संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|महत् काण्डनाम अष्टादशकाण्ड:| ७१ ते ७५ महत् काण्डनाम अष्टादशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८२ अष्टादशकाण्ड: - ७१ ते ७५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ७१ ते ७५ Translation - भाषांतर ७१अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभाती: ।विश्वं तद् भद्रं यदवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥१॥इन्द्रो मा मरुत्वान् प्राच्या दिश: पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥२॥धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्वामिवोपरि।लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥३॥अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवीं द्यामिवोपरि ।लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥४॥आदित्योर्मादित्यै विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवीं द्यामिवोपरि। रुदिच्यालोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥५॥धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि ।लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥६॥प्राच्यां त्वा दिशि पुरा संवृत: स्वधायामा दधामि बाहुच्युता पृथिवी दृद्यामिवोपरि।लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥७॥दक्षिणायां त्वा दिशि पुरा संवृत: स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥८॥प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥९॥उदीच्यां त्वा दिशि पुरा संवृत: स्वधायामादधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥१०॥७२ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥१॥ऊर्ध्वायां त्वा दिशि पुरा संवृत: स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ॥२॥ध्रुवोसि धरुणोसि वंसगोसि । धृवोसि बंसगोसिउदपूरसि घृतपूरसि ऋतपूरसि मधुपूरसि वातपूरसि ॥३॥७३इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् ।प्र वां भरन् मानुषा देवयन्त: ॥१॥आ सीदतां स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे न:।युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एति पथ्येव सूरे: ॥२॥शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ।त्रीणि पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन । न्वेमीअक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनामि ॥३॥देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत ।बृहस्पतिर्यज्ञमकृण्वत ऋषिः प्रियां यमस्तन्वं प्रारिरेच ॥४॥त्वमग्न ईळितो जातवेदो ऽवाड्ढव्याणि सुरभीणि कृत्वा ।प्रादा: पितृभ्य: स्वधया ते अक्षनद्धि त्वं देव प्रयता हवींषी ॥५॥ .आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्त्याय ।पुत्रेभ्य: पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥६॥अग्निष्वात्ताः पितर एह गच्छत सद:सद सदत सुप्रणीतयः ।अत्तो हवींषि प्रयतानि बर्हिषि रयिं च न: सर्ववीरं दधात ॥७॥त आ गमन्तु त इह श्रुवन्त्वधि बुवन्तु तेवन्त्वस्मान् ॥८॥ये न: पूर्वे पितर: सोम्यासो अनूजहिरे सोमपीथं वसिष्ठा:।तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥९॥ये तातृषुर्देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः ।आग्ने याहि सुविदत्रेभिरर्वाङ् सत्यै: कव्यैः पितृभिर्घर्मसद्भिः ॥१०॥७४ये सत्यास्यो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः ।अग्ने याहि सहस्रं देववन्दैः परै: पूर्वैः पितृभिर्घर्मसद्भि: ॥१॥उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।ऊर्णम्रदा पृथिवी दक्षिणावत एषा त्वा पातु निर्ऋतेरुपस्थात् ॥२॥उच्छवञ्चस्व पृथिवी मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना ।माता पुत्रं यथा सिचा ऽभ्येनं भूम ऊर्णुहि ॥३॥उच्छवञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥४॥उत् ते स्तभ्नाति पृथिवीं त्वत् परीमं लोगं निदधन्मो अहं रिषम्।एतां स्थूणां पितरो धारयन्त्यत्रा यमः सादना ते कृणोतु ॥५॥अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते ।तस्मिन् कृणोतु सुकृतस्य भक्षं तस्मिन्निन्दुः पवते विश्वदानीम् ॥६॥अमुमग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।एष यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ते ॥७॥यत् ते कृष्ण: शकुन आतुतोद पिपील: सर्प उत वा श्वापद: ।अग्निष्टद् विश्वादापृणातु विद्वान् सोमश्च यो ब्राह्मणाङ् आविवेश ॥८॥पयस्वतीरोषधय: पयस्वन्मामकं पय: ।अथो पयस्वदित् पयस्तेन मा सह जिन्वथ ॥९॥इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु ।अनश्रवो अनमीवा: सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥१०॥७५सं गच्छस्व पितृभि: संविदानेष्टापूर्तेन परमे व्योमन् ।हित्वावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः ॥१॥ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिव: स्वधया मादयन्ते ।तेभ्य: स्वराडसुनितिमेतां यथावशं तन्व: कल्पयाति ॥२॥आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते ।शरीरमस्य सं दहाथैनं थेहि सुकृतामु लोके ॥३॥पुनर्देहि वनस्पते य एष निहितस्त्वयि ।यथा यमस्य सादन आसातै विदथा वदन् ॥४॥शं ते निहारो भवतु शं ते प्रुष्वाव शीयताम् ।शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।मण्डूक्याप्सु शं भुव इमं स्वग्निं शमय ॥५॥विवस्वान् नो अभयं कृणोतु परैतु मृत्युरमृतं न ऐतु ।इहेमे वीरा बहवो भवन्त्वश्वन् गोमन्मय्यस्तु पुष्टम् ॥६॥विवस्वान् नो अमृतत्वे दधातु यः सुत्रामा जीरदानुः सुदानुः । जिरइमान् रक्षः पुरूषाना जरिम्णो मो ष्वेषामसवो यमं गुः ॥७॥यो दध्रे अन्तरिक्षे न मह्ना पितृणां कवि: प्रमतिर्मतीनाम् ।तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥८॥आ रोहत दिवमुत्तमामृषयो मा बिभीतन ।सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम् ॥९॥प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति ।दिवश्चिदन्ताङ् उपमुदानडपामुपस्थे महिषो ववर्ध ॥१०॥नाके सुपर्णमुप यत् पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा ।हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥११॥इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।शिक्षा णो अस्मिन् पुरुहूत वाजिनि जीवा ज्योतिरशीमहि ॥१२॥ये ते पूर्व परागता अपरे पितरश्व ये ।तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥१३॥(ढ्रति महत्कण्डनाम अष्टादशाकाण्डे एकादशोऽनुवाकः) N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP