माधुर्यखण्डः - अध्यायः ०४

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
कौशलानां गोपिकानां वर्णनं शृणु मैथिल ।
सर्वपापहरं पुण्यं श्रीकृष्णचरितामृतम् ॥१॥
नवोपनन्दगेहेषु जाता रामवराद्‌व्रजे ।
परिणीता गोपजनै रत्नरभूषणभूषिताः ॥२॥
पूर्णचन्द्रप्रतीकाशा नवयौवनसंयुताः ।
पद्मिन्यो हंसगमनाः पद्मपत्रविलोचनाः ॥३॥
जारधर्मेण सुस्नेहं सुदृढं सर्वतोऽधिकम् ।
चक्रुः कृष्णे नन्दसुते कमनीये महात्मनि ॥४॥
ताभिः सार्द्धं सदा हास्यं व्रजवीथीषु माधवः ।
स्मितैः पीतपटादानैः कर्षणैः स चकार ह ॥५॥
दधिविक्रयार्थं यान्त्यस्ताः कृष्ण कृष्णेति चाब्रुवन् ।
कृष्णे हि प्रेमसंयुक्ता भ्रमंत्यः कुंजमडले ॥६॥
खे वायौ चाग्निजलयोर्मह्यां ज्योतिर्दिशासु च ।
द्रुमेषु जनवृन्देषु तासां कृष्णो हि लक्ष्यते ॥७॥
प्रेमलक्षणसंयुक्ताः श्रीकृष्णहृतमानसाः ।
अष्टभिः सात्त्विकैर्भावैः संपन्नास्ताश्च योषितः ॥८॥
प्रेम्णा परमहंसानां पदवीं समुपागताः ।
कृष्णनन्दाः प्रधावन्त्यो व्रजवीथीषु ता नृप ॥९॥
जडा जडं न जानंत्यो जडोन्मत्तपिशाचवत् ।
अब्रुवन्त्यो ब्रुवन्त्यो वा गतलज्जा गतव्यथाः ॥१०॥
एवं कृतार्थतां प्राप्प्तास्तन्मया याश्च गोपिकाः ।
बलादाकृष्य कृष्णस्य चुचुंबुर्मुखपंकजम् ॥११॥
तासां तपः किं कथयामि राजन्
पूर्णे परे ब्रह्मणि वासुदेवे ।
याश्चक्रिरे प्रेम हृदिंद्रियाद्यै-
र्विसृज्य लोकव्यवहारमार्गम् ॥१२॥
या रासरंगे विनिधाय बाहुं
कृष्णांसयोः प्रेमविभिन्नचित्ताः ।
चक्रुर्वशे कृष्णमलं तपस्त-
द्‌वक्तुं न शक्तो वदनैः फणीन्द्रः ॥१३॥
योगेन सांख्येन शुभेन कर्मणा
न्यायादिवैशेषिकतत्त्ववित्तमैः ।
यत्प्राप्यते तच्च पदं वेदेहराट्
संप्राप्यते केवलभक्तिभावतः ॥१४॥
भक्त्यैव वश्यो हरिरादिदेवः
सदा प्रमाणं किल चात्र गोप्यः ।
सांख्यं च योगं न कृतं कदापि
प्रेम्णैव यस्य प्रकृतिं गताः स्युः ॥१५॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
कौशलोपाख्यानं नाम चतुर्थोऽध्यायः ॥४॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP