संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|महत् काण्डनाम अष्टादशकाण्ड:| ५६ ते ६० महत् काण्डनाम अष्टादशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८२ अष्टादशकाण्ड: - ५६ ते ६० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ५६ ते ६० Translation - भाषांतर ५६सप्तभि पराङ् तपस्येकयार्वाङ् अशस्तिमेषि सुदिने वाधमानः।त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदंतवेद् विष्णो बहुधा वीर्याणि।त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥१॥त्वमिन्द्रस्त्वं महेन्द्रस्त्वं विष्णुस्त्वं प्रजापति: ।तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस्तवेद् विष्णो बहुधा वीर्याणि।त्वं नः पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥२॥असति सत् प्रतिष्ठितं सति भूतं प्रतिष्ठितम्।भूतं ह भव्य आहितं भव्यं भूते समाहितं तवेद् विष्णो बहुधा वीर्याणि।त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥३॥शुक्रो असि भ्राजो असि।स यथा त्वं भ्राजता भ्राजोस्येवाहं भ्राजता भ्राज्यासम् ॥४॥रुचिरोसि रोचो असि।स यथा त्वं रुच्या रोचोस्येवाहं प्रजयापशुभिर्ब्राह्मणवर्चसेन रुचिषीय ॥५॥उद्यते नम उदायते नम उदिताय नमः ।विराजे नम: स्वराजे नम: सम्राजे नम: ॥६॥अस्तंयते नमोस्तमेष्यते नमोस्तमिताय नम:॥विराजे नम: स्वराजे नम: सम्राजे नम: ॥७॥आदित्या नावमारुक्ष: शतारित्रां स्वस्तये ।अहर्नो अत्यपीपरो रात्रिं सत्राति पारय ॥८॥सूर्य नावमारुक्ष: शतारित्रां स्वस्तये ।रात्रिं नो अत्यपीपरोह: सत्राति पारय ॥९॥प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।जरदष्टि: कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ॥१०॥ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्त उत भव्येन चाहम् ।मा मा प्रापन्निषवो दैव्या या मा मानुषीरवसृष्टा वधाय ॥११॥परिवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।मा मा प्रापत् पाप्मा मोत मृत्युरन्तर्दधेहं सलिलेन वाचः ॥१२॥अग्निर्मा गोपाः परि पातु विश्वतो व्युच्छन्तीरुषसः पर्वता ध्रुवा: ।उद्यन् सूर्यो नुदतां मृत्युपाशान् सहस्रं प्राणा मयि ते रमन्ताम् ॥१३॥(इति महत् काण्डनाम अष्टादशाकाण्डे नवमो ऽनुवाकः)। महत्काण्डे द्वितीयखण्ड: समाप्त: ।अथ महत् काण्डे मङ्गला खण्डम्५७ओ चित् सखायं सख्या ववृत्यां तिर: पुरू चिदर्णवं जगन्वान् । तु. शौनकीय संहिता ११.१पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दध्यान: ॥१॥न ते सखा सख्यं वष्टयेतत् सलक्ष्मा यद् विषुरूपा भवाति॥महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥उशन्ति घा ते अमृतास एतदेकस्य चित् त्यजसं मर्त्यस्य ।नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ॥३॥न यत् पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम ।गन्धर्वो अप्स्वप्या च योषा सा नो नाभि: परमं जामि तन्नौ ॥४॥गर्भे नू नौ जनिता दंपती कर्देवस्त्वष्टा सविता विश्वरूपः ।नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥को अद्य युङक्ते धुरि गा ऋतस्य शिमीवतो भामिनो दूर्हृणायून् ।आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत् स जीवात् ॥६॥को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् ।बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नृन् ॥७॥यमस्य मा यम्यं काम आगन् त्समाने योनौ सहशेय्याय ।जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्वेव चक्रा ॥८॥न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । ईहअन्येन मदाहनो याहि तूयं तेन वि वृह रथ्वेव चक्रा ॥९॥रात्रीभिरस्मा अहभिर्दशस्येत् सूर्यस्य चक्षुर्मुहरुन्मिमीयात् ।दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ॥१०॥५८आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि । तु. शौनकीय अथर्ववेद ११.११उप बर्बहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥१॥किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निऋतिर्निगच्छा ।काममूता बह्वेतद् रपामि तन्वा मे तन्वं सं पिपृग्धि ॥२॥न वा उ ते तन्वा तनूं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् ।अन्येन मत् प्रमुद: कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥३॥न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् ।असंयदेतमनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥४॥बतो बतासि यम नैव ते मनो हृदयं चाविदाम ।अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् ॥५॥तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ।अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् ॥६॥त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् ।वाता आपो ओषधयस्तान्येकस्मिन् भुवनार्पितानि ॥७॥वृषा वृष्णे दुदुहे दोहसा दिव: पयांसि यह्वो अदितेरदाभ्य:।विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियान् ऋतून् ॥८॥रपद् गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मन: ।इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठ: प्रथमो वि वोचति ॥९॥सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥१o॥५९अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषिर: श्येनो अध्वरे ।यदी विशी वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥१॥सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वर: ।विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवाङ् उपयाहि भूरिभि: ॥२॥उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥३॥यस्ते अग्ने सुमतिं मर्तो अख्यत् सहसः सूनो ऽति स प्र श्रुण्वे ।इषं दधानो वहमानो अश्वैरा स द्युमाङ् अमवान् भूषति द्यून् ॥४॥द्युन्श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा प्रथममृतस्य द्रवित्नुम् ।आ नो वह रोदसी वेदपुत्रे माकिर्देवानामप भूरिह स्या: ॥५॥यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥६॥प्रत्यग्निरुषसामग्रमख्यत् प्रत्यहानि प्रथमो जातवेदा: ।प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥७॥अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदा: ।अनु सूर्यस्य पुरुधा च रश्मीननु द्यावापृथिवी आ ततान ॥८॥द्यावा ह क्षामा प्रथमे ऋतेनाभि ऽश्रावे भवत: सत्यवाचा ।देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ् स्वमसुं यन् ॥९॥देवो देवान् परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।धूमकेतु: समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥१०॥६०अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । शृणतंअहा यद् देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥१॥स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।विश्वे देवा अनु तत् ते यजुर्गुदुहे यदेनी दिव्यं घृतं वा: ॥२॥किं स्विनो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति।३॥दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति ।यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥४॥यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ॥५॥यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।मित्रो नो अत्रादितिरनागान् सविता देवो वरुणाय वोचत् ॥६॥सखाय आ शिषामहे ब्रहोन्द्राय वज्रिणे ।स्तुष ऊ षु नृतमाय धृष्णवे ॥७॥शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।मधैर्मघोनो अति शूर दाशसि ॥८॥स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ ।मित्रो नो अत्र वरुणो युज्यमानो अग्निर्वने न व्यसृष्ट शोकम् ॥९॥स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् ।मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत् ते नि वपन्तु सेन्यम् ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP