अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः ११
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ब्रह्मोवाच ॥
स तु सिंहस्थितां गौरीं ज्वलंती विविधायुधाम् ॥
शैलवर्षेण महता कुपितः समपूरयत् ॥१॥
शरवर्षेण महता तन्निवार्य विदूरतः ॥
बिभेद निशितैः शस्त्रैरशेषं तस्य विग्रहम् ॥२॥
भिद्यमानोऽपि दैत्येंद्रः शैलसारप्रदुर्धरः ॥
विषादं नागमत्किंचिद्ववृधे युद्धदुर्मदः ॥३॥
भिद्यमानः स खड्गेन चक्रैरसिभिर्ऋष्टिभिः ॥
शूलेन चायुधैश्चान्यैरंतर्धानमगाहत ४॥
ततः सिंहाकृतिर्भीमः प्रचंडनिनदाननः ॥
तीक्ष्णदंष्ट्रः शितनखः परिबभ्राम केसरी ॥५॥
देवीसिंहश्चपेटेन ताडयामास पाणिना ॥
दैत्यसिंहस्य च नखैस्तस्य वक्षो व्यदारयत् ॥६॥
अथ व्याघ्रतया प्राप्तः स्फुटव्यात्ताननो महान् ॥
तं हंतुं च बलाद्देवी वेगेन करमक्षिपत् ॥७॥
दीर्घाभिर्न्नीलरेखाभिः पूर्णः पिंगलविग्रहः ॥
यानावलिभिराकीर्णः स्वर्णाद्रिरिव संचरन् ॥८॥
मृगैरिव परित्रातुं मुच्यमानोऽग्रतो बली ॥
ज्वलंतमिव रोषाग्निं जिह्वाहेतिभिरावहन् ॥९॥
आगच्छंतं रयाद्देवी भल्लेन शशिवर्चसा ॥
प्रतिविव्याध तं व्याघ्रं पुरत्रयमिवेश्वरः ॥१०॥
स बाणस्तन्मुखे मग्नस्तद्रक्तेन समुक्षितः ॥
जगाहे गगनं भित्त्वा देहमस्य विनिर्गतः ॥११॥
स दैत्यो वारणो भूत्वा देवीमाश्वभ्युपागमत् ॥
बलिभिः पशुभिर्भिन्नैस्तस्याः प्रीतिमिवावहन् ॥१२॥
तं गजेंद्रं समायांतं मदक्लिन्नमहीतलम् ॥
देवीसिंहस्तदा दृष्ट्वा ननर्द च जघान च ॥१३॥
अथ खड्गधरो वीरश्चर्मपाणिः समुद्गतः ॥
वक्त्रं दधानो बभ्राम दंष्ट्राभ्रुकुटिभीषणम् ॥१४॥
देवी च विलसत्खड्गचक्रचक्रलसत्करा ॥
युयोध तेन वीरेण भग्नशीर्षाभ्यपद्यत ॥१५॥
भूयः स माहिषं रूपमास्थायासुरमायया ॥
देव्या योद्धुं प्रववृते यथापूर्वमनाकुलम् ॥१६॥
अथ देवैमुनींद्रैश्च चोदितो गौतमो मुनिः ॥
प्रबोधयितुमारेभे स्तुतिभिर्जगदंबिकाम् ॥१७॥
त्वयि सर्वस्य जगतः प्राणशक्तिः परा मता ॥
ओजःशक्तिर्ज्ञानशक्तिर्बलशक्तिश्च गम्यते ॥१८॥
किमेतदद्य मोहाय युद्धमारभ्यते त्वया ॥
उपसंह्रियतामेष दैत्यो भुवनगुप्तये ॥१९॥
भिन्नानामस्य देहानामुपसंहरणात्तव ॥
वलयश्चोपदिश्यन्ते निगमोक्ता वरप्रदाः ॥२०॥
अन्यथा तृणकल्पस्य शत्रोरस्य निबर्हणे ॥
कालाग्निवर्चसो देवि किमर्थं संभ्रमस्त्वियान् ॥२१॥
स्वशक्तिमवसंस्तभ्य समाकर्षयतां रिपोः ॥
प्राणशक्तिं त्रिशूलेन गुणत्रयवपुर्धृता ॥२२॥
इति स्म बोधितातेन पुरा भगवती तदा ॥
महिषासुरमाक्रम्य त्रिशूलेनाभ्यधारयत् ॥२३॥
अनेकगिरिसंकाशं देव्या विग्रहमात्मनः ॥
अशक्तस्तं धारयितुं ससाद महिषासुरः ॥२४॥
निष्पिष्टो विलुठन्क्रोशन्नाक्रांतश्च परिस्फुरन् ॥
निर्गंतुमुद्गतशिरा न शशाकासुराधिपः ॥२५॥
त्रिशूलमुखभिन्नांगरक्तधारासमुद्धतः ॥
समुद्र इव संजातः संध्यारुणकलेवरः ॥२६॥
अथ खड्गेन तीक्ष्णेन कर्तयित्वा च तच्छिरः ॥
ननर्त्त तस्य शिरसि तिष्ठन्ती महिषार्दिनी ॥२७॥
दुर्गां सिद्धाश्च गन्धर्वाः प्रशशंसुर्महर्षयः ॥
पुष्पवृष्टिश्च महती देवैर्मुक्ता समंततः ॥
प्रणतः प्रांजलिर्देवीं तुष्टाव विबुधाधिपः ॥२८॥
॥ इन्द्र उवाच ॥
नमस्ते जगतां मात्रे भूतानां बीजसंविदे ॥२९॥
भक्तिः श्रद्धा च भजतां शक्तिश्चासि त्वमंबिके ॥
कारणं परमा कीर्तिः शातिर्दांतिः कला क्षमा ॥३०॥
एकैव विश्वरूपा त्वं नामभेदेर्निगद्यसे ॥
तेषुतेषु पदेष्वस्मांस्तपोऽनुगुणसिद्धिषु ॥३१॥
नियुज्य शत्रुं निर्भिद्य शिवा ज्ञेया प्रकाशसे ॥
हतोयं महिषो दुष्टो विनिकृत्तश्च शांभवि ॥३२॥
छिन्नमेतस्य तु शिरः सजीवमिव लक्ष्यते ॥
रक्तनेत्रं तीक्ष्णशृगं ज्वलज्जिह्वं चलं शिरः ॥३३॥
आक्रम्य तव तिष्ठन्त्या रूपमेव सदास्तु नः ॥
चक्रशृंगधनुर्बाणखङ्गचर्मवराभयैः ॥३४॥
शूलघण्टांकुशकशाकपालकुलिशादिभिः ॥
अशेषदेवतामूर्तिरशेषैदेंवतायुधैः ॥३५॥
आपूरिता त्वमेवांब सर्वशत्रून्निहंसि नः ॥
आयुधानां सहस्राणि तन्मयास्ते विभूतयः ॥३६॥
त्वज्जितारातयः सर्वे विविधायुधवाहनाः ॥
रथनागहयैर्युक्ताः ससैन्या अपि भूभृतः ॥३७॥
क्षणेन दग्धवीर्याः स्युस्त्वत्प्रसादविवर्जिताः ॥
अपदोऽप्यल्पवीर्योऽपि त्वत्पादांबुजसेवकः ॥३८॥
त्रिलोकनाथतां प्राप्तः प्रथते कीर्तिमण्डितः ॥
तद्रूपमिदमत्युग्रं ध्यायतामर्चतां सदा ॥३९॥
न शत्रुभ्यो भयं किंचिद्भवेद्विजयशालिनाम् ॥
ईदृशं सर्वलोकेषु रूपं ते देववंदितम् ॥४०॥
पूज्यतामिष्टसिद्ध्यर्थं देवैर्भृत्यैश्च सर्वदा ॥
मातरश्च त्वया सृष्टाः सर्वाभीष्टफलप्रदाः ॥४१॥
सगणाः प्रतिपूज्यंतां सर्वस्थानेषु सर्वदा ॥
अयं च निहतो दैत्यस्त्वत्पादकृतलांछनः ॥४२॥
तव भक्तैः सदा पूज्यस्त्वत्प्रमादात्त्वदग्रतः ॥
इत्थं सुरेन्द्रप्रणुता सर्वर्षिसुरसेविता ॥४३॥
तथेति वरदा देवी ससर्ज च दिवं प्रति ॥
स्वयमप्यात्मनस्तत्र तद्रूपं विविधायुधम् ४४॥
संस्थाप्य मातृभिः सार्धं स्थानरक्षणमातनोत् ॥
संगृह्य विमलं रूपं सखीजनसमावृता ॥४५॥
महिषस्य शिरोऽपश्यद्विकृतं खङ्गधारया ॥
कथयन्ती पुनस्तस्य चित्रं लोकविभूषणम् ॥४६॥
सखीभिः सह सा बाला कण्ठं तस्य व्यलोकयत् ॥
अपश्यच्च तदा लिगं कर्त्तुं तस्य च पूजनम् ॥४७॥
आदत्त सहसा गौरी लिगं तस्य गले स्थितम् ॥
आलोकयच्च सुचिरं रक्तधारापरिप्लुतम् ॥४८॥
आसज्जत पुनर्लिंगमस्याः पाणितलं गतम् ॥
विमोचयितुमुद्युक्ता नाशक्नोल्लग्नमंजसा ॥४९॥
अचिंतयच्च सा देवी किमेतदिति विस्मयात् ॥
विषादेन च संयुक्ता महर्षीणां पुरः स्थिता ॥५०॥
आहतः शिवभक्तोऽयमिति शोकं समाविशत् ॥
अगर्हत भृशं मौढ्यमात्मनः स्त्रीस्वभावजम् ॥५१॥
अविचार समारब्धं शिवभक्तनिबर्हणम् ॥
उपतापपरीतांगी गौतमं मुनिसत्तमम् ॥५२॥
उपगम्याब्रवीद्बाला साहसं कृतमात्मना ॥
भगवन्सर्वधर्मज्ञ गौतमार्य मुनीश्वर ॥५३॥
मान्यया धर्मरूपेण कोऽप्यधर्मः प्रकल्पितः ॥
देवानां रक्षणं कर्तुमभयं दातुमुद्यता ॥५४॥
अज्ञानान्महिषं दैत्यं शिवभक्तिममर्दयम् ॥
रजसाक्रान्तबुद्धीनां न भवेद्धर्मसंग्रहः ॥५५॥
गुरुप्रसादसुलभः स्फुरद्विघ्नशताकुलः ॥
सुदुर्धर्षा निराचारदुर्दमाः शिवसंश्रयाः ॥५६॥
विशेषतो लिंगधराः शिवस्तान्बहु मन्यते ॥
पुरा पुरत्रयावासा दैतेया लिंगधारका ॥५७॥
अजिताः शंभुना पूर्वं मुक्तलिंगा निषूदिताः ॥
अस्य कंठस्थितं लिंगं मम पाणिं न मुंचति ॥५८॥
कथं पापं निरस्यामि शिवभक्तवधाश्रितम् ॥
अस्य कंठस्थितं लिंगं धारयंती तपोन्विता ॥५९॥
तीर्थयात्रां करिष्यामि यावच्छंभुः प्रसीदति ॥
पुनः कैलासमुख्येषु शंभुस्थानेषु भूरिषु ॥६०॥
तीर्थेषु रचितस्नाना लप्स्ये पापविशोधनम् ॥
इति तस्याः परिश्रांतिं दुर्धर्मपरिशंकया ॥६१॥
आकर्ण्य शिवधर्मज्ञो भयार्त्तां तामवोचत ॥
मा भैषीर्गिरिजे मोहाच्छिवभक्तो हतस्त्विति ॥६२॥
धर्मसूक्ष्मार्थवेत्तारौ दुर्लभा गिरिकन्यके ॥
सदा शिवस्य वदनैः सद्योजातादि संश्रितैः ॥६३॥
आगमाः पंचभिः प्रोक्ता अष्टाविंशतिकोटयः ॥
निर्णयाः शिवभक्तानां शिवमार्गस्य शोभनाः ॥६४॥
तेषुतेषु मुनींद्रैश्च नत्वैव प्रतिपद्यते ॥
कालो मुखं च कंकालं शैवं पाशुपतं तथा ॥६५॥
महाव्रतं पंच चैताः शिवमार्गप्रवृत्तयः ॥
भेदाश्च बहवस्तेषामन्योन्यस्य शिवे रताः ॥६६॥
साध्य एको हि बलवान्सर्वैस्तैरनिशं शिवः ॥
सर्व एव सदा पूज्याः स्वधर्मपरिनिष्ठितैः ॥६७॥
अमत्सरैः शिवे भक्तैः शिवाज्ञापरिपालकैः ॥
वेदैश्च बहुभिर्यज्ञैर्भक्त्या च परया शिवः ॥६८॥
आराध्यते महादेवः सर्वदा सर्वदायकः ॥
जीवहिंसा न कर्त्तव्या विशेषण तपस्विभिः ॥६९॥
शिवधर्मस्य भेत्तारो निहंतव्यास्तथांजसा ॥
न वेषजुषि वीक्षेत न लिगं नैव संभवम् ॥७०॥
शिवधर्मस्य भेत्तारं हन्यादेवाविचारयन् ॥
बहुभिः स्फूर्तया बुद्ध्या धर्मविद्भिर्निरूपिते ॥७१॥
शिवधर्मस्य विलये सद्यः शक्तिः प्रवर्तते ॥
अस्य कर्म पुनर्दिष्टं लिंगमैश्वर्यचर्चितम् ॥७२॥
न जेतुं शक्यते देवि तेनासौ सर्वदैवतैः ॥
यदयं निहतो देवि त्वया शंकरमान्यया ॥७३॥
आक्रांतः शापदोषेण महर्षीणां शिवाश्रयात् ॥
अथ ते कुपितास्तस्य वैषम्यादवमानतः ॥७४॥
शेपुर्महिषवद्दुष्टो महिषोऽयं भवत्विति ॥
ततस्तद्वचनात्सद्यो महिषोऽभूत्क्षणात्तथा ॥७५॥
प्रणम्य तोषयामास ययाचे शापमोचनम् ॥
दत्त्वा प्रकामरूपत्वं ददुरस्मै प्रसादिताः ॥७६॥
महिषत्वेपि संहारं स्वयं देव्या शिवाज्ञया ॥
विषादो न च कर्त्तव्यो अंगदर्शनतस्त्वया ॥७७॥
सिद्धानां शिवरूपाणामवज्ञा कं न बाधते ॥
महिषत्वे समुत्पन्ने दोषेण समुपस्थिते ॥७८॥
सिद्धप्रसादाल्लब्धोऽयं शापनाशस्त्वया कृतः ॥
सर्वे लोकाश्च संत्राता दुष्टोयं परिरक्षितः ॥७९॥
शापदोषसमुत्पन्ने महिषत्वे विमोचिते ॥
त्वया च गिरिशप्रीत्यै तपः कुर्वाणयाद्रिजे ॥८०॥
द्रष्टव्यं तैजसं लिंगमरुणाचलसंज्ञितम् ॥
पूर्वजन्मनि भक्तोऽयमरुणाद्रिपतेः स्फुटम् ॥८१॥
महिषत्वे मदाक्रांतः परं लिंगेन संगतः ॥
भक्त्या लिंगधरं हंतुं कः समर्थो जगत्त्रये ॥८२॥
दृष्टाः पुरत्रये पूर्वं रुद्रेण पूजितास्त्रयः ॥
त्वत्खड्गपरिकृत्तेन कंठेनास्य वरानने ॥८३॥
दीक्षादिरहितं लिंगं दत्तं हंतीति चोदितम् ॥
कृतं हि महिषेणापि भक्तितो लिंगधारणम् ॥८४॥
कदाचित्क्षपणोक्तानां विभाषात्प्रत्ययं गतः ॥
पूर्वजन्मतपोयोगात्स्मरणो लिंगधारणात् ॥८५॥
त्वत्पादपद्मसंस्पर्शादयं मुक्तो न संशयः ॥
मदुक्तनिष्कृतीनां तु पातकानां च नाशनम् ॥८६॥
दर्शनं शैलवर्यस्य प्रायश्चित्तं परं मतम् ॥
संस्थाप्य विविधाञ्छैवाञ्छिवसिद्धांतवेदिनः ॥८७॥
आवाह्य सर्वतीर्थानि सर्वदोषनिवृत्तये ॥
सरः किमपि संपाद्य स्नात्वा तत्र वरानने ॥८८॥
अघमर्षणसंयुक्ता सलिंगा स्नानमाचर ॥
त्रिसंध्यं चैव मासांते देवयागमहोत्सवे ॥८९॥
आराधयोपचारैस्त्वमरुणाद्रिमयं शिवम् ॥९०॥
एवं तस्य मुनेर्निशम्य वचनं शैवार्थसंभावितं प्रीता देवनमस्कृता गिरिसुता देवी जगद्रक्षिका ॥
शैवं धर्ममिमं विधातुमुचितं शोणाचलस्याग्रतस्तीर्थागाहनबुद्धिमाशु विदधे कर्तुं त्वघक्षालनम् ॥११॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे महिषासुरवधोत्तरं देवीपाणौ महिषासुरशिरःसंलग्रतावृत्तांतवर्णनंनामैकादशोऽध्यायः ॥११॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP