संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः ०७ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः ०७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्णकृतमयोध्यागोपीगणानां पाणिपीडनम् Translation - भाषांतर श्रीनारद उवाच -अथ दूतः सिन्धुदेशान् माथुरान्पुनरागतः ।चरन् वृन्दावने कृष्णातीरे कृष्णं ददर्श ह ॥१॥कृष्णं प्रणम्य रहसि कृताञ्जलिपुटः शनैः ।प्रदक्षिणीकृत्य दूतो विमलोक्तमुवाच सः ॥२॥दूत उवाच -स्वयं परं ब्रह्म परः परेशःपरैरदृश्यः परिपूर्णदेवः ।यः पुण्यसंघैः सततं हि दूरःतस्मै नमः सज्जनगोचराय ॥३॥गोविप्रदेवश्रुतिसाधुधर्मरक्षार्थमद्यैव यदोः कुलेऽजः ।जातोऽसि कंसादिवधाय योऽसौतस्मै नमोऽनंतगुणार्णवाय ॥४॥अहो परं भाग्यमलं व्रजौकसांधन्यं कुलं नन्दवरस्य ते पितुः ।धन्यो व्रजौ धन्यमरण्यमेतद्यत्रैव साक्षात्प्रकटः परो हरिः ॥५॥यद्राधिकासुन्दरकण्ठरत्नंयद्गोपिकाजीवनमूलरूपम् ।तदेव मन्नेत्रपथि प्रजातंकिं वर्णये भाग्यमतः स्वकीयम् ॥६॥गुप्तो व्रजे गोपभिषेण चासिकस्तूरिकामोद इव प्रसिद्धः ।यशश्च ते निर्मलमाशु शुक्लीकरोति सर्वत्र गतं त्रिलोकीम् ॥७॥जानासि सर्वं जनचैत्यभावंक्षेत्रज्ञ आत्मा कृतिवृन्दसाक्षी ।तथापि वक्ष्ये नृपवाक्यमुक्तंपरं रहस्यं रहसि स्वधर्मम् ॥८॥या सिंधुदेशेषु पुरी प्रसिद्धाश्रीचम्पका नाम शुभा यथैन्द्री ।तत्पालकोऽसौ विमलो यथेन्द्रःत्वत्पादपद्मे कृतचित्तवृत्तिः ॥९॥सदा कृतं यज्ञशतं त्वदर्थंदानं तपो ब्राह्मणसेवनं च ।तीर्थं जपं येन सुसाधनेनतस्मै परं दर्शनमेव देहि ॥१०॥तत्कन्यकाः पद्मविशालनेत्राःपूर्णं पतिं त्वां मृगयंत्य आरात् ।सदा त्वदर्थं नियमव्रतस्था-स्त्वत्पादसेवाविमलीकृताङ्गाः ॥११॥गृहाण तासां व्रजदेव पाणीन्दत्वा परं दर्शनमद्भुतं स्वम् ।गच्छाशु सिन्धून् विशदीकुरु त्वंविमृश्य कर्तव्यमिदं त्वया हि ॥१२॥श्रीनारद उवाच -दूतवाक्यं च तच्छ्रुत्वा प्रसन्नो भगवान्हरिः ।क्षणमात्रेण गतवान् सदूतश्चम्पकां पुरीम् ॥१३॥विमलस्य महायज्ञे वेदध्वनिसमाकुले ।सदूतः कृष्ण आकाशात्सहसाऽवततार ह ॥१४॥श्रीवत्सांकं घनश्यामं सुन्दरं वनमालिनम् ।पीतांबरं पद्मनेत्रं यज्ञवाटागतं हरिम् ॥१५॥तं दृष्ट्वा सहसोत्थाय विमलः प्रेमविह्वलः ।पपात चरणोपांते रोमांची सन्कृताञ्जलिः ॥१६॥संस्थाप्य पीठके दिव्ये रत्नृहेमखचित्पदे ।स्तुत्वा सम्पूज्य विधिवद्राजा तत्संमुखे स्थितः ॥१७॥गवाक्षेभ्यः प्रपश्यन्तीः सुन्दरीर्वीक्ष्य माधवः ।उवाच विमलं कृष्णो मेघगंभीरया गिरा ॥१८॥श्रीभगवानुवाच -महामते वरं ब्रूहि यत्ते मनसि वर्तते ।याज्ञवल्क्यस्य वचसा जातं मद्दर्शनं तव ॥१९॥विमल उवाच -मनो मे भ्रमरीभूतं सदा त्वत्पादपंकजे ।वासं कुर्याद् देवदेव नान्येच्छा मे कदाचन ॥२०॥श्रीनारद उवाच -इत्युक्त्वा विमलो राजा सर्वं कोशधनं महत् ।द्विपवाजिरथैः सार्द्धं चक्रे आत्मनिवेदनम् ॥२१॥समर्प्य विधिना सर्वाः कन्यका हरये नृप ।नमश्चकार कृष्णाय विमलो भक्तितत्परः ॥२२॥तदा जयजयारावो बभूव जनमण्डले ।ववृषुः पुष्पवर्षाणि देवता गगनस्थिताः ॥२३॥तदैव कृष्णसारूप्यं प्राप्तोऽनंगस्फुरद्द्युतिः ।शतसूर्यप्रतीकाशो द्योतयन्मंडलं दिशाम् ॥२४॥वैनतेयं समारुह्य नत्वा श्रीगरुडध्वजम् ।सभार्यः पश्यतां नॄणां वैकुण्ठं विमलो ययौ ॥२५॥दत्वा मुक्तिं नृपतये श्रीकृष्णो भगवान्स्वयम् ।तत्सुताः सुन्दरीर्नीत्वा व्रजमंडलमाययौ ॥२६॥तत्र कामवने रम्ये दिव्यमन्दिरसंयुते ।क्रीडन्त्यः कंदुकैः सर्वाः तस्थुः कृष्णप्रियाः शुभाः ॥२७॥यावतीश्च प्रिया मुख्याः तावद् रूपधरो हरिः ।रराज रासे व्रजराड् अञ्जयंस्तन्मनाः प्रभुः ॥२८॥रासे विमलपुत्रीणां आनन्दजलबिन्दुभिः ।च्युतैर्विमलकुण्डोऽभूत् तीर्थानां तीर्थमुत्तमम् ॥२९॥दृष्ट्वा पीत्वा च तं स्नात्वा पूजयित्वा नृपेश्वर ।छित्वा मेरुसमं पापं गोलोकं याति मानवः ॥३०॥अयोध्यावासिनीनां तु कथां यः शृणुयान्नरः ।स व्रजेद्धाम परमं गोलोकं योगिदुर्लभम् ॥३१॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेअयोध्यापुरवासिन्युपाख्यानं नाम सप्तमोऽध्यायः ॥७॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP