अष्टादशकाण्ड: - ६१ ते ६५

पैप्पलादसंहिता


६१
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात् ॥१॥
सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणा: ।
आसद्यास्मिन् बर्हिषि मादयध्वं अनमीवा इष आ धेह्यस्मे ॥२॥
सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।
सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥३॥
उदीरतामवर उत् परास उन्मध्यमा: पितर: सोम्यासः ।
असुं य ईयुरवृका ऋतज्ञास्ते नोवन्तु पितरो हवेषु ॥४॥
अहं पितॄन् सुविदत्राङ् अवित्सि नपातं च विक्रमणं च विष्णो: ।
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठा: ॥५॥
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये ऽपरासः परे ईयुः ।
ये पार्थिवे रजस्या निषता ये वा नूनं सुवृजनासु दिक्षु ॥६॥
मातली कवैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः ।
यांश्च देवा वावृधुर्ये च देवान् त्स्वाहान्वे स्वधयान्वे मदन्ति ॥७॥
स्वादुष्किलायं मधुमाङ् उतायं तीव्र: किलायं रसवाङ् उतायम् ।
उतो न्वस्य पपिवाङ्समिन्द्रं न कश्चन सहत आहवेषु ॥८॥
परेयिवासं प्रवतो महीरिनु बहुभ्यः पन्थामनुपस्पशानम् ।
वैवस्वतं सङ्गमनं जनानां यमं राजानं हविषा दुवस्य ॥९॥
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । गव्युति
यत्रा नः पूर्वे पितरः परेयुरेना यज्ञाना: पथ्या अनु स्वा: ॥१०॥पुर्वे

६२
बर्हिषद: पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।
त आ गतावसा शंतमेनाधा न: शं योररपो दधात् ॥१॥
आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे ।
मा हिंशिष्ट पितरः केन चिन्नो यद् व आगः पुरुषता कराम ॥२॥
त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति ।
यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥३॥
प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा ते पूर्वे पितरः परेता: ।
उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥४॥
अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन्॥
अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥५॥
उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि । नीधी
अशन्नुशत आ वह पितॄन् हविषे अत्तवे ॥६॥
द्युमन्तस्त्वा निधीमहि द्युमन्तः समिधीमहि । नीधीमहि
द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥७॥
(इति महत् काण्डनाम अष्टादशकाण्डे दशमो अनुवाक:)

६३
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यास: । तु. शौनक संहिता ११.५८
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥१॥
अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व ।
विवस्वन्तं हुवे य: पिता ते अस्मिन् यज्ञे बर्हिष्या निषद्यः ॥२॥
इमं यम: प्रस्तरमा हि सीदाङ्गिरोभिः पितृभि: संविदानः ।
आ त्वा मन्त्रा: कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥३॥
यमाय सोमं सुनुत यमाय जुहुता हवि: ।
यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृत: ॥४॥
यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत ।
स नो जीवेष्वा यमेद् दीर्घमायुष्प्रजीवसे ॥५॥
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन ।
इदं नमो ऋषिभ्यः पूर्वजेभ्य: पूर्वेभ्यः पथिकृद्भ्य: ॥६॥
त्रिकटुकेभि: पतति षडुर्वीरेकमिद् बृहत् ।
त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥७॥
मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
यदा शृतं कृणवो जातवेदो ऽथेमेनं प्र हिणुतात् पितृभ्यः ॥८॥
शृतं यदा करसि जातवेदो ऽथेमेनं परि दत्तात् पितृभ्य: ।
यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवति ॥९॥
सूर्यं चक्षुर्गच्छतु वातमात्मना दिवं च गच्छ पृथिवीं च धर्मणा ।
आपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठाः शरीरैः ॥१०॥

६४
अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥१॥तु. शौनक संहिता १२.८
यास्ते शोचयो रंहयो जातवेदस्तन्वः क्रूराः पर्यङ्खयाते । क्रुराः
अजं यन्तमनु तास्ते समृण्वतामथेतराभि: शिवतमाभिः शृतं कृधि ॥२॥
अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः ।
आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः ॥३॥
अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।
अधा पितॄन् त्सुविदत्राङ् उपेहि यमेन ये सधमादं मदन्ति ॥४॥
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा ।
ताभ्यामेनं परि धेहि राजन् स्वस्ति चास्मा अनमीवं च धेहि ॥५॥
उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनाङ् अनु ।
तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥६॥
सोम एकेभ्यः पवते घृतमेक उपासते ।
येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात् ॥७॥
ये च पूर्वे ऋतसाता ऋतजाता ऋतायव: ।
पितॄन् तपस्वतो यम तपोजाङ् अपि गच्छतात् ॥८॥
तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।
तयो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात् ॥९॥
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
ऋषीन् तपस्वतो यम तपोजाङ् अपि गच्छतात् ॥१०॥

६५
ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः ।
ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ॥१ ॥तु. शौनक संहिता १२.१७
सोनास्मै पृथिवी भवानृक्षरा निवेशनी ।
यच्छास्मै शर्म सप्रथा: ॥२॥
असंबाधे पृथिव्या उरी लोके नि धीयते ।
स्वधा याश्चक्रुषे जीवन् तास्ते सन्तु मधुश्चुत: ॥३॥
ह्वयामि ते मनसा मन इमान् गुहान् उप जुजुषाण एहि ।
सं गच्छस्व पितृभिर्यच्च दत्तं स्योनास्त्वा
वाता उप वान्तु शग्मा: ॥४॥
आ त्वा वहन्तु मरुत उदवाहा उदप्लुतः ।
अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥५॥
उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे ।
स्वान् गच्छतु ते मनो अधा पितॄन् उप द्रवः ॥६॥
मा ते मनो मासोर्माङ्गानां मा रसस्य ते ।
मा ते हास्त तन्वः कि चनेह ॥७॥
मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही ।
लोकं पितृषु वित्त्वैधस्व यमराजसु ॥८॥
यत् ते अङ्ग विनिहतं पराचैरपान: प्राणो य उ ते परेत: ।
तत् ते संगत्य पितर: सनीडा घासे घासमा सादयन्तु ॥९॥
अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादित: ।
मृत्युर्यमस्यासीद् दूत: प्रचेता असून् पितृभ्यो गमयां चकर्थ ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP