श्रीशारदेशत्रिशतीस्तोत्रम् - श्रीदेव्युवाच - त्रिशतीं ...
त्रिशती नामावलिचा उपयोग साधना करण्यासाठी होतो.
श्रीदेव्युवाच -
त्रिशतीं शारदेशस्य कृपया वद शङ्कर ।
श्रीशिव उवाच -
सहस्रनाम मन्त्रवद् ऋषिध्यानाधिकं स्मृतम् ॥१॥
॥अथ श्रीशारदेशत्रिशती॥
ॐकारवाच्य ॐकार ॐकारमुखराजितः ।
ॐकारमातृगो ॐकारशून्यपदसंस्थितः ॥२॥
ॐकारबिन्दुगो नित्यं ॐकारनादकारणम् ।
ॐकारमात्राजनकः ॐकारपूर्णविग्रहः ॥३॥
ॐकारचक्रमध्यस्थ ॐकारशक्तिनायकः ।
श्रींकारश्श्रीधरश्श्रीदः श्रीपतिश्श्रीनिकेतनः ॥४॥
श्रीनिवासश्श्रीधरश्श्रीमान् श्रींकारदेवपूजितः ।
श्रींकारदेवपूर्वाङ्गः श्रींकारयुग्मसेवितः ॥५॥
ह्रींकारलक्ष्यः ह्रींकारशक्तीशः ह्रींमनुप्रियः ।
ह्रींकारमायाजनको ह्रींकारशक्तिपूजितः ॥६॥
ह्रींकारेशदक्षिणाङ्गो ह्रींकारमनुतोषितः ।
ह्रींकारजपसुप्रीतो ह्रींकारशक्तिलोकगः ॥७॥
ह्रींकारशक्तिमलजो ह्रींकारशक्तिनन्दनः ।
क्लींकारमनुसंवेद्यः क्लींकारमनुतोषितः ॥८॥
क्लींकारेशपश्चिमाङ्गः क्लींकारदेवसेवितः ।
क्लींकारेण विश्वमोहकरः क्लींकारकारणम् ॥९॥
क्लींकारेण वश्यदाता क्लींकारेश्वरपूजितः ।
क्लींकारशक्तिपतिदः क्लींकारशक्तिहर्षदः ॥१०॥
क्लींकारेण विश्वस्रष्टा क्लींकारमयविश्वगः ।
क्लींकारेण विश्ववृद्धिकरः ऐङ्कारपीठगः ॥११॥
ऐङ्कारजपसुप्रीत ऐङ्कारदेववन्दितः ।
ऐङ्कारेश्वरवामाङ्गः ऐङ्कारशक्तिनायकः ॥१२॥
ऐङ्कारशक्तिजनक ऐङ्कारेण विभूतिदः ।
ऐङ्कारमयवेदेड्य ऐङ्कारशब्दकारणम् ॥१३॥
गम्बीजो गम्बीजदेहो गम्बीजात्मा गंस्थितिप्रदः ।
गङ्कारमन्त्रसंवेद्यो गङ्कारेण गतिप्रदः ॥१४॥
गङ्कारेण विश्वस्रष्टा गङ्कारेण सुमुक्तिदः ।
गङ्कारेण कामदाता गङ्कारेणाऽर्थदायकः ॥१५॥
गङ्कारेण ब्रह्मभूयदायको गणनायकः ।
गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ॥१६॥
गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः ।
गणज्येष्ठो गणश्रेष्ठो गणगोप्ता गणप्रथः ॥१७॥
नरदेहो नागमुखो नारायणसमर्चितः ।
नारायणश्रीपूर्वाङ्गो नादमध्ये प्रतिष्ठितः ॥१८॥
नन्द्यो नन्दीप्रियो नादजनको नटनप्रियः ।
नगराजसुतासूनुर्नटराजसुपूजितः ॥१९॥
परमात्मा परन्धाम पशुपाशविमोचकः ।
परञ्ज्योतिः पराकाशः पुराणपुरुषोत्तमः ॥२०॥
पुरुषः प्रणवाकारः पुरुषातीतविग्रहः ।
पद्मनाभसुतानाथः पद्मनाभसमर्चितः ॥२१॥
तत्त्वानाम्परमन्तत्त्वं तत्त्वम्पदनिरूपितः ।
तत्त्वातीतस्तत्त्वमयस्तत्त्वाष्टकसुसंस्थितः ॥२२॥
तत्त्वमस्याकृतिधरस्तत्त्वमस्यार्थबोधकः ।
तारकान्तरसंस्थानस्तारकस्तारकाननः ॥२३॥
तारकासुरसंहर्ता तारकान्तकपूर्वजः ।
यज्ञो यज्ञपतिर्यज्ञफलदो यज्ञरक्षकः ॥२४॥
यज्ञमूर्तिर्यज्ञभोक्ता यज्ञेशानवरप्रदः ।
यज्ञकर्ता यज्ञधर्ता यज्ञहर्ता यमीश्वरः ॥२५॥
विनायको विघ्नराजो वैनायकप्रवालकः ।
विघ्नहर्ता विघ्नकर्ता विश्वाधारो विराट्पतिः ॥२६॥
वागीश्वरीपतिर्वाणीनायको वामनार्चितः ।
रक्षाकरो राक्षसघ्नो रमेशो रावणार्चितः ॥२७॥
रमाप्रियो रमेशानपूजितो राधिकार्चितः ।
रमारमेशपूर्वाङ्गो राकाचन्द्रसमप्रभः ॥२८॥
रत्नगर्भो रत्नदाता रक्तो राज्यसुखप्रदः ।
विश्वनाथो विराण्णाथो विश्वो विष्णुप्रपूजितः ॥२९॥
विश्वातीतो विश्वमयो वीतिहोत्रसमर्चितः ।
विश्वम्भरो विश्वपाता विश्वधर्ता विमानगः ॥३०॥
रामार्चिताङ्घ्रियुगलो रघुनाथवरप्रदः ।
रामप्रियो रामनाथो रामवंशप्रपालकः ॥३१॥
रामेश्वरक्षेत्रवासी रामसेतुफलप्रदः ।
रामभक्तिसुसन्तुष्टो रामाभीष्टफलप्रदः ॥३२॥
रामविघ्नप्रशमनो रामाय सिद्धिदायकः ।
दक्षयज्ञप्रमथनो दैत्यवारणधारणः ॥३३॥
द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः ।
द्विपास्यो देवदेवेशो देवेन्द्रपरिपूजितः ॥३४॥
दहराकाशमध्यस्थो देवदानवमोहनः ।
वामारामो वेदवेद्यो वैद्यनाथो वरेण्यजः ॥३५॥
वासुदेवसमाराध्यो वासुदेवेष्टदायकः ।
विभावसुमण्डलस्थो विभावसुवरप्रदः ॥३६॥
वसुधारेशवरदो वरो वसुमतीश्वरः ।
दयावान् दिव्यविभवो दण्डभृद् दण्डनायकः ॥३७॥
दाडिमीकुसुमप्रख्यो दाडिमीफलभक्षकः ।
दितिजारिर्दिवोदासवरदो दिव्यलोकगः ॥३८॥
दशबाहुर्दीनदैन्यमोचको दीननायकः ।
प्रमाणप्रत्ययातीतः परमेशः पुराणकृत् ॥३९॥
पद्मपतिः पद्महस्तः पन्नगाशनवाहनः ।
पन्नगेशः पन्नगजः पन्नगाभरणोज्ज्वलः ॥४०॥
पार्वतीतनयः पार्वतीनाथप्रपूजितः ।
ज्ञानं ज्ञानात्मको ज्ञेयो ज्ञानदो ज्ञानविग्रहः ॥४१॥
ज्ञानाम्बातनयो ज्ञानशक्तीशो ज्ञानशास्त्रकृत् ।
ज्ञानकर्ता ज्ञानभर्ता ज्ञानी ज्ञानसुरक्षकः ॥४२॥
धर्मो धर्मप्रदो धर्मराजो धर्मप्रपूजितः ।
धर्मवाहो धर्मबाहुर्धर्मोष्ठो धर्मपालकः ॥४३॥
धर्मकर्ता धर्मधर्ता धर्मभर्ता धनप्रदः ।
यशस्करो योगगम्यो योगमार्गप्रकाशकः ॥४४॥
योगदो योगिनीनाथो योगशान्तिप्रदायकः ।
योगकर्ता योगधर्ता योगभूमिप्रपालकः ॥४५॥
योगविघ्नप्रशमनो योगसिद्धिप्रदायकः ।
मेधाप्रदो मायिकेशो मेधेशो मुक्तिदायकः ॥४६॥
मायी माधवसम्पूज्यो माधवो माधवात्मजः ।
मन्दाकिनीतीरवासी मणिकर्णिगणेश्वरः ॥४७॥
धनदो धान्यदो धीरो धैर्यदो धरणीधरः ।
धर्मपुत्रधर्मतुष्टो धर्मपुत्रेप्सितप्रदः ॥४८॥
धर्मपुत्रधर्मदाता धर्मपुत्रार्थदायकः ।
धर्मव्याधज्ञानदाता धर्मव्याधेप्सितप्रदः ॥४९॥
दत्तप्रियो दानपरो दत्तात्रेयेष्टदायकः ।
दत्तात्रेययोगदाता दत्तात्रेयहृदिस्थितः ॥५०॥
दाक्षायणीसुतो दक्षवरदो दक्षमुक्तिदः ।
दक्षराजरोगहरो दक्षराजेप्सितप्रदः ॥५१॥
हंसो हस्तिपिशाचीशो हादिविद्यासुतोषितः ।
हरिर्हरसुतो हृष्टो हर्षदो हव्यकव्यभुक् ॥५२॥
हुतप्रियो हरीशानो हरीशविधिसेवितः ।
स्वस्स्वानन्दस्स्वसंवेद्यो स्वानन्देशस्स्वयम्प्रभुः ॥५३॥
स्वयञ्ज्योतिः स्वराट्पूज्यस्स्वस्वानन्दप्रदायकः ।
स्वात्मारामवरस्स्वर्गस्वानन्देशस्स्वधाप्रियः ॥५४॥
स्वसंवेद्यो योगगम्यस्स्वसम्वेद्यत्वदायकः ।
हय्यङ्गवीनहृदयो हिमाचलनिवासकृत् ॥५५॥
हैमवतीशतनयो हेमाङ्गदविभूषणः ।
फलश्रुतिः -
शारदेशमन्त्रभूतां त्रिशतीं यः पठेन्नरः ॥५६॥
इह भुक्त्वाऽखिलान्भोगान् शारदेशप्रसादतः ।
विद्यां बुद्धिं धियं कीर्तिं लब्ध्वा मोक्षमवाप्नुयात् ॥५७॥
॥इति वैनायकतन्त्रे शारदेशत्रिशतीस्तोत्रं सम्पूर्णम्॥
N/A
References : N/A
Last Updated : January 20, 2026

TOP