अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः १०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ब्रह्मोवाच ॥
अथ देवा महीं हित्वा महिषासुरपीडिताः ॥
नत्वा गौरीं तपस्यंतीं जग्मुः शरणमाकुलाः ॥१॥
अथ तानभयं देहि देवीति भयविह्वलान् ॥
अमरान्वीक्ष्य सा देवी किं कार्यमिति चाभ्यधात् ॥२॥
ततो विज्ञापयामासुर्दैत्येंद्राद्भयमात्मनाम् ॥
देव्यै बद्धांजलिपुटा देवा इंद्रपुरोगमाः ॥३॥
 ॥ देवा ऊचुः ॥
अप्सरोभिः परिवृतः सुखं क्रीडति नंदने ॥
ऐरावतमुखान्सर्वान्दिङ्नागान्निजमंदिरे ॥४॥
आवसयन्विनोदार्थमंगनाभिः सहागतान् ॥
उच्चैःश्रवःपुरोगानामुपभोगं करोत्यसौ ॥५॥
मंदुरास्वस्य रम्यासु दृश्यंते लक्षकोटयः ॥
हुताशवाहनं मेषं पुत्रारोहार्थमीप्सति ॥६॥
याम्यं महिषमानीय शकटे सोऽभ्यवाहयत् ॥
सिद्धीराकृष्य सकला गृहकर्मणि चादिशत् ॥७॥
अप्सरःसंघमखिलमात्मसेवार्थमानयत् ॥
अन्यत्किमपि यद्वस्तु रत्नभूतं जगत्त्रये ॥८॥
अनाहृतं पुनर्हर्तुं न विश्राम्यति कोपवान् ॥
वयं च सेवका भूत्वा नित्यं भीतिसमन्विताः ॥९॥
पूजयंतश्च तस्याज्ञां नान्यां वीक्षामहे गतिम् ॥
शरणागतसंत्राणं तपःफलमुदाहृतम् ॥१०॥
दुर्जयोऽयं वरो दैत्यः सर्वेषां बलिनामपि ॥
सुराणामपि दैत्यानां शिवाल्लब्धवरोदयः ॥११॥
अस्य शृंगाहतः सिंधुर्व्यावर्जितमिति ब्रुवन् ॥
रत्नोपहारदानेन नित्यं तत्प्रीतिमिच्छति ॥१२॥
पर्वतांश्च समुत्क्षिप्य शृंगाग्रेण महोद्धतः ॥
क्रीडति क्षोदिताशेषधातुधूलिविलेपनैः ॥१३॥
न शक्यमतुलं तस्य बलमन्यदुरासदम् ॥
स्वयमेव विजानीहि हत्वा ते निजतेजसा ॥१४॥
शंभुशक्तिः परा सेयं स्त्रीरूपेणात्र दृश्यते ॥
त्वयैवायं निहंतव्यः शिवाल्लब्धवरो ह्ययम् ॥१५॥
न जानीमो वयं देवि किंचिच्छंभुविचेष्टितम् ॥
केवलं पालनीयाः स्म जगन्मात्रा सदा त्वया ॥१६॥
इति तेषां भयार्तानामाकर्ण्य वचनं शुभम् ॥
व्याजहार प्रसन्नात्मा देवी दत्त्वाभयं तदा ॥१७॥
शरणागतसंत्राणं तपसि स्थितया मया ॥
कर्त्तव्यममराः कालात्क्षीणः शत्रुर्भविष्यति ॥१८॥
उपायेन समाकृष्य हनिष्यामि महासुरम् ॥
निरागसस्तु हननमद्य मे न हि युज्यते ॥१९॥
धर्मगे धर्मभेत्तारः शलभत्वं व्रजंति हि ॥
देवास्तद्वचनं श्रुत्वा प्रणम्य गिरिकन्यकाम् ॥२०॥
जग्मुर्यथागतं सर्वे निर्भया हृष्टचेतसः ॥२१॥
गतेषु तेषु देवेषु गौरी कमललोचना ॥
बभूव मोहिनी शक्तिः कांतियुक्ता ततोदरी ॥२२॥
सा देवी दिक्षु शैलेषु चतुर्ष्वरुणभूभृतः ॥
रक्षार्थं स्थापितवती चतुरो बटुकान्वरान् ॥२३॥
यदा कैलासशिखरादागता शैलकन्यका ॥
अन्वगच्छन्सेवमानाश्चतस्रो मातरस्तदा ॥२४॥
दुन्दुभिः सत्यवत्याख्या तथा चानवमी परा ॥
सुन्दरीति चतस्रस्तामन्वयुः परिचारिकाः ॥२५॥
विमुञ्चतातिथिं श्रांतं क्षुत्पिपासा समन्वितम् ॥
अरुणाद्रिमिमं द्रष्टुं नान्यमित्यब्रवीच्च तान् ॥२६॥
सीमाशलस्थितान्वीरांस्तानादिश्य बलाधिकान् ॥
तपश्चचाराद्रिकन्या गौतमाश्रमसन्निधौ ॥२७॥
तस्यां तपत्यां तन्वंग्यां न तापः कश्चिदप्यभूत् ॥
ववर्ष काले जलदः सफलाश्चाभवन्द्रुमाः ॥२८॥
विरोधीनि च सत्त्वानि मुमुचुः पूर्वमत्सरम् ॥
आश्रमः सर्वजन्तूनां शरण्योऽभूद्भयापहः ॥२९॥
योजनद्वयपर्यंतं सीमाशैलेषु संस्थितैः ॥
चतुभिर्वटकैः शूरै रक्षितश्चारुणाचलः ॥३०॥
नोदभूत्कश्चन त्रासो न च दृष्टो भयोदयः ॥
न व्याधिपीडनं चासीत्तत्र नारिविजृंभणम् ॥३१॥
कृतार्था मुनयः सर्वे प्रशंसंतो नगात्मजाम् ॥
शिवलोकपदं केचित्प्रत्यशंसंस्तथाश्रमम् ॥३२॥
सा च गौरी तपो घोरं कुर्वती च दिवानिशम् ॥
न तृप्तिमाययौ बाला शिवसंतोषकारकम् ॥३३॥
महिषश्च महावीर्यो मृगयां कर्तुमुद्यतः ॥
चचार काननं सर्वं विदूरे शोणभूभृतः ॥३४॥
दैत्यसैन्यसमायुक्तो मृगयूथान्यनेकशः ॥
वनेषु निघ्नस्तरसा विचचाराशु भक्षयन् ॥३५॥
धन्विभिर्बलिभिर्वीरैर्मृगाः केचिदनुद्रुताः ॥
भयार्त्ताः परिधावंतः प्राविशंस्तं तथाश्रमम् ॥३६॥
अनुव्रजन्तो दितिजा मृगांस्तान्हंतुमुद्यताः ॥
वारिता बटुकैर्वीरैर्मा यातात्रेति सत्वरैः ॥३७॥
किमत्रेति तदा पृष्टा बटुका दुष्टदानवैः ॥
तपस्यति वरारोहा कन्यात्रेत्याहुरंजसा ॥३८॥
न केनचित्प्रवेष्टव्यं बलिना मुनिसेवितम् ॥
तपःस्थानमिदं देव्याः शरणागतरक्षकम् ॥३९॥
इति तेषां वचः श्रुत्वा बलिनो दुष्टदानवाः ॥
तथेति विनिवृत्त्याशु कर्त्तव्यं समचिंतयन् ॥४०॥
मायया पक्षिरूपास्ते प्रविश्याश्रममादरात् ॥
आरामवृक्षशाखासु निषेदुः खादिहेक्षितुम् ॥४१॥
सा पुनर्ल्लसितारण्ये सर्वर्तुकुसुमान्विते ॥
तपस्यन्ती तदा दृष्टा माया दैत्यस्य सैनिकैः ॥४२॥
रूपलावण्यते तस्या निश्चयं तपसि स्थितम् ॥
वीक्ष्य ते विस्मयोपेता गत्वा तस्मै न्यवेदयन् ॥४३॥
स स्मरार्तो वृद्धरूपः प्रविवेशाश्रमं तदा ॥
पूजितोऽस्याः सखीभिश्च गतश्रांतिरिव स्थितः ॥४४॥
वृद्धोऽपृच्छत्किमर्थं तु तपोऽस्या इति तास्तथा ॥
बाला कांतप्रसादार्थं चिरमत्र तपस्यति ॥४५॥
परं स बलवान्कांतो न कदापि प्रसीदति ॥
कार्यं विवाहसमये मनोरथं यथोचितम् ॥४६॥
अपूर्वप्रभुणा तेन नवोपकरणं महत् ॥
सद्योजातकुलालेन सद्यः सृष्टैर्विपाचितैः ॥४७॥
भाजनरपि साद्यस्कैर्न्यस्तः पक्वैश्च शालिभिः ॥
तादृशैः साधनैः सर्वैस्तादृशैर्द्रव्यसंचयैः ॥४८॥
अपूर्वदृष्टविभवैः कार्यं स्यादुपकारणम् ॥
सिद्धे तथोपकरणेऽस्याः सद्योऽस्तु स्वयंवरः ॥४९॥
इति तासां वचः श्रुत्वा विहसन्महिषोऽभ्यधात् ॥
तपःफलमहं प्राप्तः सत्यमस्या इति स्थितम् ॥
मदीया सकलां भूतिं शृणु बाले तपस्विनि ॥५०॥
महिषोऽहं महावीरो दैत्येन्द्रः सुरवंदितः ॥
जगत्त्रयमिदं सर्वं मयैव परिगृह्यते ॥५१॥
अनन्यवीरसद्भावो मय्येव भुजशुष्मणा ॥
कामरूपोस्म्यहं बाले सर्वभोगप्रदायकः ॥५२॥
भज मां तव भर्त्तारं प्राणिनां तपसः फलम् ॥
सर्वं संपादयिष्यामि कल्पवृक्षैः समाहृतैः ॥५३॥
सृजामि तपसा चाहं विश्वकर्माणमादितः ॥
कामधेनुसहस्राणि सृजामि तपसा क्षणात् ॥५४॥
नवभिर्निधिभिः प्राप्तैः पार्श्वस्थैर्नित्यदा मम ॥
अपेक्षितार्थसंसिद्धिः सहसैवोपपाद्यते ॥५५॥
इति तस्य वचः श्रुत्वा स्मृतदेवाभवत्क्रमात् ॥
विसृज्य मौनं शनकैर्विहसंती तमब्रवीत् ॥५६॥
अहं बलवतो भार्या भविष्यामि तपश्चिरम् ॥
करोमि यद्यसि बली बलं दर्शय मे निजम् ॥५७॥
विरच स्त्रीस्वभावं स्वं श्रुत्वा तद्वाक्यमुत्थितम् ॥
हते कोयमिति क्रोधान्ननर्द महिषासुरः ॥५८॥
जिघृक्षतं समायांतं वीक्ष्य तं महिषासुरम् ॥
अभूद्दुरासदा दुर्गा कन्या सा ज्वलनाकृतिः ॥५९॥
महामायां समालोक्य ज्वलंती पुरतः स्थिताम् ॥
स्वयं स महिषाकारो ववृधे मेरुसन्निभः ॥६०॥
कुलभूधरशृंगाणि शृंगाभ्यां मुहुराक्षिपन् ॥
आजुहाव निजां सेनामापूरितदिगंतराम् ॥६१॥
अथ ब्रह्ममुखा देवाः प्रणम्य विविधायुधैः ॥
पूजयामासुरात्मीयैर्दुर्गां कालाग्निरूपिणीम् ॥६२॥
पंचहेतीर्हरिः प्रादाद्दश चापि सदाशिवः ॥
ब्रह्मा चतस्रश्च तदा तस्यै मायातिरोहिताः ॥६३॥
दिक्पालाश्च सुराश्चान्ये पर्वताश्च पयोधयः ॥
स्वीयैराभरणैः शस्त्रैरधृष्यास्तामपूजयन् ॥६४॥
माया सा बहुभिर्हस्तैर्ज्वलदायुधसंचयैः ॥
आबद्धकवचा तूर्णं दुर्गाभूत्सिंहवाहना ॥६५॥
आपूरितदिशाभोगा तेजस्तत्सोढुमक्षमः ॥
दुर्गाया घोरमालोक्य महिषस्तु पलायितः ॥६६॥
अथ तेजो निजं घोरं प्रज्वलत्सोढुमक्षमम् ॥
पलायमानमालोक्य महिषं सा व्यचिंतयत् ॥६७॥
उपायेन निहंतव्यो दुष्टोऽयं महिषासुरः ॥
मदपूर्वं निवृत्यंते मृगा मृगयुभिर्वने ॥६८॥
दूतोक्तिभिः समाकृष्य मृद्वीभिर्मर्मवृत्तिभिः ॥
कोपमस्य समुद्भाव्य करिष्येभिमुखं क्षणात् ॥६९॥
अधर्मवृत्तियुक्तानां धर्मवाक्यपरिश्रवात् ॥
कोपः समुद्भवेत्सद्यः स्वजीवक्षयकारणम् ॥७०॥
अथवा धर्मबुद्धिस्सन्यदि शांतो भविष्यति ॥
तदा हितोपदेशेन धर्मलोपो न संभवेत् ॥७१॥
तपस्यद्भिः सदा कार्यः कोपत्यागः फलान्वितः ॥
धर्महानिर्न सोढव्या तत्कोपो हि तपः परम् ॥७२॥
इति संचिंत्य सा गौरी नाम्ना सुरगुरुं मुनिम् ॥
संकल्प्य वानरमुखं प्राहिणोदसुरं प्रति ॥७३॥
गच्छ त्वं मायया युक्तो महर्षे वानरानन ॥
महिषं बोधयित्वा च वचनं शीघ्रमाव्रज ॥७४॥
मैव त्वमरुणाद्रीशमुपपीडय दुर्मते ॥
अत्र दुर्मनसां वीर्यमदृश्यं भवति क्षणात् ॥७५॥
न कलेरुपतापोऽत्र नासुरैरपि पीडनम् ॥
न साहसं च शुभदं शिवभक्तिमतामपि ॥७६॥
पूर्वजन्मकृतैः पुण्यैर्लब्धवीर्यमहोदयः ॥
मा त्वं शोणाचलेशाग्नौ शलभत्वं भजासुर ॥७७॥
शिवेन दत्ता विभवास्तव पूर्वतपोबलात् ॥
दह्येरन्यत्र तरसा दाववह्नौ यथा द्रुमाः ॥७८॥
अत्र धर्मात्मनां वासः शिवभक्तिमतां सदा ॥
परपीडाप्रसक्तानां भवेद्रोगशतावृतः ॥७९॥
ऐश्वर्य्यमतुलं प्राप्तो बलमन्यद्दुरासदम् ॥
किमर्थं स्वल्पबुद्धिः सन्स्वदोषैर्नाशमेष्यसि ॥८०॥
मया कन्या पुनर्दृष्टा विशेषादबला मता ॥
अंतर्गतोरुणाद्रीश एतस्मात्सा विशिष्यते ॥८१॥
अथवा युक्तिभेदैस्त्वं शास्त्रैर्वा शिवसंमतैः ॥
अनिग्राह्यमनोवृत्तिरात्मसैन्यं समानय ॥८२॥
येन लोकान्समस्तांस्त्वं बाधसे बलगर्वितः ॥
तत्सैन्यं तव वृद्धं च क्षणाद्धक्ष्यामि तेजसा ॥८३॥
आनीय सकलं सैन्यमग्रे स्थापय सायुधम् ॥
सद्यस्त्वात्मबलैः सृष्टेः संहरिष्यामि तत्क्षणात् ॥८४॥
मच्छस्त्र परिकृत्तस्य ससैन्यस्य तवायुषः ॥
मुक्तिरत्रैव भविता को जानाति शिवेहितम् ॥८५॥
वार्यमाणोऽपि पूर्वेण कर्मणा प्रेरितो जनः ॥
अवशः कर्म कुरुते भुंक्ते च सदृशं फलम् ॥८६॥
त्वयापि करुणावाक्यं वक्तव्यं किल भूरिभिः ॥
अकार्यविनिवृत्त्यर्थं नित्यधर्मानुपालने ॥८७॥
इति गौर्या समादिष्टा वाचं कपिमुखो मुनिः ॥
दूतः सन्सर्वमाचष्ट महिषस्याग्रतः स्थितः ॥८८॥
सोऽपि सर्वं समाकर्ण्य क्रोधवेगसमाकुलः ॥
तं भक्षयितुमारेभे सोपि मायाबलाद्ययौ ॥८९॥
अथ सैन्यं निजं सर्वं समाहूय दुराशयः ॥
सन्नद्धं सायुधं योद्धुमादिशल्लोकभीषणम् ॥९०॥
युगांतसमयोद्वेलचतुरर्णवसंनिभम् ॥
सैन्यानां सैन्यमतुलं शोणाद्रिं पर्यवेष्टयत् ॥९१॥
अथ गौरी समालोक्य दैत्यानां सैन्यमद्भुतम् ॥
ससर्ज तैजसाञ्शूरान्घोरान्भूतगणान्बहून् ॥९२॥
एकपादाक्षिचरणा लंबकर्णपयोधराः ॥
पाणिपादशिरःकुक्षिवक्त्राः केचिद्विनिर्गताः ॥९३॥
अहं ग्रसामि सकलमपर्याप्तमिदं मम ॥
अहमेव हनिष्यामि दैत्यसैन्यमशेषतः ॥९४॥
किं त्वयात्र पुनः कार्यं वीक्ष्य त्वं तिष्ठ केवलम् ॥
अहमेवात्र योत्स्यामीत्यभाषंत परस्परम् ९५॥
तेषां कथयतां शंखं गणानां योगिनीगणैः ॥
अधमत्सा भगवती हंतुं तद्दैत्यमंडलम् ॥९६॥
आलोक्य तां तथारूपामापतंस्तस्य सैनिकाः ॥
दर्शयंतः स्ववीर्याणि स्वामिनोग्रे धृतायुधाः ॥९७॥
ववृषुः शस्त्रवर्षाणि दैत्याः प्रतिदिगन्तरम् ॥
बाणैः कार्मुकनिर्मुक्तैस्तानि सा तु न्यवारयत् ॥९८॥
रथानां वारणेंद्राणां हयानां लक्षकोटिभिः ॥
युयुधुर्भूतवेताला देव्या सृष्टास्तु दुर्जयाः ॥९९॥
मातरो विविधाकारा डाकिन्यो योगिनीगणाः ॥
सृष्टाश्च तेजसा भूयः पिशाचाः प्रेतराक्षसाः ॥१००॥
देव्या सृष्टेन सैन्येन दुर्जयेन महासुराः ॥
भक्षिताश्चूर्णिता भिन्ना दारिता निहताः क्षणात् ॥१०१॥
देवी च सायुधा दृष्टा ज्वलंती निहतासुरैः ॥
नृत्यद्भूतगणैर्भुक्तै रक्तैर्मांसैश्च तोषितैः ॥१०२॥
यदा कैलासशिखरात्प्राप्ता कर्त्तुं तपो भुवम् ॥
तदा समागताः काश्चिन्मातृका देहगुप्तये ॥१०३॥
दुंदुभिः सत्यवत्याख्या तथा चान्तवती परा ॥
सुंदरीति चतस्रस्ता अन्वयुः परिचारिकाः ॥१०४॥
देव्या सृष्टा च चामुंडा दंष्ट्रावलयभीपणा ॥
दैत्यकृत्तिवसा मांसरक्ततृप्ता चचार सा ॥१०५॥
असुरं कंचिदाक्रम्य नटनं सा चकार ह ॥१०६॥
अथ तां समवेक्ष्य दुर्मदो हि ज्वलयामास च कोपवह्निना सः ॥
अतितीव्रविवृत्तभीष्मनेत्रश्रुतिशृंगाग्रविभिन्नमेघजालः ॥१०७॥
ज्वलदग्निशिखाभदीर्घजिह्वापरिलीढोन्नतशैलशृंगभागः ॥
अवनिं दलयन्खुराभिघातैरसकृत्पांसुभिरास्वनन्दिगंतान् ॥१०८॥
अतिघर्घर दीर्घघोरनादस्फुटदंडभ्रममोहितामरो यः ॥
धृतवालधिदंडताड्यमानप्रतिशीर्णामितशस्त्रवर्षसंघः ॥१०९॥
मृतये व्यगमद्बलित्रयाढ्यां मृगराजस्थितिभासुरां भवानीम् ॥११०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे देव्यास्तपश्चर्यायां महिषासुरेण सह युद्धवर्णनंनाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP