संस्कृत सूची|संस्कृत स्तोत्र साहित्य|त्रिशती नामावलिः| श्रीगणेशाय नमः । पूर्वपीठ... त्रिशती नामावलिः गिरीशं मरकतशृङ्गवासिनं म... नमः शिवाभ्यां सरसोत्सवाभ्... ॐ अस्य श्रीकुमारत्रिशतीमह... श्रीगणेशाय नमः । पूर्वपीठ... प्रचण्डचण्डीत्रिशती अस्य श्रीबालात्रिपुरसुन्द... विहायाद्रिनाथं विभुष्टान्... ध्यानम् - ब्रह्माण्डव्याप... अगस्त्य उवाच -- हयग्रीव द... श्रीमती शर्मदिश्यान्मे गो... सूर्य उवाच --- एकार्णमन्त... ॐ गणेश्वराय नमः । गणक्रीड... श्रीदेव्युवाच - त्रिशतीं ... ॐ सौं शरवणभवः शरच्चन्द्रा... हरिः ॐ । ॐ स्वर्णमहालक्ष्... श्रीचिदम्बर त्रिशती नामावलिः - श्रीगणेशाय नमः । पूर्वपीठ... त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो. Tags : 300त्रिशतीनामावलिः श्रीचिदम्बर पञ्चाक्षरी त्रिशती स्तोत्रनामावलिः Translation - भाषांतर श्रीगणेशाय नमः ।पूर्वपीठिका ।शौनकाद्याः-स्वामिन् सूत महाप्राज्ञ चिदम्बरसभापतेः ।नाम्नां शतत्रयं स्तोत्रं मन्त्रपञ्चाक्षरात्मकम् ॥१॥अस्तीति सूचितं पूर्वं तथा नोक्तं तदद्य तु ।कृपया ब्रूहि भगवन्नस्माकं सर्वसिद्धये ॥२॥इत्युक्तस्स च तान् प्राह सूतः पौराणिकोत्तमः ।श्री सूतः-यूयं महाभाग्यवन्तः शृणुध्वं मुनिपुङ्गवाः ॥३॥पुरा कल्पे भगवता शिवेन हरये तथा ।गौर्यै प्राक्तं महामन्त्रमयं नाम शतत्रयम् ॥४॥स्तोत्रं सर्वार्थदं यस्मिन् कल्पे योग बलेन तु ।पाराशर्येण गुरुणा ज्ञात्वा जातु प्रमोदतः ॥५॥रहस्ये मां समाहूयाप्युपदिष्टं तदद्य तु ।वक्ष्यामि शृणु विप्रेन्द्राः सावधानेन चेतसा ॥६॥आदावन्ते समाप्ते च सर्वेषां कर्मणां द्विजाः ।सकृत्स्मरणमात्रेण न्यूनाधिकविगर्हणम् ॥७॥न भवेच्च तथा तस्मात् जप्तव्यं सर्वदा नृभिः ।धान्त भान्तौ च लान्तश्च सदीर्घो वान्त इत्यपि ॥८॥तृतीय स्वरयुग्वायुः पञ्चवर्णश्चिदम्बरः ।पश्चपश्चार्णषष्ठया तु शतत्रयमुदाहृतम् ॥९॥शुचिर्वाप्यशुचिर्वापि सर्वदा प्रजपेदिदम्॥अथ श्रीचिदम्बर त्रिशती नामावलिः ।ॐ शिवमयम् ।आदौ श्रीचिदम्बरपञ्चाक्षरवत् अङ्गन्यासादिकं कृत्वा-प्रथमतः-श्रीसदाशिवस्य पूर्ववक्त्रोद्भवं- गौतमार्षं- गायत्री च्छन्दस्कं-इन्द्र देवताकं- पीतवर्णं- बिन्दुनादविभूषितं-श्रीचिदम्बरपञ्चाक्षरीविद्या प्रथमावयवं- उदात्तस्वरोपेतं-आदिमं-``न''कारं ध्यात्वा-॥ ॐ नं॥ॐ नटेशाय नमः । नगजा जानये । नटनानन्दसुन्दराय ।नम्रदिक्पालनिकराय । नमदानन्ददायकाय । नारायणार्चिताय ।नारीभागाय । नादान्तपूजिताय । नामहीनाय । नाशहीनाय ।नानारसमनोहराय । नागभूषाय । नागपूज्याय । नागराजे ।नन्दिवाहनाय । नदीजटाय । नगारूढाय । नरनारायणस्तुताय ।नरास्त्रदात्रे । नामाङ्कहीनाय नमः । २०ॐ नारीमनोहराय नमः । नित्यशुद्धाय । नित्यबुद्धाय । नित्यमुक्ताय ।निरञ्जनाय । निस्सङ्गाय । निरहङ्काराय । नीरूपाय । निरूपाधिकाय ।नीपवाटीगताय । नीपसुममुदे । नीपसन्निभाय । नीहारांशु नुताय ।नीप्याय । नीहारागभवापतये । नुत्याय । नुतिप्रियाय । नूत्नाय ।नूपुरारावमञ्जुलाय । नखच्छिन्नात्मभूशीर्षाय नमः । ४०ॐ नखच्छिन्ननृकेसरिणे नमः । नखांशुजितशीतांशवे ।नागराजविभूषणाय । नामपारायणप्रियाय । नासामध्यविलोकनाय ।नन्दिवेद्याय । नटाकाराय । नग्नाय । नारदपूजिताय । नित्याय ।निगमसंवेद्याय । निस्पृहाय । निगमाकृतये । निश्चलाय ।निगमानन्दाय । नृत्तराजे । नृत्तसुन्दराय । नाटकीकृतभूताण्डाय ।नित्यतृप्ताय । निराश्रयाय नमः । ६०श्रीसदाशिवस्य दक्षिणवक्त्रोद्भवं- अत्र्यार्षं- अनुष्टुप्च्छन्दस्कं-रुद्रदेवताकं- कृष्णवर्णं बिन्दुनादविभूषितं-श्री चिदम्बरपञ्चाक्षरीविद्या द्वितीयावयवं- स्वरित स्वरोपेतं-द्वितीयं``म''कारं ध्यात्वा-॥ ॐ मं॥ॐ महादेवाय नमः । महामोहजनकाय । महिमाप्रियाय । महते ।महर्षये । मार्ताण्डाय । महर्षिगणसेविताय । मनोज्ञाय । मधुराय ।माररिपवे । माधवसुन्दराय । मन्त्रिणे । मन्त्राक्षराकाराय ।मार्कण्डेयवरप्रदाय । महामेरुधनुषे । मानिने । माननीयाय ।महाप्रभवे । महासेनगुरवे । मान्याय नमः । ८०ॐ महानटनलम्पटाय नमः । महाबलेशानवक्त्राय ।महाताण्डववैभवाय । मध्यार्जुनमुखानन्दाय । मननत्राणतत्पराय ।मायाविने । मञ्जुमञ्जीरचरणाय । मण्डलान्तराय । मणिपूरान्तरगताय ।मधुभृच्चक्रताण्डवाय । मृडानीवल्लभाय । मौनिने ।मौनव्याख्यानतत्पराय । मृत्युञ्जयाय । मृत्युमृत्यवे । मुदिताय ।मुदितान्तराय । मुनये । मुनीश्वराय । मेध्याय नमः । १००ॐ महार्घमणिभूषणाय नमः । मनोन्मनाय । मनोरूपाय । महीचक्रिणे ।मरालगाय । मात्रे । मातङ्गविनुताय । माधवेषुधिवारिधये ।महाकालाय । महेशानाय । महेष्वासाय । महेश्वराय । महोत्सवाय ।महोत्साहाय । मङ्गलायतनाय । मधुने । मातृकावर्णसङ्कॢप्ताय ।महाकैलाससंस्थिताय । महासाम्राज्यसन्दायिने ।मनोवाचामगोचराय नमः । १२०श्रीसदाशिवस्य पश्चिमवक्त्रोद्भवं- विश्वामित्रार्षं-त्रिष्टुप्च्छन्दस्कं- विष्णु देवताकं- धूम्रवर्णं बिन्दुनादविभूषितं-श्रीचिदम्बरपञ्चाक्षरीविद्या तुरीयावयवं- अनुदात्तस्वरोपेतं-तुरीयं``शि (शी)''कारं ध्यात्वा-॥ ॐ वाम्॥ॐ वाक्पतये नमः । वारिजारूढाय । वारिभृते । वाञ्छितार्थदाय ।वाञ्छाकल्पलताभिख्याय । वामदेवाय । वनाधिपाय । वराय ।वरार्चिताय । वन्द्याय । वसिष्ठजनकाय । वसवे । वामाङ्गाय ।वामनहराय । वामनेड्याय । वरप्रदाय । वासवाय । वासवाराद्ध्याय ।वनमालिप्रियाय । विधये नमः । १४०ॐ विधिशीर्षराय नमः । वीणाधराय । वैवस्वतान्तकाय ।वैवाहिकाय । विशिष्टार्थाय । विशेष्याय । विन्ध्यदर्पघ्ने ।वृषस्कन्धाय । वृषारूढाय । वरुणाय । वरुणार्चिताय ।वरिष्ठाय । वज्रकवचाय । वज्रभेत्रे । विरूपवते । विश्वरूपाय ।विराड्रूपाय । विराठृत्पद्मभासुराय । वायुरूपाय ।वायुभक्षभूषाय नमः । १६०ॐ वागीश्वरीप्रियाय नमः । वागीशाय । वेदविनुताय । वेदवाहाय ।वराहघ्ने । विषभुजे । विबुधश्रेष्ठाय । विरिञ्चिविनुताय ।विधवे । विधुभूषाय । विरूपाक्षाय । विधुवह्न्यर्कलोचनाय ।वटुकाय । वटुकाराध्याय । वर्षिष्ठान्तेवसद्गणाय ।वेतालनटनानन्दाय । वनभिक्षाटनोद्युताय । वीरासनाय । वीरभद्राय ।विश्वसम्मोहनाकृतये नमः । १८०॥ ॐ शिं - शीं॥ॐ शिवाय नमः । शिवङ्कराय । शिष्ठाय । शितिकण्ठाय ।शिवार्धभाजे । शिवानन्दाय । शिवाराध्याय । शिवकामाय ।शिवाश्रिताय । शतानन्दाय । शतमुखाय । शतमन्यवे ।शताक्षराय । शरभाय । शरभाकाराय । शुकभृते ।शुकसन्नुताय । शूराय । शूरजनाराध्याय ।श्रुत्युक्तस्तुतवैभवाय नमः । २००ॐ शेखरीभूत शीतांशुगङ्गाय नमः । शेषाङ्गुलीयकाय ।शेषधये । श्रेष्ठजनकाय । शेमुषीगोष्ठिनाटकाय । शमिने ।शमनसंहर्त्रे । शरण्याय । शमनेष्टदाय । शङ्कराय ।शास्त्रकृते । शम्भवे । शापायुधविनिग्रहाय । शम्बरारातिविमुखाय ।शङ्गभृते । शमिताखिलाय । शाश्वताय । शासकाय । शास्त्रे ।शरणागतपालकाय नमः । २२०ॐ शबराय नमः । शाबराय । शान्ताय । श्रीकण्ठाय ।श्रीमुखार्चिताय । शिवाश्लिष्टाय । शिवार्धाङ्गाय ।शिलादसुतसन्नुताय । शैलेन्द्रचापाय । शार्दूलचर्मधृते ।शशिशेखराय । शिवकामेश्वराय । श्रीमते । शिवासक्ताय ।शिवाश्रयाय । श्रितानन्दाय । शतधृतिशिरोभृते ।शाक्वरप्रियाय । शातकुम्भसमाकाराय ।शान्तहृत्पद्मसंस्थिताय नमः । २४०श्रीसदाशिवस्य उत्तरवक्त्रोद्भवं- अङ्गिरार्षं- बृहतीच्छन्दस्कं-ब्रह्म देवताकं- स्वर्णवर्णं बिन्दुनादविभूषितं-श्रीचिदम्बरपञ्चाक्क्षरीविद्या तृतीयावयवं- प्रचयस्वरोपेतं-तृतीयं ``वा''कारं ध्यात्वा-श्रीसदाशिवस्य उत्तर(ऊर्ध्व)वक्त्रोद्भवं- भरद्वाजार्षं-विराट्च्छन्दस्कं- स्कन्ददेवताकं- रक्तवर्णं बिन्दुनादविभूषितं-श्रीचिदम्बरपञ्चाक्षरीविद्या पञ्चमावयवं- उदात्तस्वरोपेतं-पञ्चमं ``य'' कारं ध्यात्वा-॥ ॐ यं॥ॐ यज्ञाय नमः । यज्ञप्रियाय । यज्वने । यायजूकाय । यतेन्द्रियाय ।यमिने । यमहराय । यानीकृताम्नायाय । यतीश्वराय । यन्त्रे ।यन्त्रितविध्यण्डाय । यजमानाय । युवाकृतये । यक्षराजसखाय ।यष्ट्रे । यतात्मने । यादसाम्पतये । यन्त्रिणे । यन्त्रान्तराराध्याय ।यन्त्रितावनिमण्डलाय नमः । २६०ॐ यथेष्टफलदाय नमः । याम्यदिङ्मुखाय । याकिनीप्रियाय ।योगिने । योगेश्वराय । युक्ताय । योगपट्टविराजिताय । युगान्तकृते ।यशोदात्रे । यशस्विने । यक्षवन्दिताय । यमुनाळीशिखाजूटाय ।यकाराभयदोर्धराय । यातनारहिताय । याच्ञाहीनाय । यष्टिधराय ।यतये । यन्त्रात्मने । यामिनीलास्याय । यामपूज्याय नमः । २८०ॐ युधिष्ठिराय नमः । यज्ञान्तकृते । यज्ञपूज्याय ।यज्ञवाटनटेश्वराय । यज्ञदेवोत्तमाय । यज्ञविधये ।यज्ञरसोत्सुकाय । यमस्मरपुरान्धेभजलदक्षाजनिग्रहाय ।यादःकोलगजारातिखर्वकच्छपगर्वघ्ने ।यक्षराक्षसभेतालभूताऽपस्मारभञ्जनाय ।योषासङ्क्रान्तवामाङ्गाय । योषिकृतरमाधवाय ।योषानायकसंप्रीताय । योषिन्मण्डलताण्डवाय ।यन्त्रोल्लिखितचिन्मूर्तये । यायजूकसमर्चिताय ।यज्ञवाटसभाध्यक्षाय । यामिनीलास्यनिश्चलाय ।याथात्म्यतत्त्वचिन्मात्राय । याथार्ध्यप्रतिभास्वराय नमः । ३००॥ ॐ चिदम्बरसभानटाय नमः॥॥ इति श्रीचिदम्बरपञ्चाक्षरीत्रिशतीनामावलिः समाप्ता॥इत्येवं स्तोत्रराजं तत् चिदम्बर सभापतेः ।पश्चाक्षराङ्कितं नाम्नां शतत्रयमुदाहृतम् ॥१॥प्रदोषकालेऽप्यार्द्रायां सोमवारे विशेषतः ।शुक्रवारे तथाप्यन्ये यस्मिन् कस्मिन्दिनेऽपि वा ॥२॥शिवस्य सन्निधौ बिल्व मूले पुण्य सरित्तटे ।स्थित्वा जपेद्विशेषेण क्षुद्र शान्तिकरं महत् ॥३॥आर्द्रा नक्षत्रमारभ्य पुनरार्द्रान्तमादरात् ।दिनसङ्ख्यानुगुण्येन जपेत् सर्वार्थदं परम् ॥४॥नामैकस्यास्य नार्हन्ति तुलामन्यानि भो द्विजाः ।गोप्याद्गोप्यतरं ज्ञेयं पठनात्सर्वसिद्धिदम् ॥५॥माधवाय पुरा गौर्यै प्रोक्तमेतत् शिवेन तु ।सर्व सम्पत्करं पुंसां आयुरारोग्यदायकम् ॥६॥त्रिकालं यः पठेन्नित्यं शिवसायुज्यमाप्नुयात् ।इति श्रीचिदम्बररहस्ये महेतिहासे द्वितीयांशे श्रीनटेश्वर नाम त्रिशतीस्तोत्रवर्णनं नाम सप्तविंशोऽध्यायः॥ॐ चित्सभेशाय विद्महे ताण्डवेशाय धीमहि ।तन्नो रुद्रः प्रचोदयात्॥ॐ चिदम्बर ताण्डवाय विद्महे त्रैलोक्यनाथाय धीमहि ।तन्नो भर्गः प्रचोदयात्॥ॐ ताण्डवेश्वराय विद्महे चिदम्बरेशाय धीमहि ।तन्नो नटेशः प्रचोदयात्॥॥ इति शिवम्॥ N/A References : N/A Last Updated : January 20, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP