ग्रीवाय च॒ नमः॑ । शि॒ति॒कण्ठा॑य च॒ नमः॑ ।नमः॑ कप॒र्दिने॑ च॒ नमः॑ । व्यु॑प्तकेशाय च॒ नमः॑ ।नम॑स्सहस्रा॒क्षाय॑ च॒ नमः॑ । श॒तध॑न्वने च॒ नमः॑ ।नमो॑ गिरि॒शाय॑ च॒ नमः॑ । शि॒पि॒वि॒ष्टाय॑ च॒ नमः॑ ।नमो॑ मी॒ढुष्ट॑माय च॒ नमः॑ । इषु॑मते च॒ नमः॑ ।नमो᳚ ह्रस्वाय॑ च॒ नमः॑ । वा॒म॒नाय॑ च॒ नमः॑ ।नमो॑ बृह॒ते च॒ नमः॑ । वर्षी॑यसे च॒ नमः॑ ।नमो॑ वृ॒द्धाय॑ च॒ नमः॑ । सं॒वृध्व॑ने च॒ नमः॑ ।नमो॒ अग्रि॑याय च॒ नमः॑ । प्र॒थ॒माय॑ च॒ नमः॑ ।नम॑ आ॒शवे॑ च॒ नमः॑ । अ॒जि॒राय॑ च॒ नमः॑ ।नमः॒ शीघ्रि॑याय च॒ नमः॑ । शीभ्या॑य च॒ नमः॑ ।नम॑ ऊ॒र्म्या॑य च॒ नमः॑ । अ॒व॒स्व॒न्या॑य च॒ नमः॑ ।नमः॑ स्त्रोत॒स्या॑य च॒ नमः॑ । द्वीप्या॑य च॒ नमः॑ ।नमो᳚ ज्ये॒ष्ठाय॑ च॒ नमः॑ । क॒नि॒ष्ठाय॑ च॒ नमः॑ ।नमः॑ पूर्व॒जाय॑ च॒ नमः॑ । अ॒प॒र॒जाय॑ च॒ नमः॑ ।नमो॑ मध्य॒माय॑ च॒ नमः॑ । अ॒प॒ग॒ल्भाय॑ च॒ नमः॑ ।नमो॑ जघ॒न्या॑य च॒ नमः॑ । बुध्नि॑याय च॒ नमः॑ ।नमः॑ सो॒भ्या॑य च॒ नमः॑ । प्र॒ति॒स॒र्या॑य च॒ नमः॑ ।नमो॒ याम्या॑य च॒ नमः॑ । क्षेम्या॑य च॒ नमः॑ ।नम॑ उर्व॒र्या॑य च॒ नमः॑ । खल्या॑य च॒ नमः॑ ।नमः॒ श्लोक्या॑य च॒ नमः॑ । अ॒व॒सा॒न्या॑य च॒ नमः॑ ।नमो॒ वन्या॑य च॒ नमः॑ । कक्ष्या॑य च॒ नमः॑ ।नमः॑ श्र॒वाय॑ च॒ नमः॑ । प्र॒ति॒श्र॒वाय॑ च॒ नमः॑ ।नम॑ आ॒शुषे॑णाय च॒ नमः॑ । आ॒शुर॑थाय च॒ नमः॑ ।नमः॒ शूरा॑य च॒ नमः॑ । अ॒व॒भि॒न्द॒ते च॒ नमः॑ ।नमो॑ व॒र्मिणे॑ च॒ नमः॑ । व॒रू॒थिने॑ च॒ नमः॑ ।नमो॑ बि॒ल्मिने॑ च॒ नमः॑ । क॒व॒चिने॑ च॒ नमः॑ ।नम॑श्श्रु॒ताय॑ च॒ नमः॑ । श्रु॒त॒से॒नाय॑ च॒ नमः॑ ।नमो॑ दुन्दु॒भ्या॑य च॒ नमः॑ । आ॒ह॒न॒न्या॑य च॒ नमः॑ ।नमो॑ धृ॒ष्णवे॑ च॒ नमः॑ । प्र॒मृ॒शाय॑ च॒ नमः॑ ।नमो॑ दू॒ताय॑ च॒ नमः॑ । प्रहि॑ताय च॒ नमः॑ ।नमो॑ निष॒ङ्गिणे॑ च॒ नमः॑ । इ॒षु॒धि॒मते॑ च॒ नमः॑ ।नम॑स्ती॒क्ष्णेष॑वे च॒ नमः॑ । आ॒यु॒धिने॑ च॒ नमः॑ ।नमः॑ स्वायु॒धाय॑ च॒ नमः॑ । सु॒धन्व॑ने च॒ नमः॑ ।नमः॒ स्रुत्या॑य च॒ नमः॑ । पथ्या॑य च॒ नमः॑ ।नमः॑ का॒ट्या॑य च॒ नमः॑ । नी॒प्या॑य च॒ नमः॑ ।नम॒स्सूद्या॑य च॒ नमः॑ । स॒र॒स्या॑य च॒ नमः॑ ।नमो॑ ना॒द्याय॑ च॒ नमः॑ । वै॒श॒न्ताय॑ च॒ नमः॑ ।नमः॒ कूप्या॑य च॒ नमः॑ । अ॒व॒ट्या॑य च॒ नमः॑ ।नमो॒ वर्ष्या॑य च॒ नमः॑ । अ॒व॒र्ष्याय॑ च॒ नमः॑ ।नमो॑ मे॒घ्या॑य च॒ नमः॑ । वि॒द्यु॒त्या॑य च॒ नमः॑ ।नम॑ ई॒ध्रिया॑य च॒ नमः॑ । आ॒त॒प्या॑य च॒ नमः॑ ।नमो॒ वात्या॑य च॒ नमः॑ । रेष्मि॑याय च॒ नमः॑ ।नमो॑ वास्त॒व्या॑य च॒ नमः॑ । वास्तु॒पाय॑ च॒ नमः॑ ।नम॒स्सोमा॑य च॒ नमः॑ । रु॒द्राय॑ च॒ नमः॑ ।नम॑स्ता॒म्राय॑ च॒ नमः॑ । अ॒रु॒णाय॑ च॒ नमः॑ ।नमः॑ श॒ङ्गाय॑ च॒ नमः॑ । प॒शु॒पत॑ये च॒ नमः॑ ।नम॑ उ॒ग्राय॑ च॒ नमः॑ । भी॒माय॑ च॒ नमः॑ ।नमो॑ अग्रेव॒धाय॑ च॒ नमः॑ । दू॒रे॒व॒धाय॑ च॒ नमः॑ ।नमो॑ ह॒न्त्रे च॒ नमः॑ । हनी॑यसे च॒ नमः॑ ।नमो॑ वृ॒क्षेभ्यो॒ नमः॑ । हरि॑केशेभ्यो॒ नमः॑ ।नम॑स्ता॒राय॒ नमः॑ । नम॑श्शं॒भवे॑ च॒ नमः॑ ।म॒यो॒भवे॑ च॒ नमः॑ । नम॑श्शंक॒राय॑ च॒ नमः॑ ।म॒य॒स्क॒राय॑ च॒ नमः॑ । नमः॑ शि॒वाय॑ च॒ नमः॑ ।शि॒वत॑राय च॒ नमः॑ । नम॒स्तीर्थ्या॑य च॒ नमः॑ ।कूल्या॑य च॒ नमः॑ । नमः॑ पा॒र्या॑य च॒ नमः॑ ।अ॒वा॒र्या॑य च॒ नमः॑ । नमः॑ प्र॒तर॑णाय च॒ नमः॑ ।उ॒त्तर॑णाय च॒ नमः॑ । नम॑ आता॒र्या॑य च॒ नमः॑ ।आ॒ला॒द्या॑य च॒ नमः॑ । नमः॒ शष्प्या॑य च॒ नमः॑ ।फेन्या॑य च॒ नमः॑ । नमः॑ सिक॒त्या॑य च॒ नमः॑ ।प्र॒वा॒ह्या॑य च॒ नमः॑ ।नमः॑ इरि॒ण्या॑य च॒ नमः॑ । प्र॒प॒थ्या॑य च॒ नमः॑ ।नमः॑ किꣳशि॒लाय॑ च॒ नमः॑ । क्षय॑णाय च॒ नमः॑ ।नमः॑ कप॒र्दिने॑ च॒ नमः॑ । पु॒ल॒स्तये॑ च॒ नमः॑ ।नमो॒ गोष्ठ्या॑य च॒ नमः॑ । गृह्या॑य च॒ नमः॑ ।नम॒स्तल्प्या॑य च॒ नमः॑ । गेह्या॑य च॒ नमः॑ ।नमः॑ का॒ट्या॑य च॒ नमः॑ । ग॒ह्व॒रे॒ष्ठाय॑ च॒ नमः॑ ।नमो᳚ ह्रद॒य्या॑य च॒ नमः॑ । नि॒वे॒ष्प्या॑य च॒ नमः॑ ।नमः॑ पाꣳस॒व्या॑य च॒ नमः॑ । र॒ज॒स्या॑य च॒ नमः॑ ।नमः॒ शुष्क्या॑य च॒ नमः॑ । ह॒रि॒त्या॑य च॒ नमः॑ ।नमो॒ लोप्या॑य च॒ नमः॑ । उ॒ल॒प्या॑य च॒ नमः॑ ।नम॑ ऊ॒र्व्या॑य च॒ नमः॑ । सू॒र्म्या॑य च॒ नमः॑ ।नमः॑ प॒र्ण्या॑य च॒ नमः॑ । प॒र्ण॒श॒द्या॑य च॒ नमः॑ ।नमो॑पगु॒रमा॑णाय च॒ नमः॑ । अ॒भि॒घ्न॒ते च॒ नमः॑ ।नम॑ आक्खिद॒ते च॒ नमः॑ । प्र॒क्खि॒द॒ते च॒ नमः॑ । वो॒ नमः॑ ।कि॒रि॒केभ्यो॒ नमः॑ । दे॒वाना॒ꣳ॒ हृद॑येभ्यो॒ नमः॑ ।नमो॑ विक्षीण॒केभ्यो॒ नमः॑ । नमो॑ विचिन्व॒त्केभ्यो॒ नमः॑ ।नम॑ आनिर्ह॒तेभ्यो॒ नमः॑ । नम॑ आमीव॒त्केभ्यो॒ नमः॑ ।॥ ॐ नमो भगवते रुद्राय॥क्षमापनम् -करचरणकृतं वाक्कायजं कर्मजं वा ।श्रवणनयनजं वा मानसं वापराधम् ।विहितमविहितं वा सर्वमेतत्क्षमस्व ।जय जय करुणाब्धे श्रीमहादेवशम्भो॥cहप्तेर्ध्यानम् -ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैःकण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शाम्भवा मूर्तिभेदाःरुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम्॥नमस्कारः -नमस्तेऽस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकायत्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वरायसदाशिवाय श्रीमन्महादेवाय नमः॥॥ ॐ नमो भगवते रुद्राय॥ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।॥ श्रीरुद्रनाम त्रिशती॥नमो हिरण्यबाहवे नमः । सेनान्ये नमः ।दिशां च पतये नमः । नमो वृक्षेभ्यो नमः ।हरिकेशेभ्यो नमः । पशूनां पतये नमः ।नमः सस्पिञ्जराय नमः । त्विषीमते नमः ।पथीनां पतये नमः । नमो बभ्लुशाय नमः ।विव्याधिने नमः । अन्नानां पतये नमः ।नमो हरिकेशाय नमः । उपवीतिने नमः ।पुष्टानां पतये नमः । नमो भवस्य हेत्यै नमः ।जगतां पतये नमः । नमो रुद्राय नमः ।आतताविने नमः । क्षेत्राणां पतये नमः ।नमः सूताय नमः । अहन्त्याय नमः ।वनानां पतये नमः । नमो रोहिताय नमः ।स्थपतये नमः । वृक्षाणं पतये नमः ।नमो मन्त्रिणे नमः । वाणिजाय नमः ।कक्षाणां पतये नमः । नमो भुवन्तये नमः ।वारिवस्कृताय नमः । ओषधीनां पतये नमः ।नम उच्चैर्घोषाय नमः । आक्रन्दयते नमः ।पत्तीनाम् पतये नमः । नमः कृत्स्नवीताय नमः ।धावते नमः । सत्त्वनां पतये नमः॥नमः सहमानाय नमः । निव्याधिने नमः ।आव्याधिनीनां पतये नमः । नमः ककुभाय नमः ।निषङ्गिणे नमः । स्तेनानां पतये नमः ।नमो निषंङ्गिणे नमः । इषुधिमते नमः ।तस्कराणां पतये नमः । नमो वञ्चते नमः ।परिवञ्चते नमः । स्तायूनां पतये नमः ।नमो निचेरवे नमः । परिचराय नमः ।अरण्यानां पतये नमः । नमः सृकाविभ्यो नमः ।जिघाꣳसद्भ्यो नमः । मुष्णतां पतये नमः ।नमोऽसिमद्भ्यो नमः । नक्तञ्चरद्भ्यो नमः ।प्रकृन्तानां पतये नमः । नम उष्णीषिणे नमः ।गिरिचराय नमः । कुलुञ्चानां पतये नमः ।नम इषुमद्भ्यो नमः । धन्वाविभ्यश्च नमः । वो नमः ।नम आतन्वानेभ्यो नमः। प्रतिदधानेभ्यश्च नमः । वो नमः ।नम आयच्छद्भ्यो नमः । विसृजद्भ्यश्च नमः । वो नमः ।नमोऽस्यद्भ्यो नमः । विध्यद्भ्यश्च नमः । वो नमः ।नम आसीनेभ्यो नमः । शयानेभ्यश्च नमः । वो नमः ।नमः स्वपद्भ्यो नमः । जाग्रद्भ्यश्च नमः । वो नमः ।नमस्तिष्ठद्भ्यो नमः । धावद्भ्यश्च नमः । वो नमः ।नमस्सभाभ्यो नमः । सभापतिभ्यश्च नमः । वो नमः ।नमो अश्वे᳚भ्यो नमः । अश्वपतिभ्यश्च नमः । वो नमः ।नम आव्यधिनी᳚भ्यो नमः । विविध्यन्तीभ्यश्च नमः । वो नमः ।नम उगणाभ्यो नमः । तृꣳहतीभ्यश्च नमः । वो नमः ।नमो गृत्सेभ्यो नमः । गृत्सपतिभ्यश्च नमः । वो नमः ।नमो व्राते᳚भ्यो नमः । व्रातपतिभ्यश्च नमः । वो नमः ।नमो गणेभ्यो नमः । गणपतिभ्यश्च नमः । वो नमः ।नमो विरूपेभ्यो नमः । विश्वरुपेभ्यश्च नमः । वो नमः ।नमो महद्भ्यो नमः । क्षुल्लकेभ्यश्च नमः । वो नमः ।नमो रथिभ्यो नमः । अरथेभ्यश्च नमः । वो नमः ।नमो रथे᳚भ्यो नमः । रथपतिभ्यश्च नमः । वो नमः ।नमस्सेना᳚भ्यो नमः । सेनानिभ्यश्च नमः । वो नमः ।नमः क्षत्तृभ्यो नमः । सङ्ग्रहीतृभ्यश्च नमः । वो नमः ।नमस्तक्षभ्यो नमः । रथकारेभ्यश्च नमः । वो नमः ।नमः कुलालेभ्यो नमः । कर्मारे᳚भ्यश्च नमः । वो नमः ।नमः पुंजिष्टे᳚भ्यो नमः । निषादेभ्यश्च नमः । वो नमः ।नम इषुकृद्भ्यो नमः । धन्वकृद्भ्यश्च नमः । वो नमः ।नमो मृगयुभ्यो नमः । श्वनिभ्यश्च नमः । वो नमः ।नमः श्वभ्यो नमः । श्वपतिभ्यश्च नमः । वो नमःनमो भवाय च नमः । रुद्राय च नमः ।नमश्शर्वाय च नमः । पशुपतये च नमः ।नमो नीलग्रीवाय च नमः । शितिकण्ठाय च नमः ।नमः कपर्दिने च नमः । व्युप्तकेशाय च नमः ।नमस्सहस्राक्षाय च नमः । शतधन्वने च नमः ।नमो गिरिशाय च नमः । शिपिविष्टाय च नमः ।नमो मीढुष्टमाय च नमः । इषुमते च नमः ।नमो᳚ ह्रस्वाय च नमः । वामनाय च नमः ।नमो बृहते च नमः । वर्षीयसे च नमः ।नमो वृद्धाय च नमः । संवृध्वने च नमः ।नमो अग्रियाय च नमः । प्रथमाय च नमः ।नम आशवे च नमः । अजिराय च नमः ।नमः शीघ्रियाय च नमः । शीभ्याय च नमः ।नम ऊर्म्याय च नमः । अवस्वन्याय च नमः ।नमः स्त्रोतस्याय च नमः । द्वीप्याय च नमः ।नमो᳚ ज्येष्ठाय च नमः । कनिष्ठाय च नमः ।नमः पूर्वजाय च नमः । अपरजाय च नमः ।नमो मध्यमाय च नमः । अपगल्भाय च नमः ।नमो जघन्याय च नमः । बुध्नियाय च नमः ।नमः सोभ्याय च नमः । प्रतिसर्याय च नमः ।नमो याम्याय च नमः । क्षेम्याय च नमः ।नम उर्वर्याय च नमः । खल्याय च नमः ।नमः श्लोक्याय च नमः । अवसान्याय च नमः ।नमो वन्याय च नमः । कक्ष्याय च नमः ।नमः श्रवाय च नमः । प्रतिश्रवाय च नमः ।नम आशुषेणाय च नमः । आशुरथाय च नमः ।नमः शूराय च नमः । अवभिन्दते च नमः ।नमो वर्मिणे च नमः । वरूथिने च नमः ।नमो बिल्मिने च नमः । कवचिने च नमः ।नमश्श्रुताय च नमः । श्रुतसेनाय च नमः ।नमो दुन्दुभ्याय च नमः । आहनन्याय च नमः ।नमो धृष्णवे च नमः । प्रमृशाय च नमः ।नमो दूताय च नमः । प्रहिताय च नमः ।नमो निषङ्गिणे च नमः । इषुधिमते च नमः ।नमस्तीक्ष्णेषवे च नमः । आयुधिने च नमः ।नमः स्वायुधाय च नमः । सुधन्वने च नमः ।नमः स्रुत्याय च नमः । पथ्याय च नमः ।नमः काट्याय च नमः । नीप्याय च नमः ।नमस्सूद्याय च नमः । सरस्याय च नमः ।नमो नाद्याय च नमः । वैशन्ताय च नमः ।नमः कूप्याय च नमः । अवट्याय च नमः ।नमो वर्ष्याय च नमः । अवर्ष्याय च नमः ।नमो मेघ्याय च नमः । विद्युत्याय च नमः ।नम ईध्रियाय च नमः । आतप्याय च नमः ।नमो वात्याय च नमः । रेष्मियाय च नमः ।नमो वास्तव्याय च नमः । वास्तुपाय च नमः ।नमस्सोमाय च नमः । रुद्राय च नमः ।नमस्ताम्राय च नमः । अरुणाय च नमः ।नमः शङ्गाय च नमः । पशुपतये च नमः ।नम उग्राय च नमः । भीमाय च नमः ।नमो अग्रेवधाय च नमः । दूरेवधाय च नमः ।नमो हन्त्रे च नमः । हनीयसे च नमः ।नमो वृक्षेभ्यो नमः । हरिकेशेभ्यो नमः ।नमस्ताराय नमः । नमश्शम्भवे च नमः ।मयोभवे च नमः । नमश्शंकराय च नमः ।मयस्कराय च नमः । नमः शिवाय च नमः ।शिवतराय च नमः । नमस्तीर्थ्याय च नमः ।कूल्याय च नमः । नमः पार्याय च नमः ।अवार्याय च नमः । नमः प्रतरणाय च नमः ।उत्तरणाय च नमः । नम आतार्याय च नमः ।आलाद्याय च नमः । नमः शष्प्याय च नमः ।फेन्याय च नमः । नमः सिकत्याय च नमः ।प्रवाह्याय च नमः ।नमः इरिण्याय च नमः । प्रपथ्याय च नमः ।नमः किꣳशिलाय च नमः । क्षयणाय च नमः ।नमः कपर्दिने च नमः । पुलस्तये च नमः ।नमो गोष्ठ्याय च नमः । गृह्याय च नमः ।नमस्तल्प्याय च नमः । गेह्याय च नमः ।नमः काट्याय च नमः । गह्वरेष्ठाय च नमः ।नमो᳚ ह्रदय्याय च नमः । निवेष्प्याय च नमः ।नमः पाꣳसव्याय च नमः । रजस्याय च नमः ।नमः शुष्क्याय च नमः । हरित्याय च नमः ।नमो लोप्याय च नमः । उलप्याय च नमः ।नम ऊर्व्याय च नमः । सूर्म्याय च नमः ।नमः पर्ण्याय च नमः । पर्णशद्याय च नमः ।नमोपगुरमाणाय च नमः । अभिघ्नते च नमः ।नम आक्खिदते च नमः । प्रक्खिदते च नमः । वो नमः ।किरिकेभ्यो नमः । देवानाꣳहृदयेभ्यो नमः ।नमो विक्षीणकेभ्यो नमः । नमो विचिन्वत्केभ्यो नमः ।नम आनिर्हतेभ्यो नमः । नम आमीवत्केभ्यो नमः ।॥ ॐ नमो भगवते रुद्राय॥क्षमापनम् -करचरणकृतं वाक्कायजं कर्मजं वा ।श्रवणनयनजं वा मानसं वापराधम् ।विहितमविहितं वा सर्वमेतत्क्षमस्व ।जय जय करुणाब्धे श्रीमहादेवशम्भो॥ N/A References : N/A Last Updated : January 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP