अरूणाचलमाहात्म्यपूर्वार्धः - अध्यायः ४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ब्रह्मोवाच ॥
अथाभ्यधत्त विजया प्रणम्य जगदम्बिकाम् ॥
सांत्वयन्ती स्तुतिशतैरुपायैः शिवदर्शनैः ॥१॥
देवि त्वमविनाभूता सदा देवेन शंभुना ॥
प्राणेश्वरी त्वमेकासि शक्तिस्तस्य परात्मनः ॥२॥
तथा मायां त्वमात्मीयां संदर्शयितुमीहसे ॥
पृथग्भावमिवेशानः प्रकाशयति न स्वयम् ॥३॥
आदेशं प्रतिगृह्यैव समुपेतासि पार्वति ॥
अलंघनीया सेवाज्ञा शांभवी सर्वदा त्वया ॥४॥
विधातव्यं तपः प्राप्तं स्थानेस्मिच्छिवकल्पिते ॥
निवृत्त्य निखिलान्कामाच्छंमुमाश्रितया त्वया ॥५॥
अन्यथापि जगद्रक्षा त्वदधीना जगन्मयि ॥
धर्मसंरक्षणं भूयः शिवेन सहितं तव ॥६॥
निष्कलं शिवमत्यंतं ध्यायंत्यात्मन्यवस्थितम् ॥
वियोगदुःखं कञ्चित्त्वं न स्मरिष्यसि पार्वति ॥७॥
भक्तानां तव मुख्यानां तवैवाचारसंग्रहः ॥
उपदेशितया लोके प्रथतां धर्मवत्सले ॥८॥
इति तस्या वचः श्रुत्वा गौरी सुस्थिरमानसा ॥
तपः कर्त्तुं समारेभे कंपा नद्यास्तटे शुभे ॥९॥
विमुच्य विविधा भूषा रुद्राक्षगणभूषिता ॥
विसृज्य दिव्यं वसनं पर्यधाद्वल्कले शुभे ॥१०॥
अलकैः सहसा शिल्पमनयच्च कपर्दृताम् ॥
अलिंपत तनूं सर्वां भस्मना मुक्तकुंकुमा ॥११॥
मृगेषु कृतसंतोषा शिलोंछीकृतवृत्तिषु ॥
जजाप नियमोपेता शिवपंचाक्षरं परम् ॥१२॥
कृत्वा त्रिषवणं स्नानं कम्पा पयसि निर्मले ॥
कृत्वा च सैकतं लिंगं पूजयामास सादरम् ॥१३॥
वृक्षप्ररोपणैर्दानैरशेषातिथिपूजनैः ॥
श्रांतिं हरंती जीवानां देवी धर्ममपालयत् ॥१४॥
ग्रीष्मे पंचाग्निमध्यस्था वर्षासु स्थंडिलेशया ॥
हेमन्ते जलमध्यस्था शिशिरे चाकरोत्तपः ॥१५॥
पुण्यात्मनां महर्षीणां दर्शनार्थमुपेयुषाम् ॥
विस्मयं जनयामास पूजयामास सादरम् ॥१६॥
कदाचित्स्वयमुच्चित्य वनांतात्पल्लवान्वितम् ॥
पुष्पोत्करं विशेषेण शोधितुं समुपाविशत् ॥१७॥
कृत्वा च सैकतं लिंगं कंपारोधसि पावने ॥
संपूजयितुमारेभे न्यासावाहनपूर्वकम् ॥१८॥
सूर्यमभ्यर्च्य विधिवद्रक्तैः पुष्पैश्च चंदनैः ॥
पंचावरणसंयुक्तं क्रमादानर्च शंकरम् ॥१९॥
धूपैर्दीपश्च नैवेद्यैर्भक्तिभावसमन्वितैः ॥
अपरोक्षितमीशानमालुलोके पुरोहितम् ॥२०॥
अथ देवः शिवः साक्षात्संशोधयितुमंबिकाम् ॥
कंपानद्याः प्रवाहेण महता पर्यवेष्टयत् ॥२१॥
अतिवृद्धं प्रवाहं तं कम्पायाः समुपस्थितम् ॥
आलोक्य नियमासीनामाहुः सख्यस्तदांबिकाम् ॥२२॥
उत्तिष्ठ देवि बहुलः प्रवाहोऽयं विजृंभते ॥
दिशां मुखानि संपूर्य तरसा प्लावयिष्यति ॥२३॥
इति तद्वचनं श्रुत्वा ध्यायंती मीलितेक्षणा ॥
उन्मील्य वेगमतुलं नद्यास्तं समवैक्षत ॥२४॥
अचिंतयच्च सा देवी पूजाविघ्नसमाकुला ॥
किं करोमि न शक्नोमि हातुमारब्धमर्चनम् ॥२५॥
श्रेयः प्राप्तुमविघ्नेन प्रायः पुण्यात्मनां भुवि ॥
घटते धर्मसंयोगो मनोरथफलप्रदः ॥२६॥
सैकतं लिंगमतुलप्रवाहाल्लयमेष्यति ॥
लिंगनाशे विमोक्तव्यः सद्भक्तैः प्राणसंग्रहः ॥२७॥
प्रवाहोऽयं समायाति शिवमायाविनिर्मितः ॥
विशोधयितुमात्मानं भक्तियुक्तं निजे पदे ॥२८॥
आलिंग्य सुदृढं दोर्भ्यामेतल्लिंगमनाकुलम् ॥
अहं वत्स्यामि याताशु सख्यो यूयं विदूरतः ॥२९॥
इत्युक्ता सैकतं लिगं गाढमालिंग्य सांबिका ॥
न मुमोच प्रवाहेन वेष्ट्यमानापि वेगतः ॥३०॥
स्तनचूचुकनिर्मग्नमुद्रादर्शितलांछनम् ॥
महालिंगं स्वसंयुक्तं प्रणनाम तदादरात् ॥३१॥
निमीलितेक्षणा ध्याननिष्ठैकहृदया स्थिता ॥
पुलकांचितसर्वांगी सा स्मरंती सदाशिवम् ॥३२॥
कंपस्वेदपरित्राणलज्जाप्रणयकेलिदात् ॥
क्षणमप्यचला लिंगान्न वियोगमपेक्षते ॥३३॥
अथ तामब्रवीत्कापि दैवी वागशरीरिणी ॥
विमुंच बालिके लिंगं प्रवाहोऽयं गतो महान् ॥३४॥
त्वयार्चितमिदं लिंगं सैकतं स्थिरवैभवम् ॥
भविष्यति महाभागे वरदं सुरपूजितम् ॥३५॥
तपश्चर्यां तवालोक्य रचितं धर्मपालनम् ॥
लिंगं चैतन्नमस्कृत्य कृतार्थाः संतु मानवाः ॥३६॥
अहं हि तैजसं रूपमास्थाय वसुधातले ॥
वसामि चात्र सिद्ध्यर्थमरुणाचलसंज्ञया ॥३७॥
रुणद्धि सर्वलोकेभ्यः परुषं पापसंचयम् ॥
रुणो न विद्यते यस्मिन्दृष्टे तेनारुणाचलः ॥३८॥
ऋषयः सिद्धगंधर्वा महात्मानश्च योगिनः ॥
मुक्त्वा कैलासशिखरं मेरुं चैनमुपासते ॥३९॥
मदंश जातयोः पूर्वं युध्यतोर्ब्रह्मकृष्णयोः ॥
अहं मोहमपाकर्त्तुं तेजोरूपो व्यवस्थितः ॥४०॥
ब्रह्मणा हंसरूपेण विष्णुना क्रोडरूपिणा ॥
अदृष्टशेखरपदः प्रणतो भक्तियोगतः ॥४१॥
ततः प्रसन्नः प्रत्यक्षस्तस्यां वरमभीप्सितम् ॥
प्रादां जगत्त्रयस्यास्य संरक्षायां तु कौशलम् ॥४२॥
प्रार्थितश्च पुनस्ताभ्यामरुणाचलसंज्ञया ॥
अनैषि तैजसं रूपमहं स्थावरलिंगताम् ॥४३॥
गत्वा पृच्छ महाभागं मद्भक्तिं गौतमं मुनिम् ॥
अरुणाचलमाहात्म्यं श्रुत्वा तत्र तपश्चर ॥४४॥
तत्र ते दर्शयिष्यामि तैजसं रूपमात्मनः ॥
सर्वपापनिवृत्त्यर्थं सर्वलोकहिताय च ॥४५॥
इति वाचं समाकर्ण्य निष्कलात्कथितां शिवात् ॥
तथेति सहसा देवी गंतुं समुपचक्रमे ॥४६॥
अथ देवानृषीन्सर्वान्पश्चात्सेवार्थमागतान् ॥
अवादीदंबिकालोक्य स्नेहपूर्णेन चक्षुषा ॥४७॥
तिष्ठतात्रैव वै देवा मुनयश्च दृढव्रताः ॥
नियमांश्चाधितिष्ठंतः कंपारोधसि पावने ॥४८॥
सर्वपापक्षयकरं सर्वसौभाग्यवर्द्धनम् ॥
पूज्यतां सैकतं लिंगं कुचकंकणलांछनम् ॥४९॥
अहं च निष्कलं रूपमास्थायैतद्दिवानिशम् ॥
आराधयामि मंत्रेण शोणेश्वरं वरप्रदम् ॥५०॥
मत्तपश्चरणाल्लोके मद्धर्मपरिपालनात् ॥
मल्लिंगदर्शनाच्चैव सिध्यंत्विष्टविभूतयः ॥५१॥
सर्वकामप्रदानेन कामाक्षीमिति कामतः ॥
मां प्रणम्यात्र मद्भक्ता लभंतां वांछितं वरम् ॥५२॥
अहं हि देवदेवस्य शंभोरव्याहतो जनः ॥
आदेशं पालयिष्यामि गत्वारुणमहीधरम् ॥५३॥
तत्र गत्वा तपस्तीव्रं कृत्वा शंभुं प्रसाद्य च ॥
मां तु लब्धवरां यूयं पश्चाद्रक्ष्यथ संगताः ॥५४॥
इति सर्वान्विसृज्याशु सद्भक्तान्पादसेविनः ॥
अरुणाद्रिं गता बाला तपसे शंकराज्ञया ॥५५॥
नित्याभिसेविताऽकारि सखीभिरभियोगतः ॥
आससादारुणाद्रीशं दिव्यदुंदुभिनादितम् ॥५६॥
अंतस्तेजोमयं शांतमरुणाचलनायकम् ॥
अप्सरोनृत्यगीतैश्च पूजितं पुष्पवृष्टिभिः ॥५७॥
प्रणम्य स्थावरं लिंगं कौतूहलसमन्विता ॥
सिद्धानां योगिनां सार्थमृषीणां चान्ववैक्षत ॥५८॥
अत्रिर्भृगुर्भरद्वाजः कश्यपश्चांगिरास्तथा ॥
कुत्सश्च गौतमश्चान्ये सिद्धविद्याधरामराः ॥५९॥
तपः कुर्वंति सततमपेक्षितवराप्तये ॥
गंगाद्याः सरितश्चान्याः परितः पर्युपासते ॥६०॥
दिव्यलिंगमिदं पूज्यमरुणाद्रिरिति स्मृतम् ॥
वंदस्वेति सुरैः प्रोक्ता प्रणनाम पुनःपुनः ॥६१॥
अभ्यर्थिता पुनः सर्वैरातिथ्यार्थे महर्षिभिः ॥
शिवाज्ञया गौतमो मे द्रष्टव्य इति सावदत् ॥६२॥
अयमत्रर्षिभिर्भक्तैर्निर्दिष्टं तमथाभ्यगात् ॥
स मुनिः शिवभक्तानां प्रथमस्तपसां निधिः ॥६३॥
वनांतरं गतेः प्रातः समित्कुशफलाहृतेः ॥
अतिथीनाश्रमं प्राप्तानर्चथेति दृढव्रतान् ॥६४॥
शिष्यानादिश्य धर्मात्मा गतश्च विपिनांतरम् ॥
अथ सा गौतमं द्रष्टुमागता पर्णशालिकाम् ॥६५॥
क्व गतो मुनिरित्युक्तैरित आयास्यति क्षणात् ॥
शिष्यैरभ्यर्थितेत्युक्त्वा फलमूलैस्सुगंधिभिः ॥६६॥
अभ्युत्थानेनासनेन पाद्येनार्घेण सूनृतैः ॥
वचनैः फलमृलेन सार्चिता शिष्यसंपदा ॥६७॥
क्षणं क्षमस्वसूनुस्तामन्ये जग्मुस्तदन्तिकम् ॥
देव्यां प्रविष्टमात्रायां महर्षेराश्रमो महान् ॥६८॥
अभवत्कल्पबहुलो मणिप्रासादसंकुलः ॥
वनांतरादुपावृत्त्य समित्कुशफलाहरः ॥६९॥
अपश्यत्स्वाश्रमं दूरे विमानशतशोभितम् ॥
किमेतदिति साश्चर्यं चिंतयन्मुनिपुंगवः ॥७०॥
गौर्याः समागमं सर्वमपश्यज्ज्ञानचक्षुषा ॥
शीघ्रं निवर्तमानोऽसौ द्रष्टुं तां लोकमातरम् ॥७१॥
शिष्यैः शीघ्रचरैर्वृत्तमावेदितमथाशृणोत् ॥७२॥
अथ महर्षिरुपागतकौतुको निजतपःफलमेव तदागमम् ॥
शिवदयाकलितं परिचिन्तयन्नभजदाश्रममाश्रितवत्सलः ॥७३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे पार्वत्याः कंपाया अरुणाचले गौतमाश्रमागमनंनाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP