संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|पैप्पलादसंहिता|महत् काण्डनाम अष्टादशकाण्ड:| ११ ते १५ महत् काण्डनाम अष्टादशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८२ अष्टादशकाण्ड: - ११ ते १५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११ ते १५ Translation - भाषांतर ११यं नो ददुर्ब्रह्मभागं वधूयोर्वासो वध्वश्च वस्त्रम् ।युवं ब्रह्मणेनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥१॥देवैर्दत्तं मनुना साकमेतद् वाधूयं वध्वो वासो अस्याः ।यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्प्यानि हन्ति ॥२॥स्योनाद्योनेरधि बुध्यमानौ हसामुदौ महसा मोदमानौ ।सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभाती: ॥३॥नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभाति: ।आण्डात् पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥४॥शुंभनी द्यावापृथिवी अन्तिशुम्ने महिव्रते ।आपः सप्त स्रवन्तीस्ता नो मुञ्चन्त्वंहसः ॥५॥सुर्यायै देवेभ्यो मित्राय वरुणाय च ।ये भूतस्य प्रचेतसस्तेभ्योहमकरं नम: १ ॥६॥य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।संधाता संधि मघवा पुरूवसुर्निष्कर्ता विहृतं पुन: ॥७॥अपास्मत् तम उछतु नीलं पिशङ्गमुत लोहितं यत्॥निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सृजामि ॥८॥यावती: कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशात् ।व्यृद्धयो या असमृद्धयश्चास्मिन् ता स्थाणौ प्रति मुञ्चामि सर्वाः ॥९॥ये अन्ता यावती: सिचो ओतवो ये च तन्तव: ।वासो यत् पत्नीभिरुतं तन्मा स्योनमुप स्पृशात् ॥१०॥१२उशतीः कन्यला इमा: पितृलोकात् पतिं यतीः ।अव दीक्षामसृजत स्वाहा ॥१॥बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।वर्चो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥२॥बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।तेजो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि ॥३॥बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।पयो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि ॥४॥बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।यशो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि ॥५॥बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।भगो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि ॥६॥यदसौ दुहिता तव विकेश्यरुदद्बहु रोदेन कृण्वत्यघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥७॥यदमी केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥८॥यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥९॥यदमू दंपती उभौ विवाहे अघमारुतो रोदेन कृण्वन्तावघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥१०॥१३यत्ते प्रजायां पशुषु यद् वा गृहेषु निष्ठितमघकृद्भिरघं कृतम्।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥१॥इयं नार्युप ब्रूते पूल्यान्यावपन्तिका ।दीर्घायुरस्तु मे पतिरेधन्तां पितरो मम ॥२॥इहेमाविन्द्र सं नुद चक्रवाकेव दंपती ।प्रजावन्तौ स्वस्तकौ दीर्घमायुर्व्यश्नुताम् ॥३॥यदासन्द्यामुपधाने यद् वोपवासने कृतम् ।विवाहे कृत्यां यां चक्रुरास्नाने तां निदध्मसि ॥४॥यद् दुष्कृतं यच्छमलं विवाहे वहतौ च यत् ।तत् संभलस्य कम्बले मृज्महे दुरितं वयम् ॥५॥सम्भले मलं सादयित्वा कम्बले दुरितं वयम् ।अभूम यज्ञिया: शुद्धाः प्र ण आयुंषि तारिषत् ॥६॥या मे प्रियतमा तनू: सा मे बिभाय वाससः ।तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥७॥कृत्रिमः कङ्कतः शतदन् य एष: ।अपास्या: केश्यं मलमप शीर्षण्यं लिखात् ॥८॥अङ्गादङ्गाद् यूयमस्या अप यक्ष्मं नि धत्तन ।तन्मा प्रापत् पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् ।अपो मा प्रापन्मलमेतदग्ने यमं मा प्रापत् पितॄंश्च सर्वान् ॥९॥सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥१०॥१४अमोहमस्मि सा त्वं द्यौरहं पृथिवी त्वम् ।मनोहमस्मि वाक्त्वं ताविह सं भवाव प्रजामा जनयावहै ॥१॥जनियन्ति नो अग्रव: पुत्रियन्ति सुदानव: ।अरिष्टास: सचेमहि बृहते वाजसातये ॥२॥ये पितरो वधूदर्शा इमं वहतुमागमन् ।ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यच्छन्तु ॥३॥येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा ।तां वहन्त्वगतस्याभि पन्थां विराडियं सुप्रजा अत्यजैषीत् ॥४॥प्र बुध्यस्व सुबुधा बुध्यमाना दोघर्षायुत्वाय शतशारदाय ।गृहान् प्रेहि सुमनस्यमाना दीर्घं त आयुः सविता कृणोतु ॥५॥वि ते मुञ्चामि रशनां वि रश्मीन् वि योक्त्राणि परिचर्तनानि च।अरिष्टास्मिन् ज्योतिषि शिवा गृहपतौ भव ॥६॥स्योना भव श्वसुरेभ्य: स्योना पत्ये गृहेभ्य: !स्योनास्यै सर्वस्यै दृशे स्योना पुष्टायैषां भव ॥७॥(इति महत् कायडनाम अष्टादशकाण्डे द्वितीयो अनुवाक:)१५उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सुनृतावत् । तु. शौनकीय संहिता १३.१.१यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं पिपर्तु ॥१॥उद् वाज आ गन् यो अप्सन्तर्विश आ रोह त्वद्योनयो याः ।सोमं दधानोप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥२॥यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् ।आ वो रोहितः शृणवत् सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥३॥रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् ।ताभिः संरब्धो अन्वविन्दत् षडुर्वी गातुं प्रपश्यन्निह राष्ट्रमाहाः ॥४॥आ। ते राष्ट्रमिह रोहितोहार्मृधो व्यास्थदभयं ते अभूत् ।तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ॥५॥रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान ।तत्र शिश्रियेज एकपादोदृंहद् द्यावापृथिवी बलेन ॥६॥रोहितो द्यावापृथिवी अदृंहत् तेन स्वस्तभितं तेन नाकः ।तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दम् ॥७॥वि रोहितो अमृशद विश्वरूपं समाकृण्वान: प्ररुहो रुहश्च ।दिवं रुढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥८॥यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् ।तासां ब्रह्मणा पयसा वावृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥९॥यास्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः ।तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP