अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः ६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ गौतम उवाच ॥
पुरा नारायणः कल्पे शयानः सलिलार्णवे ॥
शेषपर्यंकशयने कदाचिन्नैव बुध्यत ॥१॥
तमसा पूरितं विश्वमपज्ञातमलक्षणम् ॥
वीक्ष्य कल्पावसानेऽपि विषेदुर्नित्यसूरयः ॥२॥
अहो कष्टमिदं रूपं तमसा विश्वमोहनम् ॥
येन कल्पावसानेपि विष्णुर्नाद्यापि बुध्यते ॥३॥
ज्योतिषः पुरुषं पूर्णमपश्यंतं सुरा अपि ॥
कथं वा तमसः शांतिं लभेरन्परिभाविनः ॥४॥
इति निश्चित्य मनसा देवदेवमुमापतिम् ॥
चिंतयामासुरात्मस्थं तेजोराशिं निरंजनम् ॥५॥
ततः प्रसन्नो भगवांस्तेजोराशिर्महेश्वरः ॥
विश्वावनाय विज्ञप्तः प्रणतैर्नित्यसूरिभिः ॥६॥
ततस्तेजोमयाच्छंभोः स्फुलिंगांशुसमुद्भवाः ॥
उदस्तंभंत देवानां त्रयस्त्रिंशच्च कोटयः ॥७॥
बोधितः सकलैर्देवैः समुत्थाय रमापतिः ॥
प्रभातं वीक्ष्य सकलं मनस्येवमचिन्तयत् ॥८॥
मया तमसि उद्रेकादकाले शयनं कृतम् ॥
प्रबोधाय परं ज्योतिः स्वयं दृष्टः सदाशिवः ॥९॥
जगदुत्पत्तिकृत्यानि स्वयं कर्तुं व्यवस्यति ॥
किं मयात्र पुनः कार्यं ब्रह्मणा वा स्वयंभुवा ॥१०॥
धिङ्मां स्थितमनात्मज्ञं निद्रया हृतचेतसम् ॥
अथवा सर्वकर्तारं शरणं यामि शंकरम् ॥१ १॥
सर्वदोषप्रशमनं सर्वाभीष्टफलप्रदम् ॥
पवित्रमल्पपुण्यानां दुर्लभं शंभुदर्शनम् ॥१२॥
चिंतयन्नेवमात्मस्थं ज्योतिर्लिंगं सदाशिवम् ॥
प्रणनाम हरिर्भक्त्या देवमष्टांगतो मुहुः ॥१३॥
विश्वस्रष्टारमीशानं तुष्टाव दुरितच्छिदम् ॥
अथ तेजोमयः शंभुः शरण्यः शरणागतम् ॥१४॥
अनुगृह्य कटाक्षैस्तं समुत्तिष्ठेत्यभाषत ॥
उत्थाय करुणापूर्णं शंभुं चंद्रार्द्धशेखरम् ॥१५॥
नमस्त्रिभुवनेशाय त्रिमूर्तिगुणधारिणे ॥
त्रिदेववपुषे तुभ्यं त्रिदृशे त्रिपुरद्रुहे ॥१६॥
त्वमेव जगतामीशो निजांशैर्देवतामयैः ॥
कार्यकारणरूपेण करोषि स्वेच्छया क्रियाः ॥१७॥
मां नियुज्य जगद्गुप्तौ परिमोह्य च मायया ॥
न दोषमुत संकल्पं विहातुमपि नेच्छसि ॥१८॥
किं करोमि जगन्मूर्त्तौ न्यस्तभारोऽस्म्यहं त्वयि ॥
न दोषमीहसे नूनमकालशयनेन माम् ॥१९॥
हर शम्भो हरेरार्तिमनुतापं समीक्ष्य सः ॥
आदिदेश हरः श्रीमान्प्रायश्चित्तं हरेरिदम् ॥२०॥
अरुणाचलरूपेण तिष्ठामि वसुधातले ॥
तस्य दर्शनमात्रेण भविता ते तमः क्षयः ॥२१॥
पूर्वस्मै विष्णवे तत्र वरो दत्तो मया पुरा ॥
तदैव तैजसं लिंगमरुणाचल संज्ञितम् ॥
तेजोमयमिदं रूपं प्रशांतं लोकरक्षणात् ॥
यदग्निमयमव्यक्तमपारगुणवैभवम् ॥२३॥
नदीनां निर्झराणां च मेघमुक्तांभसामपि ॥
अंतर्ज्योतिर्मयत्वेन लयस्तत्रैव दृश्यते ॥२४॥
अंधानां दृष्टिलाभेन पंगूनां पादसंचरैः ॥
अपुत्राणां च पुत्राप्त्या मूकानां वाक्प्रवृत्तिभिः ॥२५॥
सर्वसिद्धिप्रदानेन सर्वव्याधिविमोचनैः ॥
सर्वपापप्रशमनैर्यत्सर्ववरदं स्थितम् ॥२६॥
इत्युक्तांतर्दधे शम्भुर्हरिश्चैवारुणाचलम् ॥
आगत्य तप आस्थाय शोणाचलमुपास्त च ॥२७॥
तमद्रिं परितो दृष्ट्वा सुरान्काननसंश्रयान् ॥
ऋषीणामाश्रमान्पुण्यान्स्थापयामास वै हरिः ॥
वेदान्सांगोपनिषदान्समंतान्मूर्तिधारिणः ॥२८॥
ससर्ज दिव्यरूपाणां शतमप्सरसां कुलम् ॥
नृत्यैर्गीतैश्च वादित्रैस्सेवध्वमिति चादिशत् ॥२९॥
स्नात्वा ब्रह्मसरस्यस्मिन्विष्णुः कमललोचनः ॥
प्रदक्षिणं चकारामुमरुणाद्रिं समर्चितम् ॥३०॥
अपापः सर्वलोकानामाधिपत्यं च लब्धवान् ॥
रमया सहितो नित्यमभिरूपसुरूपया ॥३१॥
भास्करस्तेजसां राशिरसुरैरपि पीडितः ॥
ब्रह्मोपदेशादानर्च भक्त्यारुणगिरीश्वरम् ॥३२॥
निमज्ज्य विमले तीर्थे पावने ब्रह्मनिर्मिते ॥
प्रदक्षिणं चकारैनमरुणार्द्रि स्वयंप्रभुम् ॥३३॥
अशेषदैत्यविजयं लब्ध्वा मेरुप्रदक्षिणम् ॥
लेभे च परमं तेजः परतेजःप्रणाशनम् ॥३४॥
दक्षशापानलाक्रांतस्सोमः शिववचोबलात् ॥
अरुणाचलमभ्यर्च्य लब्धरूपोऽभवत्पुनः ॥३५॥
अग्निर्ब्रह्मर्षिशापेन यक्ष्मरोगप्रपीडितः ॥
अपूतोऽपि पवित्रोऽभूदरुणाचलसेवया ॥३६॥
शक्रो वृत्रं बलं पाकं नमुचिं जृंभमुद्धृतम् ॥
शिवलब्धवरान्दैत्यान्पुरा हत्वा जगत्पतीन् ॥३७॥
पातकैश्च परिक्षीणस्तथा लोकांतमाश्रितः ॥
शम्भुं प्रसाद्य तपसा शिवेन परिचोदितः! ॥३८॥
अरुणाद्रिं समभ्यर्च्य विपापोऽभूत्सुराधिपः ॥
इष्ट्वा च हयमेधेन प्रीणयामास शंकरम् ॥३९॥
लब्ध्वा चेन्द्रपदं शक्रः शतमप्सरसांकुलम् ॥
सेवार्थमादिशन्छ्रीमान्दिव्यदुंदभिसेवया ॥४०॥
पुष्पमेघान्समादिश्य दिव्याभिः पुष्पवृष्टिभिः ॥
समर्चयति शोणाद्रिं दिवि नित्यं च वंदते ॥४१॥
शेषोऽपि शोणशैलेशं समभ्यर्च्य शिवाज्ञया ॥
अभजत्कामरूपत्वं महीमण्डलधारकः ॥४२॥
अन्ये नागाश्च गन्धर्वाः सिद्धाश्चाप्सरसां गणाः ॥
दिक्पालाश्च तमभ्यर्च्य लेभिरेऽपेक्षितान्वरान् ॥४३॥
देवैरशेषैर्दैत्यादीञ्जेतुकामैः समुद्यतैः ॥
प्रार्थितः सर्वतोऽभीष्टवरदोऽरुणभूधरः ॥४४॥
त्वष्ट्रा विरचिताकार आदित्यस्तेजसा तपन् ॥
ग्रहनाथस्तु शोणाद्रिं विलंघयितुमुद्यतः ॥४५॥
रथवाहाः पुनस्तस्य शक्तिहीनाः श्रमं गताः ॥
सोऽपि श्रिया विहीनश्च जातः गोणाद्रितेजसा ॥४६॥
नाशक्नोच्च दिवं गन्तुं सर्वगत्यांशुमालिनः ॥
स तु ब्रह्मोपदेशेन समाराध्यारुणाचलम् ॥४७॥
प्रीत्या तस्माद्विभोर्लेभे मार्गं व्योम्नो हयाञ्छुभान् ॥
ततः प्रभृति तिग्मांशुः स हि शोणाख्यपर्वतम् ॥४८॥
न लंघयति किं त्वस्य प्रदक्षिणपरिक्रमैः ॥
दक्षयागपरिध्वस्ता हीनांगास्त्रिदशाः पुरा ॥४९॥
अरुणाचलमाराध्य नवान्यंगानि लेभिरे ॥
पूषा दन्तं शिखी हस्तं भगो नेत्रं त्वखंडितम् ॥५०॥
घ्राणं वाणी च लेभे सा शोणाचलनिषेवणात् ॥
भार्गवः क्षीणनेत्रस्स विष्णुहस्तकुशाग्रतः ॥५१॥
बलिदत्तावनीदानजलधारानिरोधतः ॥
स तु शोणाचलं गत्वा तपः कृत्वातिदुष्करम् ॥५२॥
लेभे नेत्रं च पूतात्मा भास्कराख्ये गिरौ स्थितः ॥
अरुणाचलनाथस्य सेवया सूर्यसारथिः ॥५३॥
प्रतर्दनाख्यो नृपतिर्ग्रहीतुं देवकन्यकाम् ॥
अरुणाद्रिपतेर्गानं कुर्वंतीं सादरोऽभवत् ॥५४॥
क्षणात्कपिमुखो जातो मंत्रिभिश्चोदितो नृपः ॥
प्रत्यर्प्य तां पुनश्चान्याः प्रादादरुणभूभृते ॥५५॥
ततश्चारुमुखोजातः प्रसादादरुणेशितुः ॥
सायुज्यमस्मै सकलं दत्तवान्भक्तिभावतः ॥५६॥
अरुणाचलनाथस्यसंनिधौ ज्ञानदुर्बलः ॥
गंधर्वः पुष्पकाख्यस्तु भक्तिहीनो ह्यगात्पुरा ॥५७॥
ततो व्याघ्रमुखं दृष्ट्वा गंधर्वपरिचारकाः ॥
किमेतदिति साश्चर्यं पप्रछुस्ते परस्परम् ॥५८॥
अथ नारद निर्दिष्टमवज्ञाफलमात्मनः ॥
बुद्ध्वारुणाद्रिं संपूज्य पुनश्च सुमुखोऽभवत् ॥५९॥
शिवभूमिरियं ख्याता परितो योजनद्वयम् ॥
मुक्तिस्तत्र प्रमीतानां कदापि विलयो न हि ॥६०॥
सप्तर्षयः पुरा भूमौ शापदोषसमन्विताः ॥
सिषेविरेरुणाद्रिं वै नाथो ज्ञात्वा विनिश्चयम् ॥६१॥
शापमोक्षं ददौ श्रीमान्सप्तर्षीणां महात्मनाम् ॥
सप्तर्षिभिः कृतं तीर्थं सर्वपापविनाशनम् ॥६२॥
शोणाचलस्य निकटे दृश्यते पावनं शुभम् ॥
पंगुर्मुनिः शोणशैलात्पादौ लब्धुं समागतः ॥६३॥
अंतर्हितप्रार्थितार्थो दारुहस्तपुटे वहन् ॥
जानुचंक्रमणव्यग्रः शोणनद्यास्तटं गतः ॥६४॥
दारुहस्तपुटे तीर्थे निचिक्षेप पिपासतः ॥
जानुचंक्रमणे तस्मिन्धूर्तस्तोयं पिपासति ॥६५॥
अथ शोणाचलं प्राप्तः कथं वा दारुहस्तकः ॥
किमेतदिति तं पृच्छन्नाधावत्कलितत्परः ॥६६॥
लब्धपादश्च सहसा जगाम च निजालयम् ॥
नाद्राक्षीत्पुरुषं तत्र दारुहस्तौ पुरोगमौ ॥६७॥
स्वयं गृहीत्वा चालोक्य ववंदेऽरुणपर्वतम् ॥
ननंद लब्धचरणो लब्धरूपो महामुनिः ॥६८॥
विस्मयोत्फुल्लनयनैः शिवभक्तैर्महात्मभिः ॥
पूजितो लब्धपादः सञ्जगाम च यथागतम् ॥६९॥
वाली शक्रसुतः श्रीमाञ्छ्रंगादुदयभूभृतः ॥
अस्ताचलस्य शिखरं प्रतिगन्तुं समुद्यतः ॥७०॥
आलुलोकेऽरुणगिरिं मध्ये देवनमस्कृतम् ॥
ऊर्ध्वं गंतुं समुद्युक्तः क्षीणवीर्योऽपतद्भुवि ॥७१॥
पित्रा शक्रेण संगम्य चोदितः शोणपर्वतम् ॥
लिंगं तैजसमभ्यर्च्य लब्धवीर्योऽभवत्पुनः ॥७२॥
नलः पूर्वं समभ्यर्च्य स्वसृष्टा मानवप्रियाः ॥
पालयामास धर्मात्मा नीतिसारसमन्वितः ॥७३॥
इलः प्रविश्य सहसा गौरीवनमखंडितम् ॥
स्त्रीभावं समनुप्राप्तः पप्रच्छ स्वं पुरोधसम् ॥७४॥
वशिष्ठेन समादिष्टः शोणाद्रिं समपूजयत् ॥
तपसाराध्य देवेशं पुनः पुंस्त्वमुपागतः ॥७५॥
सोमोपदेशाद्भक्त्याथ सस्मारारुणपर्वतम् ॥
ईशानुग्रहतो लेभे शापमोक्षं तपोधिकः ॥७६॥
लेभे च परमं स्थानमप्राप्यममरैरपि ॥
भरतो मृगशावस्य स्मरणादायुषोऽत्यये ॥७७॥
न मुक्तिं प्राप योगेन मृगजन्मनि संगतः ॥
पत्नीविरहजं दुःखं प्राप्तवानमितं हरिः ॥७८॥
पुनर्भृगूपदेशेन शोणाद्रिमिममर्चयन् ॥
अवतारेषु सर्वेषु सर्वदुःखान्यपाकरोत् ॥७९॥
सरस्वती च सावित्री श्रीर्भूमिः सरितस्तथा ॥
अभ्यर्च्य शोणशैलेशमापदो निरतारिषुः ॥८०॥
भास्करः पूर्वदिग्भागे विश्वामित्रस्तु दक्षिणे ॥
पश्चिमे वरुणो भागे त्रिशूलं चोत्तराश्रयम् ॥८१॥
योजनद्वयपर्यंते सीमाः शैलेषु संस्थिताः ॥
चतस्रो देवतास्त्वेताः सेवंते शोणपर्वतम् ॥८२॥
स्थिताः सीमावसानेषु शोणाद्रीशमवस्थितम् ॥
नमंति देवाश्चत्वारः शिवं शोणाचलाकृतिम् ॥८३॥
अस्योत्तरस्मिञ्छिखरे दृश्यते वटभूरुहः ॥
सिद्धवेषः सदैवास्ते यस्य मूले महेश्वरः ॥८४॥
यस्य च्छायातिमहती सर्वदा मण्डलाकृतिः ॥
लक्ष्यते विस्मयोपेतैः सर्वदा देवमानवैः ॥८५॥
अष्टभिः परितो लिंगैरष्टदिक्पालपूजितैः ॥
अष्टासु संस्थितैर्दिक्षु शोभते ह्युपसेवितः ॥८६॥
नृपाणां शम्भुभक्तानां शंकराज्ञानुपालिनाम् ॥
अत्रैव महदास्थानमादिदेवेन निर्मितम् ॥८७॥
बकुलश्च महांस्तत्र सदार्थितफलप्रदः ॥
आगमार्थविदा मूले वामदेवेन सेव्यते ॥८८॥
अगस्त्यश्च वशिष्ठश्च संपूज्यारुणभूधरम् ॥
संस्थाप्य लिंगे विमले तेपाते तादृशं तपः ॥८९॥
हिरण्यगर्भतनयः पुरा शोणनदः पुमान् ॥
अत्र तीव्रं तपस्तप्त्वा गंगाभिमुखगोऽभवत ॥९०॥
अत्र शोणनदी पुण्या प्रवहत्यमलोदका ॥
वेणा च पुण्यतटिनी परितः सेवतेऽचलम् ॥९१॥
वायव्याश्च दिशो भागे वायुतीर्थं च शोभते ॥
तत्र स्नात्वा मरुत्पूर्वं जगत्प्राणत्वमाप्तवान् ॥९२॥
उत्तरेऽस्य गिरेस्तीर्थं सुवर्णकमलोज्ज्वलम् ॥
दिव्यसौगंधिकाकीर्णं हंसभृंगमनोहरम् ॥९३॥
कौबेरं तीर्थमेशान्यामैशान्यं तीर्थमुत्तमम् ॥९४॥
तस्यैव पश्चिमे भागे विष्णुः कमललोचनः ॥
स्नात्वा विष्णुत्वमभजत्कमलालालिताकृतिः ॥९५॥
नवग्रहाः पुरा तत्र स्नात्वा ग्रहपदं गताः ॥
नवग्रहप्रसादश्च जायते तत्र मज्जताम् ॥९६॥
दुर्गा विनायक स्कन्दो क्षेत्रपालः सरस्वती ॥
रक्षंति परितस्तीर्थं ग्राहयमेतदनन्तरम् ॥९७॥
गंगा च यमुना चैव गोदावरी सरस्वती ॥
नर्मदासिन्धुकावेर्यः शोणः शोर्णनदी च सा ॥९८॥
एता गूढा निषेवंते पूर्वाद्याशासु संततम् ॥
नश्यंत्यः सकलं पापमात्मक्षेत्रसमुद्भवम् ॥९९॥
अन्याश्च सरितो दिव्याः पार्थिव्यश्च शुभोदकाः ॥
उदजृंभंत सहसा शोणाद्रीशप्रसादतः ॥१००॥
आगस्त्यं दक्षिणे भागे तीर्थं महदुदाहृतम् ॥
सर्वभाषार्थसंसिद्धिर्जायते तत्र मज्जताम् ॥१०१॥
अत्रागस्त्यः समागत्य स्नात्वा मुनिगणावृतः ॥
अभ्यर्चयति शोणाद्रिं मासि भाद्रपदे सदा ॥१०२॥
वाशिष्ठमुत्तरे भागे तीर्थं दिव्यं शुभोदयम् ॥
सर्ववेदार्थसंसिद्धिर्जायते तत्र मज्जनात् ॥१०३॥
अत्र मेरोः समागत्य वशिष्ठो भगवानृषिः ॥
करोत्याश्वयुजे मासि शोणाद्रीशनिषेवणम् ॥१०४॥
गंगानाम महत्तीर्थं पूर्वोत्तरदिशि स्थितम् ॥
तत्र स्नानाद्भवेन्नृणां सर्वपातकनाशनम् ॥१०५॥
गंगाद्याः सरितः सर्वाः कार्त्तिके मासि संगताः ॥
अत्रारुणाद्रिनाथस्य सेवां कुर्वंति सादरम् ॥१०६॥
ब्राह्म्यं नाम महातीर्थमरुणाद्रीशसन्निधौ ॥
तस्योपसंगमात्सद्यो ब्रह्महत्यादि नश्यति ॥१०७॥
मार्गे मासि समागत्य ब्रह्मलोकात्पितामहः ॥
स्नात्वा तत्प्रत्यहं देवमर्चयत्यरुणाचलम्  १०८॥
पौषे मासि समागत्य स्नात्वा तीर्थे निजैः सुरैः ॥
महेन्द्रः शोणशैलेशमभ्यर्चयति शंकरम् ॥१०९॥
शैवंनाम महातीर्थं संनिधौ तत्र वर्तते ॥
रुद्रो ब्रह्मकपालेन सह तत्र न्यमज्जत ॥११०॥
अत्र शम्भुर्गणैः सार्द्धं माघे मासि प्रसीदति ॥
प्रायश्चित्तानि सर्वाणि नॄणां सफलयन्भुवि ॥१११॥
आग्नेयमग्निदिग्भागे तीर्थं सौभाग्यदायकम् ॥
अग्निरत्र पुरा स्नात्वा स्वाहया संगतः सुखी ॥११२॥
अनंगोपि स्मरः स्नात्वा फाल्गुने मासि संगतः ॥
अभ्यर्च्य शोणशैलेशमभूत्सर्वसुखाधिपः ॥११३॥
दिशि दक्षिणपूर्वस्यां वैष्णवं तीर्थमद्भुतम् ॥
ब्रह्मर्षयः सदा तत्र वसंति कृतकौतुकाः ॥११४॥
चैत्रे मासि समागत्य विष्णुस्तत्र रमापतिः ॥
स्नात्वाभ्यर्च्यारुणाद्रीशमभवल्लोकनायकः ॥११५॥
सौरंनाम महातीर्थं कौबेरदिशि जृंभितम् ॥
सर्वरोगोपशांतिश्च जायते तत्र मज्जनात् ॥११६॥
वैशाखे मासि दिनकृत्स्नात्वात्रेशं निषेवते ॥
वालखिल्यैः समं श्रीमान्वेदैश्च सह संगतः ॥११७॥
आश्विनं पावनं तीर्थमीशब्रह्मोत्तरे स्थितम् ॥
आप्लुतौ भिपजौ दस्रौ पूतावत्र निमज्जनात् ॥११८॥
अत्राश्विनौ समागत्य स्नात्वाभ्यर्च्य च शंकरम् ॥
दक्षिणे शोण शैलस्य निकटे वर्त्तते शुभम् ॥११९॥
कामदं मोक्षदं चैव तीर्थं पांडवसंज्ञितम् ॥
पुरा हि पांडवास्तत्र मजनात्क्षितिनायकाः ॥१२०॥
अत्र धात्री समागत्य सर्वौषधिफलान्विता ॥
ज्येष्ठे मासि समं देवैरार्चयच्चारुणाचलम् ॥१२१॥
आषाढे मासि संत्यक्ता विश्वेदेवा महाबलाः ॥
अभ्यर्च्य शोणशैलेशमागच्छन्मखराध्यताम् ॥१२२॥
वैश्वदेवं महातीर्थं सोमसूर्योत्तराश्रयम् ॥
विश्वाधिपत्यमतुलं लभ्यते तत्र मज्जनात् ॥१२३॥
परितो लक्ष्यते तीर्थं पूर्वस्यां दिशि शोभने ॥
अत्र लक्ष्मीः पुरा स्नात्वा लेभे पुरुषमुत्तमम् ॥१२४॥
उत्तरस्यां दिशि पुरा पुण्या स्कंदनदी स्थिता ॥
अत्र स्नात्वा पुरा स्कंदः संप्राप्तो विपुलं बलम् ॥१२५॥
पश्चिमस्यां दिशि ख्याता परा कुंभनदी शुभा ॥
अगस्त्यः कुंभकः कुंभस्तत्र नित्यं व्यवस्थितः ॥१२६॥
गंगा च मूलभागस्था यमुना गगने स्थिता ॥
सोमोद्भवा शिरोभागे सेवंते शोणपर्वतम् ॥१२७॥
बहून्यपि च तीर्थानि संभूतानि समंततः ॥
तेषां भेदान्पुरा वेत्तुं मार्कण्डेयस्तु नाशकत् ॥१२८॥
तपोभिर्बहुभिस्सोयं शोणाद्रीशमतोषयत् ॥
प्रार्थयामास च वरं प्रीतात्तस्मान्मुनीश्वरः ॥१२९॥
 ॥ मार्कण्डेय उवाच
भगवन्नरुणाद्रीश तीर्थभेदाः सहस्रशः ॥
प्रख्याताश्च प्रकाशंते दुर्बोधास्त्वल्पचेतसाम् ॥१३०॥
कथमेकत्र सांनिध्यं लभेरन्भुवि मानवाः ॥
अपर्याप्तश्च भवति पृथगेषां निषेवणे ॥१३१॥
अंतर्निगूढतेजास्त्वं गत्वा यस्सकलैः सुरैः ॥
आरण्यसे कुरु तथा शोणाद्रिस्पर्शभीरुभिः ॥१३२॥
अहं च शंभुमभ्यर्च्य तपसारुणपर्वतम् ॥
सर्वलोकोपकारार्थं सूक्ष्म लिंगमपूजयम् ॥१३३॥
विश्वकर्मकृतं दिव्यं विमानं विविधोत्सवम् ॥
संकल्प्य सकलान्भोगान्नित्यानजनयत्पुनः ॥१३४॥
धर्मशास्त्राणि विविधान्यवापुर्मुनिपुंगवाः ॥
शिवकार्याणि सर्वाणि चक्रुभक्तिसमन्विताः ॥१३५॥
मया च शंभुमभ्यर्च्य कृताग्न्याहुतिसंभवाः ॥
सप्त कन्या वरारोहाः पूजार्थं विनियोजिताः ॥१३६॥
हतशत्रुगणैभूपैर्लब्धराज्यैः पुरा नृपैः ॥
प्रत्येकं विविधैर्भोगैः शोणशैलाधिपोर्चितः ॥१३७॥
इदमनुभववैभवं विचित्रं दुरितहरं शिवलिंगमद्रिरूपम् ॥
अमलमनभिगम्यनामधेयं वरमरुणाद्रिनायकं भजस्व ॥१३८॥
अवनतजनरक्षणोचितस्य स्मरणनिराकृतविश्वकल्मषस्य ॥
भजनममितपुण्यराशियोगादरुणगिरेः कृतिनः परं लभस्व ॥१३९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणाचलस्थविविधतीर्थमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP