माधुर्यखण्डः - अध्यायः ०२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच
गोपीनामृषिरूपाणामाख्यानं शृणु मैथिल ।
सर्वपापहरं पुण्यं कृष्णभक्तिविवर्धनम्॥१॥
वङ्गेषु मङ्गलो नाम गोप आसीन्महामनाः ।
लक्ष्मीवाञ्छ्रुतसम्पन्नो नवलक्षगवां पतिः॥२॥
भार्याः पञ्चसहस्राणि बभूवुस्तस्य मैथिल ।
कदाचिद्दैवयोगेन धनं सर्वं क्षयं गतम्॥३॥
चौरैर्नीतास्तस्य गावः काश्चिद्राज्ञा हृता बलात् ।
एवं दैन्ये च सम्प्राप्ते दुःखितो मङ्गलोऽभवत्॥४॥
तदा श्रीरामस्य वराद्दण्डकारण्यवासिनः ।
ऋषयः स्त्रीत्वमापन्ना बभूवुस्तस्य कन्यकाः॥५॥
दृष्ट्वा कन्यासमूहं स दुःखी गोपोऽथ मङ्गलः ।
उवाच दैन्यदुःखाढ्य आधिव्याधिसमाकुलः॥६॥
मङ्गल उवाच -
किं करोमि क्व गच्छामि को मे दुःखं व्यपोहति ।
श्रीर्न भूतिर्नाभिजनो न बलं मेऽस्ति साम्प्रतम्॥७॥
धनं विना कथं चासां विवाहो हा भविष्यति ।
भोजने यत्र सन्देहो धनाश तत्र कीदृशी॥८॥
सति दैन्ये कन्यकाः स्युः काकतालीयवद्गृहे ।
तस्मात्कस्यापि राज्ञस्तु धनिनो बलिनस्त्वहम्॥९॥
दास्याम्येताः कन्यकाश्च कन्यानां सौख्यहेतवे ।
कदर्थीकृत्य ता कन्याः एवं बुद्ध्या स्थितोऽभवत्॥
तदैव माथुराद्देशाद्गोपश्चैकः समागतः॥१०॥
नारद उवाच -
तीर्थयायी जयो नाम वृद्धोबुद्धिमतां वरः ।
तन्मुखान्नन्दराजस्य श्रुतं वैभवमद्भुतम्॥११॥
नन्दराजस्य बलये मङ्गलो दैन्यपीडितः ।
विचिन्त्य प्रेषयामास कन्यकाश्चारुलोचनाः ॥१२॥
ता नन्दराजस्य गृहे कन्यका रत्नभूषिताः ।
गवां गोमयहारिण्यो बभूवुर्गोव्रजेषु च ॥१३॥
श्रीकृष्णं सुन्दरं दृष्ट्वा कन्या जातिस्मराश्च ताः ।
कालिन्दीसेवनं चक्रुर्नित्यं श्रीकृष्णहेतवे ॥१४॥
अथैकदा श्यामलाङ्गी कालिन्दी दीर्घलोचना ।
ताभ्यः स्वदर्शनं दत्वा वरं दातुं समुद्यता ॥१५॥
ता वव्रिरे व्रजेशस्य पुत्रो भूयात्पतिश्च नः ।
तथास्तु चोक्त्वा कालिन्दी तत्रैवान्तरधीयत ॥१६॥
ताः प्राप्ता वृन्दकारण्ये कार्तिक्यां रासमण्डले ।
ताभिः सार्धं हरी रेमे सुरीभिः सुरराडिव ॥१७॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
ऋषिरूपोपाख्यानं नाम द्वितीयोऽध्यायः॥२॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP