अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः १

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ श्रीगणेशाय नमः ॥
अथ श्रीमदरुणाचलमाहात्म्यपूर्वार्धः प्रारभ्यते
ललाटे त्रैपुंड्री निटिलकृतकस्तूरितिलकः स्फुरन्मालाधारः स्फुरितकटिकौपीनवसनः ॥
दधानो दुस्तारं शिरसि फणिराजं शशिकलां प्रदीपः सर्वेषामरुणगिरियोगीविजयते ॥१॥
 ॥ व्यास उवाच ॥
अथाहुर्मुनयः सूतं नैमिषारण्यवासिनः ॥
अरुणाचलमाहात्म्यं त्वत्तः शुश्रूषवो वयम् ॥२॥
तन्माहात्म्यं वदेत्युक्तः सूतः प्रोवाच तान्मुनीन् ॥
 ॥ श्रीसूत उवाच ॥
एतदर्थं चतुर्वक्त्रं पप्रच्छ सनकः पुरा ॥३॥
 शृणुतावहिता यूयं तद्वो वक्ष्यामि सांप्रतम् ॥
यदाकर्णयतां भक्त्या नराणां पापनाशनम् ॥४॥
सत्यलोके स्थितं पूर्वं ब्रह्माणं कमलासनम् ॥
सनकः परिपप्रच्छ प्रणतः प्रांजलिः स्थितः ॥५॥
 ॥ सनक उवाच ॥
भुवनाधार देवेश वेदवेद्य चतुर्मुख ॥
आसीदशेषविज्ञानं प्रसादाद्भवतो मम ॥६॥
भवद्भक्तिविभूत्या मे शोधिते चित्तदर्पणे ॥
बिंबते सकलं ज्ञानं सकृदेवोपदेशतः ॥७॥
सारार्थं वेदवेदानां शिवज्ञानमनाकुलम् ॥
लब्धवानहमत्यंतं कटाक्षैस्ते जगद्गुरोः ॥८॥
लिंगानि भुवि शैवानि दिव्यानि च कृपानिधे ॥
मानुषाणि च सैद्धानि भौतानि सुरनायक ॥९॥
नामस्मरणमात्रेण यत्पातकविनाशनम् ॥
शिवसारूप्यदं नित्यं मह्यं वद दयानिधे ॥११॥
अनादिजगदाधारं यत्तेजः शैवमव्ययम् ॥
यच्च दृष्ट्वा कृतार्थः स्यात्तन्मह्यमुपदिश्यताम् ॥१२॥
इति भक्तिमतस्तस्य कौतूहलसमन्वितम् ॥
वाक्यमाकर्ण्य भगवान्प्रससाद तपोनिधिः ॥१३॥
दध्यौ च सुचिरं शंभुं पंकजासनसंस्थितः ॥
अंतरंगसुखांभोधिमग्नचेताश्चतुर्मुखः ॥१४॥
दृष्ट्वा यदा पुरा दृष्टं तेजःस्तंभमयं शिवम् ॥
उत्तीर्णसकलाधारं न किंचित्प्रत्यबुध्यत ॥१५॥
पुनराज्ञां शिवाल्लब्धामनुपालयितुं प्रभुः ॥
निर्वर्त्त्य हृदयं योगात्सस्मार सुतमानतम् ॥१६॥
शिवदर्शनसंजातपुलकांकितविग्रहः ॥
आनंदवाष्पवन्नेत्रः सगद्गदमभाषत ॥१७॥
 ॥ ब्रह्मोवाच ॥
अतः संस्मारितः पुत्र भवताऽहं पुरातनम् ॥
शिवयोगमनुध्यायन्नस्मार्षं तव चादरात् ॥१८॥
शिवभक्तिः परा जाता तपोभिर्बहुभिस्तव ॥
तया मदीयं हृदयं व्यावर्त्तितमिव क्षणात् ॥१९॥
पावयंति जगत्सर्वं चरितैस्ते निराकुले ॥
येषां सदाशिवे भक्तिर्वर्द्धते सार्वकालिकी ॥२०॥
संभाषणं सहावासः क्रीडा चैव विमिश्रणम् ॥
दर्शनं शिवभक्तानां स्मरणं चाघनाशनम् ॥२१॥
श्रूयतामद्भुतं शैवमाविर्भूतं यथा पुरा ॥
अव्याजकरुणापूर्णमरुणाद्र्यभिधं महः ॥२२॥
अहं नारायणश्चोभौ जातौ विश्वाधिकोदयात् ॥
बहु स्यामिति संकल्पं वितन्वानात्सदाशिवात् ॥२३॥
स्वभावेन समुद्भूतौ विवदंतौ परस्परम् ॥
न च श्रांतौ नियुध्यंतौ साहंकारौ कदाचन ॥२४॥
परस्परं रणोत्साहमावयोरतिभीषणम् ॥
आलोक्य करुणामूर्तिरचिंतयदथेश्वरः ॥२५॥
किमर्थमनयोर्युद्धं जायते लोकनाशनम् ॥
मया सृष्टमहं पातेति विवादमधितस्थुषोः ॥२६॥
समयेऽस्मिन्स्वयं लक्ष्यो मुग्धयोरनयोर्भृशम् ॥
यदि युद्धं न रोत्स्यामि तदा स्याद्भुवनक्षयः ॥२७॥
वेदेषु मम माहात्म्यं विश्वाधिकतया श्रुतम् ॥
न जानाते इमौ मुग्धौ क्रोधतो गलितस्मृती ॥२८॥
सर्वोपि जंतुरात्मानमधिकं मन्यते भृशम् ॥
अमतान्यसमाधिक्यस्त्वधः पतति दुर्मतिः ॥२९॥
यद्यहं क्वापि भुवने दास्यामि मितिमात्मनः ॥
तदा तद्रूपविज्ञानात्स आत्मा सोपि मामियात् ॥३०॥
इति निश्चित्य मनसा स्वयमेव सदाशिवः ॥
आवयोर्युध्यतोर्मध्ये वह्निस्तंभः समुद्यतः ॥३१॥
अतीत्य सकलाँल्लोकान्सर्वतोऽग्निरिव ज्वलन् ॥३२॥
अनाद्यंततया चाथ दृगार्तौ संव्यतिष्ठताम् ॥
तेजःस्तंभं ज्वलंतं तमालोक्य शिथिलाशयौ ॥३३॥
आवयोः पुरतो जाता वाणी चाप्यशरीरिणी ॥
किमर्थं बालकौ युद्धं कल्प्यते मूढमानसौ ॥३४॥
युवयोर्बलवैषम्यं शिव एव विवेक्ष्यते ॥
तेजःस्तभमयं रूपमिदं शंभोर्व्यवस्थितम् ॥३५॥
आद्यंतयोर्यदि युवामीक्षिषाथां बलाधिकौ ॥
इति तां गिरमाकर्ण्य नियुद्धाद्विरतौ तदा ॥३६॥
अहं विष्णुश्च गतिमान्विचेतुं तद्व्यवस्थितौ ॥
अग्निस्तंभमयं रूपं शंभोराद्यंतवर्जितम् ॥३७॥
आलोकितुं व्यवसितावावामाद्यंतभागतः ॥
बिंबितं व्योमगं चंद्रं यथा बालौ जिघृक्षतः ॥३८॥
तथैवावां समुद्युक्तौ परिच्छेत्तुं च तन्महः ॥
अथ विष्णुर्महोत्साहात्क्रोडोऽभूत्सुमहावपुः ॥३९॥
तन्मूलविचयाऽयाच्च भूमिगर्भं व्यदारयत् ॥
अहं च हंसतां प्राप्तो महावेगं समुत्पतन् ॥४०॥
दिदृक्षुस्तच्छिरोभागं वियदूर्ध्वमगाहिषम् ॥
अधोधोदारयन्क्षोणिमशेषामपि माधवः ॥४१॥
आविर्भूतमिवाधस्तादग्निस्तंभमवैक्षत ॥
अनेककोटिवर्षाणि विचिन्वन्नपि तेजसः ॥४२॥
अपश्यन्नादिमक्षय्यमार्तरूपः स विह्वलः ॥
विशीर्णदंष्ट्रबलयो विगलत्संधिबंधनः ॥४३॥
श्रमातुरस्तृषाक्रांतो नो यातुमशकद्धरिः ॥
वाराहं रूपमतुलं संधारयितुमक्षमः ॥४४॥
विहंतुमपि विश्रांतो विषसाद रमापतिः ॥
अचिंतयदमेयात्मा परिश्रांतशरीरवान् ॥४५॥
गलितश्रीः क्रियाश्रांतः शरण्यं शिवमाश्रयन् ॥
धिङ्ममेदं महन्मौग्ध्यमहंकारसमुद्भवम् ४८॥
येनाहमात्मनो नाथमात्मानं नावबुद्धवान् ॥
अयं हि सर्ववेदानां देवानां जगतामपि ॥४७॥
मूलभूतः शिवः साक्षान्मूलमस्य कथं भवेत् ॥
अस्मादेव समुद्भूतोऽस्म्यहमाद्यंतवर्जितात् ॥४८॥
यन्मयान्वेष्टुमारब्धं शिवं पशुवपुर्धृता ॥
अव्याजकरुणाबन्धोः पितुः शंभोः प्रसादतः ॥४९॥
पुनरेवेदृशी लब्धा मतिर्मे स्वात्मबोधिना ॥
स्वयमेव महादेवः शंभुर्यं पातुमिच्छति ॥५०॥
तस्य सद्यो भवेज्ज्ञानमनहंकारमात्मजम् ॥
न शक्नोमि पुनः कर्तुं पूजामस्य जगद्गुरोः ॥५१॥
निवेदयामि चात्मानं शरणं यामि शंकरम् ॥
इति दध्यौ शिवं विष्णुः स्तुत्यामर्पितचेतनः ५२॥
सत्प्रसादाद्भूतपतेः पुनरेवोद्धुतः क्षितौ ॥
अहं च गगनेऽभ्राम्यमनेकानपि वत्सरान् ॥५३॥
आघूर्णमाननयनः श्लथपक्षः श्रमं गतः ॥
उपर्युपरि चापश्यं ज्वलनं पुरतः स्थितम् ॥५४॥
तेजःस्तम्भं स्थूललिंगाभं शैवं तेजः सुरार्चितम् ॥
आहुः स्म केचिदालोक्य सिद्धास्तेजोंशसंभवाः ॥५५॥
नित्यां शंभोः परां कोटिं दिदृक्षुं मां कृतोद्यमम् ॥
अहोऽयं सत्यमुग्धत्वमद्यापि च चिकीर्षति ॥५६॥
आसन्नदेहपातोऽपि नाहंकारोऽस्य वै गतः ॥
विशीर्यमाणपक्षोऽयं श्रांत्वा विभ्रांतलोचनः ॥५७॥
अपारतेजसि व्यर्थो विमोहोऽयं भविष्यति ॥
एवं व्याकुलचित्तोऽयं क्रोडरूपी जनार्दनः ॥५८॥
व्यावर्त्तितः शिवेनैव निर्व्याजकरुणाजुषा ॥
ईदृशां ब्रह्ममुख्यानां सुराणां कोटिसंभवः ॥५९॥
यत्तेजःपरमाणुभ्यस्तस्य पारं दिदृक्षते ॥
स्वात्मनो यो गतो ध्यात्वा समये भगवाञ्छिवः ॥६०॥
यदि बुद्धिं ददात्यस्मै तस्य नश्येदहंक्रिया ॥
इत्येवं वदतां तेषां सिद्धानां सदयं वचः ॥६१॥
आकर्ण्य शीर्णाहंकारो ह्यहमात्मन्यचिंतयम् ॥
न वेदराशिविज्ञानात्तपस्तीर्थनिषेवणात् ॥६२॥
संजायते शिवज्ञानमस्यैवानुग्रहादृते ॥
शीर्णेऽपि पक्षयुगले सीदत्यंगे ह्यचंचले ॥६३॥
पुनरुत्सहते चेतः स्वाहंकारस्य संग्रहे ॥
धिङ्मामहं क्रियाक्रांतमनात्मबलवेदिनम् ॥६४॥
शिवार्पितमनस्केभ्यः सिद्धेभ्यः सततं नमः ॥
येषां संसर्गलब्धेन तपसा शोधिताशयः ॥६५॥
शिवमेनं विजानामि स्वात्महेतुं पुरःस्थितम् ॥
यत्प्रसादोपलब्धेन विभवेन समन्विताः ॥६६॥
देवाः सर्वे भविष्यंति सततं शमितारयः ॥
यस्य वेदा न जानंति परमार्थं महागमैः ॥६७॥
तमेव शरणं यामि शंभुं विश्वविलक्षणम् ॥
अवादिषमथाभाष्यं विष्णुं कमललोचनम् ॥६८॥
लब्धदेहः शिवं भक्त्या संश्रितश्चन्द्रशेखरम् ॥
अहो किमिदमाश्चर्यमागतं शौर्यशालिनाम् ॥६९॥
शंभुना यत्समुद्भूतमहंकारमुपाश्रितौ ॥
आवां परस्परं युद्धमाकर्ण्य विपुलं महत् ॥७०॥
स एव शंकरः सर्वमहंकारमथावयोः ॥
अपाहरदमेयात्मा स्वमाहात्म्यप्रकाशनात् ॥७१॥
इममीश्वरमानतं सुरैरनलस्तम्भमयं सदाशिवम् ॥
अभिपूजयितुं प्रवर्तते स भवेद्वै भवसागरस्य नौः ॥७२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मसनकसंवादे लिंगप्रादुर्भाववर्णनंनाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP