वैनायक त्रिशती - सूर्य उवाच --- एकार्णमन्त...
त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो.
सूर्य उवाच ---
एकार्णमन्त्रवत्सर्वं ऋष्यादिकमुदीरितम् ।
छन्दोऽनुष्टुप् कीर्तितं च स्वानन्देशस्तु देवता ॥१॥
गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
गजाननो गणपतिर्नित्यानित्यो निरामयः ॥२॥
निर्मलो निष्कलो नित्यो नादमध्ये प्रतिष्ठितः ।
निधिर्निधिप्रियपतिर्नादातीतो निधिप्रदः ॥३॥
नदीनदभुजो नादजनको विघ्ननायकः ।
विनायको विरूपाक्षो वरदो विश्वपालकः ॥४॥
विघ्नकृन्निघ्नचरणो गजदन्तो गजध्वनिः ।
गणराजो गणश्रीदो गणपूज्यो गणेष्टदः ॥५॥
नागाननो निम्ननाभिर्नित्यानन्दो निरङ्कुशः ।
नलिनीकामुको नित्यं नित्यानित्यावतंसितः ॥६॥
पूर्णानन्दः परन्धाम परमात्मा परात्परः ।
परं पदं पशुपतिस्तत्त्वं पदनिरूपितः ॥७॥
तत्त्वानां परमं तत्त्वं तारकस्तारकान्तकः ।
तारकान्तरसंस्थानस्तारकान्तकपूर्वजः ॥८॥
हिरण्मयपुरान्तस्थो हृदयालाननिश्चलः ।
हृत्पद्मकर्णिकाशालिवियत्केलिसरोवरः ॥९॥
हेरम्बो हवनो हव्यो विधाता विश्वतोमुखः ।
विकर्ता विश्वतश्चक्षुर्वन्द्यो वेदान्तगोचरः ॥१०॥
मदोत्कटो मयूरेशो मोहिनीशो महाबलः ।
महागणपतिर्मेघनादो हृत्पद्मसंस्थितः ॥११॥
हंसो हस्तिपिशाचीशो हृल्लेखामन्त्रमध्यगः ।
हर्षो हव्यकव्यभुक्च कपर्दी कलभाननः ॥१२॥
कर्मसाक्षी कर्मकर्ता कल्पः कर्माग्रपूजितः ।
वक्रतुण्डो विघ्नराजो विद्यादो विजयस्थिरः ॥१३॥
विश्वकर्ता विश्वमुखः कामदाता कटङ्कटः ।
कल्पकः कुमारगुरुः किरीटी कुलपालनः ॥१४॥
वैमुख्यहतदैत्यश्रीर्वराहरदनो वशी ।
वागीश्वरीपतिर्वाचा सिद्धो वायुसुकीलकः ॥१५॥
नन्दिप्रियो नगसुतानन्दनो निजसंस्थितः ।
नष्टद्रव्यप्रदो नादो नारायणसुपूजितः ॥१६॥
उच्छिष्टगण उच्छिष्टः उच्छिष्टगणनायकः ।
उपेन्द्र उडुभृन्मौलिरुदारत्रिदशग्रणीः ॥१७॥
पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः ।
प्रत्यूहाज्ञानविज्ञानः प्रत्यूहहिमहव्यभुक् ॥१८॥
प्रत्यूहाम्भोधिकालाग्निः प्रत्यूहगरलामृतः ।
मृत्युञ्जयो मुक्तिदाता महानादो मदोत्कटः ॥१९॥
मदनावत्याश्रिताङ्घ्रिर्मुद्गरायुधधारकः ।
शाकलश्शम्भुतनयः शक्तिजश्शम्भुहास्यभूः ॥२०॥
शिवासुखावहश्शम्भुतेजोभूश्शम्भुकोपहा ।
वाणीजिह्वो व्योमनाभिः वाग्मी वासवनासिकः ॥२१॥
वैनायकीसहचरो विधृतालिसमूहकः ।
स्तवस्स्तुतिपरस्स्तव्यस्स्तुतितुष्टस्स्तुतिप्रियः ॥२२॥
महालक्ष्मीप्रियतमो मातुलिङ्गधरो महान् ।
मदनावत्याश्रिताङ्घ्रिर्महाबुद्धिमनोरमः ॥२३॥
मोहिनीमोहनो ज्येष्ठो ज्येष्ठराजो जगन्मयः ।
ज्येष्ठपूजितो ज्येष्ठेशो ज्येष्ठराजपदे स्थितः ॥२४॥
षडक्षरष्षडाधारष्षट्चक्रोपरि संस्थितः ।
षडृतुकुसुमस्रग्वी षण्मुखष्षण्मुखाग्रजः ॥२५॥
रौद्रीमुद्रितपादाब्जो रुष्टचित्तप्रसादनः ।
रुद्रप्रियो रुद्रपत्नीपुत्रो रुद्रशिरोधरः ॥२६॥
रत्नमण्डपमध्यस्थो जपपूजनतोषितः ।
जप्यो जपो जपपरो जिह्वासिंहासनप्रभुः ॥२७॥
जितेन्द्रियेष्टसन्दाता ब्रह्मेशो ब्रह्मणस्पतिः ।
ब्रह्माण्डकुम्भो ब्रह्मस्थो ब्रह्मचारी बृहस्पतिः ॥२८॥
हंसो हरो हस्तिपतिः हर्षदो हव्यकव्यभुक् ।
हादिविद्याशक्तिपतिर्हृल्लेखामन्त्रमध्यगः ॥२९॥
नामपारायणप्रीतो नामनिष्ठवरप्रदः ।
नार्मदार्चनसन्तुष्टो नागेन्द्रतनयो नटः ॥३०॥
निजानन्दसन्निषण्णो बालकेलिकुतूहली ।
ब्रह्ममूर्द्धा ब्रह्ममुखो ब्रह्माण्डावलिमेखलः ॥३१॥
बृहदारण्यसंवेद्यो ब्रह्मणां ब्रह्मणस्पतिः ।
मयूरनायको मायापतिर्मूषकवाहनः ॥३२॥
मन्दारपूजनप्रीतो मन्दारकुसुमप्रियः ।
मन्दारमूलसञ्जातो नागभूषणभूषितः ॥३३॥
नागहारकटीसूत्रो नागयज्ञोपवीतवान् ।
नागराजयोगदाता नागकन्यासुशान्तिदः ॥३४॥
नारायणार्चितपदः संयोगानन्दविग्रहः ।
सृष्टिस्थितिलयक्रीडस्सर्वभेषजभेषजम् ॥३५॥
सिन्दूरितमहाकुम्भस्सामगानरतस्सुखी ।
तत्पदस्तत्पदाराध्यस्तत्पदार्थस्वरूपवान् ॥३६॥
तत्त्वमस्याकृतिधरस्तत्त्वमस्यर्थविग्रहः ।
तत्त्वमस्यर्थसंवेद्यो ह्यानन्दमूर्तिधारकः ॥३७॥
आधारपीठ आमोद आश्रिताभीष्टदायकः ।
आदिमध्यान्तरहितः आखुराजमहारथः ॥३८॥
निजभक्तप्रियतमो नरनारायणार्चितः ।
नारायणश्री पूर्वाङ्गो नटराजसुपूजितः ॥३९॥
निरालम्बयोगगम्यो निदिध्यासवरप्रियः ।
श्रीङ्कारशक्तिसंयुक्तः श्रीपतिर्श्रीनिकेतनः ॥४०॥
श्रीङ्कारविग्रहश्श्रीदश्श्रीसिद्धिबुद्धिविनायकः ।
विराड् विश्वो वेदपतिर्वेदकर्ता विराट् सुतः ॥४१॥
विराट्पतिरूर्ध्वलोकगत ऊर्ध्वविनायकः ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥४२॥
ऊनषोडशवर्षाढ्यस्तिर्यग्गतिविनाशकः ।
तिथिमात्रसुसम्पूज्यस्स्थितिमात्रवरप्रदः ॥४३॥
तत्त्वेष्टदस्तत्त्वपतिस्तत्त्वातत्त्वविवेकदः ।
भीमरूपो भूतपतिर्भूपतिर्भुवनेश्वरः ॥४४॥
भ्रूक्षेपदत्तलक्ष्मीको भूतिदस्सोमभूषणः ।
स्वतन्त्रस्सत्यसङ्कल्पस्सत्यसङ्कल्पदायकः ॥४५॥
स्वसंवेद्यश्च सर्वज्ञो दण्डभृद्दण्डनायकः ।
दक्षयज्ञप्रमथनो दयावान् दैत्यमोहनः ॥४६॥
दिव्यवैभवसन्दाताऽसुरकुञ्जरभेदनः ।
साक्षी समुद्रमथनस्सदसद्व्यक्तिदायकः ॥४७॥
स्वसंवेद्यासम्प्रज्ञातयोगगम्यस्वदक्षिणः ।
दन्तप्रभिन्नाभ्रमालो देवार्थनृगजाकृतिः ॥४८॥
दंष्ट्रालग्नद्विपघटो दैत्यवारणदारणः ।
दुरासदगर्वहरो दिवोदासवरप्रदः ॥४९॥
नेतिकर्ता नेतिपदो नेतिब्रह्मवरप्रदः ।
नेतिस्वानन्दपददो नेतिशक्तिसमन्वितः ॥५०॥
नेत्यसम्प्रज्ञातमययोगलभ्यसुविग्रहः ।
ओङ्कारशक्तिसहितः ओङ्कारमुखराजितः ॥५१॥
ओङ्कारवाच्य ओङ्कार ओङ्कारपूर्णविग्रहः ।
ओङ्कारमयविश्वात्मा गङ्कारमन्त्रविग्रहः ॥५२॥
गङ्कारजपसन्तुष्टो गङ्कारभूमरूपवान् ।
गङ्कारो गम्मन्त्रवेद्यो गम्ब्रह्मस्थितिदायकः ॥५३॥
इदं वैनायकं नाम्नां त्रिशति श्रुतिकीर्तितम् ।
ऋङ्मन्न्त्रसम्भवं वेदसारं गणककीर्तितम् ॥५४॥
इदं ब्राह्मे मुहूर्ते वा जपान्ते देवसन्निधौ ।
प्रातर्मध्यन्दिने सायं पूजान्ते वाऽथ यः पठेत् ॥५५॥
धनधान्यं पशून् पुत्रान् रूपं विद्यां बलं श्रियम् ।
आरोग्यं धर्ममर्थं च कामं मोक्षमवाप्नुयात् ॥५६॥
अयुतावर्तनादस्य भवेत्सिद्धिर्निरन्तरम् ।
एकाक्षरं समुच्चार्य चतुर्थ्यन्तं तु नाम वै ॥५७॥
स्वाहापदं समुच्चार्य होमः कार्यो विधानतः ।
द्वितीयान्तं तर्पणं तु तर्पयामीति शब्दतः ॥५८॥
तथैव मार्जनं कार्यं मार्जयामीति तत्परम् ।
पुरश्श्चर्यां नरः कृत्वा भुक्तिं मुक्तिमवाप्नुयात् ॥५९॥
(विनायकरहस्ये)
इति विनायकरहस्ये ग्रन्थे ज्ञानसारं प्रथमभागे
नारदादि मुनीनां सूर्यभगवता प्रोक्ता
त्रयोदशाध्यायान्तर्गता वैनायक त्रिशति समाप्ता ।
N/A
References : N/A
Last Updated : January 20, 2026

TOP